Jump to content

Bhagavatatatparyanirnaya/C6/S4: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 15: Line 15:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V24
| verse_id = BTN_C06_S04_V24
| id      = BTN_C06_S04_V24_B1
| id      = BTN_C06_S04_V24_B1
| name    = Bhashyam
| text    =
| text    =
गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति ।
गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति ।
Line 37: Line 36:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V25
| verse_id = BTN_C06_S04_V25
| id      = BTN_C06_S04_V25_B1
| id      = BTN_C06_S04_V25_B1
| name    = Bhashyam
| text    =
| text    =
'देहमानी वैश्रवणो मरुतः प्राणमानिनः ।
'देहमानी वैश्रवणो मरुतः प्राणमानिनः ।
Line 61: Line 59:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V26
| verse_id = BTN_C06_S04_V26
| id      = BTN_C06_S04_V26_B1
| id      = BTN_C06_S04_V26_B1
| name    = Bhashyam
| text    =
| text    =
केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् ।
केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् ।
Line 85: Line 82:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V27
| verse_id = BTN_C06_S04_V27
| id      = BTN_C06_S04_V27_B1
| id      = BTN_C06_S04_V27_B1
| name    = Bhashyam
| text    =
| text    =
इच्छादिरूपेण त्रिवृद्भिः ।
इच्छादिरूपेण त्रिवृद्भिः ।
Line 112: Line 108:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V28
| verse_id = BTN_C06_S04_V28
| id      = BTN_C06_S04_V28_B1
| id      = BTN_C06_S04_V28_B1
| name    = Bhashyam
| text    =
| text    =
'इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते''॥ इति च ।
'इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते''॥ इति च ।
Line 133: Line 128:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V29
| verse_id = BTN_C06_S04_V29
| id      = BTN_C06_S04_V29_B1
| id      = BTN_C06_S04_V29_B1
| name    = Bhashyam
| text    =
| text    =
अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः ।
अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः ।
Line 154: Line 148:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V30
| verse_id = BTN_C06_S04_V30
| id      = BTN_C06_S04_V30_B1
| id      = BTN_C06_S04_V30_B1
| name    = Bhashyam
| text    =
| text    =
सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव ।
सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव ।
Line 177: Line 170:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V32
| verse_id = BTN_C06_S04_V32
| id      = BTN_C06_S04_V32_B1
| id      = BTN_C06_S04_V32_B1
| name    = Bhashyam
| text    =
| text    =
'मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् ।
'मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् ।
Line 200: Line 192:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V33
| verse_id = BTN_C06_S04_V33
| id      = BTN_C06_S04_V33_B1
| id      = BTN_C06_S04_V33_B1
| name    = Bhashyam
| text    =
| text    =
'तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् ।
'तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् ।
Line 229: Line 220:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V34
| verse_id = BTN_C06_S04_V34
| id      = BTN_C06_S04_V34_B1
| id      = BTN_C06_S04_V34_B1
| name    = Bhashyam
| text    =
| text    =
'स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु ।
'स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु ।
Line 253: Line 243:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V45
| verse_id = BTN_C06_S04_V45
| id      = BTN_C06_S04_V45_B1
| id      = BTN_C06_S04_V45_B1
| name    = Bhashyam
| text    =
| text    =
'विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः ।
'विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः ।
Line 272: Line 261:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V46
| verse_id = BTN_C06_S04_V46
| id      = BTN_C06_S04_V46_B1
| id      = BTN_C06_S04_V46_B1
| name    = Bhashyam
| text    =
| text    =
'तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः ।
'तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः ।
Line 295: Line 283:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V47
| verse_id = BTN_C06_S04_V47
| id      = BTN_C06_S04_V47_B1
| id      = BTN_C06_S04_V47_B1
| name    = Bhashyam
| text    =
| text    =
सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् ।
सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् ।
Line 318: Line 305:
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V48
| verse_id = BTN_C06_S04_V48
| id      = BTN_C06_S04_V48_author-note
| id      = BTN_C06_S04_V48_author-note
| name    = Bhashyam
| text    =
| text    =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
}}
}}

{{Commentary
{{Bhashyam
| verse_id = BTN_C06_S04_V48
| verse_id = BTN_C06_S04_V48
| id      = BTN_C06_S04_V48_B1
| id      = BTN_C06_S04_V48_B1
| name    = Bhashyam
| text    =
| text    =
गुणतोऽनन्ते ।
गुणतोऽनन्ते ।

Revision as of 09:01, 10 April 2026

न यस्य सख्यं पुरुषो वेत्ति सख्युःसखा वसन् संवसतः पुरेऽस्मिन् ।

गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति ।

'यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः ।

तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोस्तु ते॥ इति स्कान्दे ॥ २४ ॥
देहोऽसवोऽक्षा मनवो भूतमात्रानात्मानमन्यं च विदुः परं यत् ।

'देहमानी वैश्रवणो मरुतः प्राणमानिनः ।

इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः ॥ नैते विदन्ति स्वात्मानं परं वापि विमोहिताः । जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः ॥

सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्॥ इति च ॥ २५ ॥
यदोपरामो मनसो नामरूप-रूपस्य दृष्टिस्मृतिसंप्रमोषात् ।

केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् ।

'यदोपरामो मनसः स्वप्नसुप्तिलयादिषु । तदावस्थाप्रबोधादिकारणत्वेन केशवः ॥ अस्वातन्त्र्यात्तु जीवस्य विद्यतेऽन्यो नियामकः ।

जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ तदा विभुः॥ इति हरिवंशेषु ॥२६॥
मनीषिणोऽन्तर्हृदि सन्निवेशितंस्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।

इच्छादिरूपेण त्रिवृद्भिः ।

'इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः । विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः ॥ जायन्ते तत्प्रसादेव ताश्च पीठे प्रपूजयेत् । तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः॥ इति तन्त्रनिर्णये । 'दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः । चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः ॥

बुद्धेर्भेदेन वैतेषु पाञ्चदश्योऽथ संस्थितेः॥ इति च ॥ २७ ॥
स वै ममाशेषविशेषमाया-निषेधनिर्वाणसुखानुभूतिः ।

'इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते॥ इति च । 'तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः॥ इति च ॥ २८ ॥
यद्यन्निरुक्तं वचसा निरूपितंधियाऽक्षिभिर्वा मनसा वोत यस्य ।

अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः । तथापि वेदेषूक्तत्वादुक्तो रूपित एव च॥ इति व्योमसंहितायाम् ॥ २९ ॥
यस्मिन् यतो येन च यस्य यस्मैयं यो यथा कुरुते कार्यते वा ।

सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव ।

'विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् । एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः॥ इति भविष्यत्पर्वणि ॥

'अनन्यः सदृशाभावादेको रूपाद्यभेदतः॥ इति च ॥ ३० ॥
अस्तीति नास्तीति च वस्तुनिष्ठयो-रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।

'मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् ।

अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः ॥ निषेधविध्योर्विषयः फलदाता च केशवः ।

तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः॥ इति च ॥ ३२ ॥
योऽनुग्रहार्थं भजतां पादमूल-मनामरूपो भगवाननन्तः ।

'तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् ।

अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत् ॥ नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्य तु । अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु॥ इति प्रकाशसंहितायाम् । 'अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः । कंसारित्वादिसामर्थ्यो व्यक्तरूपोऽवतारगः॥ इति च । 'लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे । अथ दामोदरादीनि लोकदृष्ट्या समानि तु ॥ आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम् ।

स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितःइति च ॥ ३३ ॥
यः प्राकृतैर्ज्ञानपथैर्जनानांयथाशयं देहगतो विभाति ।

'स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु ।

मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् ॥ पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् । उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च ॥ बुद्धिशुध्द्यनुसारेण यथाप्राणं शरीरगम् । श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः ॥

देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनःइति च ॥ ३४ ॥
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥

'विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः । तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः ॥ इति तन्त्रनिर्णये ॥ ४५ ॥
तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥

'तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः ।

विद्यारूपा तथैवोमा विष्णोस्तनुमुपाश्रिता ॥ शृृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः । ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् ॥ प्राणे वायुश्चित्तगतो ब्रह्मान्याः खेषु देवताः॥ इति च ॥

'यदाश्रितं यद्भवति तत्तन्नामकमीरितम्॥ इति शब्दनिर्णये ॥ ४६ ॥
अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥

सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् ।

'नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् । आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना ॥ असुप्तः सुप्त इव च मीलिताक्षोऽभवद्धरिः । अन्यत्रानादराद्विष्णौ श्रीश्च लीनेव कथ्यते ॥

सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते॥ इति मात्स्ये ॥ ४७ ॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
गुणतोऽनन्ते ।

'प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते । तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।

अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च॥ इति तन्त्रभागवते ॥ ४८ ॥