ब्रह्मसूत्रभाष्यम्/C03/S02/A026: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
कर्मानुस्मृत्यधिकरणम्
ॐ स एव च कर्मानुस्मृतिशब्दविधिभ्यः ॐ ॥ 09-332 ॥
इति कर्मण्यवधारणात् ॥न च केषाञ्चित् स्वप्नादिकर्ता न तु सर्वेषामिति ।
‘एष ह्येव साधु कर्म कारयति’
‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु ।
परमः पुरुषो विष्णुस्ततोऽन्यो नास्ति कश्चन’ इत्यनुसारिस्मृतेश्च ॥
‘एष स्वप्नान् दर्शयत्येष प्रबोधयथ्यैष एव परम आनन्दः’ इति च श्रुतिः ॥
आत्मानमेव लोकमुपासीत’ इति च विधिः ॥ 09 ॥