Chandogya/C7: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 17: | Line 17: | ||
| id = CHU_C07_V01_B01 | | id = CHU_C07_V01_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यद्वेत्थ तेन तदुक्त्वा मामुपसीद । | यद्वेत्थ तेन तदुक्त्वा मामुपसीद । | ||
| Line 35: | Line 34: | ||
| id = CHU_C07_V02_B02 | | id = CHU_C07_V02_B02 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पितृलक्षणं तु पित्र्यं स्याद्राशिः स्यात् पूगलक्षणम् । | पितृलक्षणं तु पित्र्यं स्याद्राशिः स्यात् पूगलक्षणम् । | ||
देवतालक्षणं दैवं निधिश्च निधिलक्षणम् ॥ | |||
वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः । | |||
एकायनमितिप्रोक्तं देवविद्या त्वमानुषी ॥ | |||
देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम् । | |||
भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका ॥ | |||
नाक्षत्री ज्यौतिषाख्या च सर्पलक्षणमेव च । | |||
सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा ॥ | |||
सा देवजनविद्या स्यादेता वेद स नारदः ॥ इति सामसंहितायाम् । | |||
}} | }} | ||
| Line 77: | Line 75: | ||
| id = CHU_C07_V03_B03 | | id = CHU_C07_V03_B03 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान् । | विद्यानां निर्णयाज्ञानादविद्वानुच्यते पुमान् । | ||
सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये ॥ | |||
कुमारमैच्छद्देवर्षिर्नारदो ब्रह्मवित्तमम् ॥ इति च । | |||
विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृताः । | |||
नामाभिमानिनी चोषा तस्या ब्रह्म परं स्मरेत् ॥ | |||
यदेषा न त्वमेया स्यान्मीयते ह्युषसि ध्रुवम् । | |||
रात्रिमानमजानदि्भस्ततो नामेत्युषा स्मृता ॥ १ ॥ | |||
}} | }} | ||
| Line 109: | Line 106: | ||
| id = CHU_C07_V04_B04 | | id = CHU_C07_V04_B04 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः । | तस्यास्तु भूयसी स्वाहा धर्मज्ञानसुखादिभिः । | ||
सर्वैगुणैर्विमुक्तौ च तथा बन्धे च सर्वदा ॥ | |||
वाचोभिमानिनी सैव वाङ्ग्नाम्नी चाञ्चनाद्वसोः ॥ २ ॥ | |||
}} | }} | ||
| Line 137: | Line 133: | ||
| id = CHU_C07_V05_B01 | | id = CHU_C07_V05_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । | एवं तस्या विमुक्तौ च पर्जन्यः सर्वतो वरः । | ||
मनोभिमानी सम्प्रोक्तो वृष्ट्या निर्माणतो मनः ॥ ३ ॥ | |||
}} | }} | ||
| Line 172: | Line 167: | ||
| id = CHU_C07_V06_B01 | | id = CHU_C07_V06_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तथा तस्माद्वरो मित्रो मुक्तौ सङ्कल्पदेवता । | तथा तस्माद्वरो मित्रो मुक्तौ सङ्कल्पदेवता । | ||
अह्नि सङ्कल्पयेद्यस्मात् स्वप्स्यन्ति निशि यत्ततः ॥ | |||
}} | }} | ||
| Line 207: | Line 201: | ||
| id = CHU_C07_V07_B01 | | id = CHU_C07_V07_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तथा मित्राद्वरस्त्वग्निर्मुक्तौ चित्तस्य देवता । | तथा मित्राद्वरस्त्वग्निर्मुक्तौ चित्तस्य देवता । | ||
चितत्वाच्चित्तनामा च ................. | |||
}} | }} | ||
| Line 234: | Line 227: | ||
| id = CHU_C07_V08_B01 | | id = CHU_C07_V08_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
.................तस्माद्वरुण एव च ॥ | .................तस्माद्वरुण एव च ॥ | ||
ध्यानस्य देवता चासौ तन्नामा च निधानतः । | |||
सत्यानृतविवेकार्थं ............... | |||
}} | }} | ||
| Line 262: | Line 254: | ||
| id = CHU_C07_V09_B01 | | id = CHU_C07_V09_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
.................तथा तस्मान्निशाकरः ॥ | .................तथा तस्मान्निशाकरः ॥ | ||
विज्ञानदेवता चासौ तन्नामा च विवेचनात् । | |||
सत्यस्य .......... | |||
}} | }} | ||
| Line 282: | Line 273: | ||
| id = CHU_C07_V10_B01 | | id = CHU_C07_V10_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
......... तस्माच्च तथा वायुर्भूतात्मको वरः ॥ | ......... तस्माच्च तथा वायुर्भूतात्मको वरः ॥ | ||
बलात्मकस्तथा .......................... | |||
}} | }} | ||
| Line 309: | Line 299: | ||
| id = CHU_C07_V11_B01 | | id = CHU_C07_V11_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
................. तस्मादन्नदेवोऽनिरुद्धकः । | ................. तस्मादन्नदेवोऽनिरुद्धकः । | ||
अन्ननामाऽनुनादित्वात् ................. | |||
}} | }} | ||
| Line 336: | Line 325: | ||
| id = CHU_C07_V12_B01 | | id = CHU_C07_V12_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
................. तैजसाहम्भवस्ततः ॥ | ................. तैजसाहम्भवस्ततः ॥ | ||
तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता । | |||
अम्नामा देहसंव्याप्तेः ........................ | |||
}} | }} | ||
| Line 364: | Line 352: | ||
| id = CHU_C07_V13_B01 | | id = CHU_C07_V13_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
................. तथा तस्मात् पुरन्दरः ॥ | ................. तथा तस्मात् पुरन्दरः ॥ | ||
तेजोभिमानी तन्नामा तेजो ह्योज इतीर्यते । | |||
}} | }} | ||
| Line 391: | Line 378: | ||
| id = CHU_C07_V14_B01 | | id = CHU_C07_V14_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तथा तस्मादुमा चैव सा चाकाशाभिमानिनी ॥ | तथा तस्मादुमा चैव सा चाकाशाभिमानिनी ॥ | ||
आकाशनाम्नी दीप्तत्वात् ................. | |||
}} | }} | ||
| Line 418: | Line 404: | ||
| id = CHU_C07_V15_B01 | | id = CHU_C07_V15_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
................. तस्याश्चैव सदा शिवः । | ................. तस्याश्चैव सदा शिवः । | ||
स्थिरस्मृत्यभिमानी स सममेव रतेः स्मरः ॥ | |||
}} | }} | ||
| Line 445: | Line 430: | ||
| id = CHU_C07_V16_B01 | | id = CHU_C07_V16_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
मुख्यवायुप्रिया तस्मात् परमैव सरस्वती । | मुख्यवायुप्रिया तस्मात् परमैव सरस्वती । | ||
बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी ॥ | |||
शमित्यानन्द उद्दिष्ट आशापूर्णसुखत्वतः । | |||
}} | }} | ||
| Line 465: | Line 449: | ||
| id = CHU_C07_V17_B01 | | id = CHU_C07_V17_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ॥ | तस्याः श्रेष्ठो मुख्यवायुः प्रकृष्टानां च नायकः ॥ | ||
प्राणनामा णइत्येव ह्यानन्दः समुदीरितः । | |||
आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ॥ | |||
प्राण इत्युच्यते वायुः .... ..... ........। | |||
.... .......... ...... सर्वे त्वेते दशोत्तराः । | |||
पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ॥ | |||
द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः । | |||
पादोनो वरुणादग्निरध्यर्धोनस्स सोमतः ॥ | |||
शिवादाशा तथैवास्या मुख्यवायुः शतोत्तरौ । | |||
सङ्ख्यान्यथात्वं यत्र स्यात् तत्रावेशविशेषतः ॥ | |||
अवराणां गुणस्यापि परमीयत्वतस्तथा । | |||
प्राणात्तु भगवान् विष्णुरनन्तगुणतोऽधिकः ॥ | |||
नित्यमुक्तो नित्यशक्तिर्नित्योद्रिक्तगुणः प्रभुः ॥ | |||
इति तत्त्वविवेके । | |||
सैषाऽऽनन्दस्य मीमांसा भवति इत्यादेश्च । | |||
अथातः सम्भूतिः परमाद्विद्या विद्यायाः प्राणः प्राणाच्छ्रद्धा श्रद्धायाः शिवश्शिवाद् बुदि्धः बुद्धेरिन्द्र इन्द्रात् तैजसः प्राणस्तैजसादनिरुद्धो अनिरुद्धात् स्पर्शवातः स्पर्शवातात् सोमस्सोमाद्वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्यः पर्जन्यात् स्वाहा स्वाहाया उषा जायते तेषां परः परो ज्यायान् गुणैरुत्तरः उत्तरः प्रत्यवरः परस्मात् परस्मादुत्तर उत्तरो मुच्यते स्वं स्वं भावमापद्यते । नैषां पारावर्यमुच्छिद्यते कदाचन । नैषां पारावर्यमुच्छिद्यते कुतश्चन । पारावर्येणैव ब्रह्मोपयन्ति पारावर्येण मुक्ताः सञ्चरन्ति । इत्यादि श्रुतेश्च । | |||
नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः । | |||
उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः ॥ इति सत्तत्त्वे ॥ | |||
उषादिमारुतान्तेषु समः समगुणोऽपि सन् । | |||
ध्यातः प्रीतिं हरिर्यायादधिकामुत्तरोत्तरे ॥ | |||
उत्तमेषूत्तमा प्रीतिस्तस्य तत्र स्मृतस्ततः । | |||
ध्यातुरप्युत्तमां प्रीतिं यायान्नास्त्यत्र संशयः ॥ | |||
तारतम्यपरिज्ञानात् तेषु ध्यातो विमुक्तिदः । | |||
प्रीतिं न चान्यथा यायादिति शास्त्रस्य निर्णयः ॥ इति तत्त्वविवेके । | |||
नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः । | |||
तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः ॥ | |||
शब्दास्ते ब्रह्मशब्देन सम्बध्येयुर्यदा तदा । | |||
ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा ॥ | |||
यथा च यूप आदित्य एवमेष प्रकीर्तितः । | |||
सप्तसु प्रथमा यस्माद् भूयो भूयस्त्वतस्तथा ॥ | |||
षट्सुद्वितीया यस्माच्च कारणत्वात् परस्य च । | |||
न ह्यन्यदन्यदित्येव ध्यातं स्यात् पुरुषार्थदम् ॥ | |||
अनर्थश्च भवेत् तस्माद् भृत्ये राजेति बोधवत् । | |||
राजपूजां यथा भृत्ये कुर्याद्राजा हिनस्ति हि ॥ | |||
तद्वशत्वात् तथा भृत्य एवं नामादिकं च यः । | |||
उपास्ते ब्रह्मरूपेण तं ब्रह्माथेतराणि च ॥ | |||
पातयन्ति तमस्यन्धे तस्मान्नेक्षेत तांस्तथा ॥ इति सामसंहितायाम् । | |||
अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित् । | |||
नोपासीत परोऽनर्थः स्यात् तथोपासनाकृतः ॥ | |||
दर्भचर्मादयश्चातो देवता ह्यभिमानिनः । | |||
न ह्यचेतनकं किञ्चित् फलदं स्यात् कथञ्चन ॥ | |||
औषधादिषु चैतस्माद्देवा एव वरप्रदाः । | |||
औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः ॥ | |||
ज्ञानिन्यदृष्टदाश्च स्युर्नादैवं किञ्चिदिष्यते । | |||
यथाऽज्ञस्यापि राज्ञस्तु भोजनं क्ऌप्तमिष्यते ॥ | |||
न त्वविज्ञाय राजानं ग्रामप्राप्तिस्ततो भवेत् । | |||
एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः ॥ | |||
किञ्चिज्ज्ञानकृतादृष्टात् तच्च नैवान्यथा भवेत् । | |||
अदृष्टाख्यं फलं यत्तु तज्ज्ञस्यैव न चान्यगम् ॥ | |||
तस्मादचेतनोपासां न कुर्यात् क्वापि कश्चन । | |||
न चासत्यां न चायोग्यां यदीच्छेदुत्तमं फलम् ॥ | |||
यदि नेच्छेत् तमो गन्तुं यदि चेच्छेद्धरेः प्रियम् । | |||
अथ कर्तव्यकारी च मुमुक्षुरथवा भवेत् ॥ | |||
सोऽपीच्छेत हरेः प्रीतिं नात्र कार्या विचारणा ॥ | |||
इत्युपासनालक्षणे । | |||
ओम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं पयोम्बुवच्चेत् तत्रापि इति भगवद्वचनम् । देवेषु चर्मादिनामानि संवादादेः इति च देवमीमांसायाम् । अचेतनासत्यायोग्यन्यनुपास्यान्यफलत्वविपर्ययाभ्याम् इति सङ्कर्षणसूत्रम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च । न देवानामतिव्रतं शतात्मा न जीवति । अनेहसो व ऊतयः सु ऊतयो व ऊतयः । | |||
द्यावापृथिवी जनयन्नभिव्रताय ओषधीर्वनिनानि यज्ञिया । | |||
अन्तरिक्षं स्वारापरूतये वशं देवासस्तन्वी३ नि मामृजुः ॥ | |||
अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः । | |||
देवाः प्राणाच्च स प्राणो विष्णोरेव सदैव तु ॥ | |||
स्वभावं च प्रवृत्तिं च विकारं च समाप्नुयुः । | |||
कश्चिद्भाव ऋते तेषां नैतत्स्याच्च कदाचन ॥ | |||
अचेतनप्रवृत्तौ तन्न दृष्टान्तोऽस्ति कश्चन । | |||
चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः ॥ | |||
अदृष्टं दृष्टवज्ज्ञेयं यथा दृष्टप्रणेतृकम् । | |||
विसर्पत् तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका ॥ | |||
न तद्दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम् । | |||
एवं दृष्टानुसारेण चिदधीनमचेतनम् । | |||
दुर्घटा शक्तिरपि हि पिशाचानां हि दृश्यते । | |||
देवानां किमु किम्वेव परमस्य हरेः प्रभोः ॥ इत्यादेश्च ब्रह्मतर्के । | |||
हृदयज्ञो भगवत्तत्त्वज्ञः । हृद्ययनाद्धृदयम् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयः इति श्रुतिः । कोलं पूगफलं प्रोक्तं कलं ताम्बूलपत्रकम् इत्यभिधानम् । | |||
भूतानां भौतिकानां च मन्त्राहुतिगणस्य च । | |||
अचेतनगणस्यास्य कल्पको मित्रनामकः ॥ | |||
प्राणा भूतानि मन्त्राद्याश्चिदचित्त्वविभेदिनः । | |||
अचितां कल्पको मित्रश्चितां वाय्वादयः स्मृताः ॥ इति वस्तुतत्त्वे । | |||
सर्वमचेतनं सङ्कल्प्यते । | |||
अस्थिरस्मरणं चित्तं स्थिरसंस्मरणं स्मरः इति शब्दनिर्णये । | |||
वेदनं ज्ञानमात्रं स्याद् विद्वत्त्वं तु विशेषतः इति च । | |||
मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि मुख्यतः । | |||
उपचारतस्त्ववस्थानमिति शब्दविदो विदुः ॥ इति च । | |||
देवा मनुष्यतां प्राप्ता विज्ञेया देवमानुषाः । | |||
ध्यानं कुर्वन्त इव ते नैव स्युर्बहुभाषिणः ॥ | |||
ब्रूयुरर्थवतीं वाचं नानर्थां प्रायशो हि ते ॥ इति पाद्मे । | |||
बलं ज्ञानबलं चैव बाह्यं चेति द्विधा मतम् । | |||
युक्तिज्ञता ज्ञानबलं सा ज्ञानादधिका मता ॥ इति तत्त्वसारे । | |||
अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा । | |||
ज्ञानान्नं ज्ञानबलतः श्रेष्ठं ज्ञानरतिर्हि तत् ॥ | |||
यद्बाह्यं तु बलं तस्माद् बाह्यमन्नं विशिष्यते । | |||
आपश्च द्विविधः प्रोक्तास्तृप्तिर्या ज्ञानतो रतेः ॥ | |||
ता ज्ञेया आन्तरा आपो बाह्यास्तु द्रवरूपकाः । | |||
आन्तरान्नादान्तरापो बाह्याद्बाह्यास्तथा वराः ॥ | |||
एवं तेजः प्रातिभाख्यं बाह्यं चेति द्विधा मतम् । | |||
प्रातिभं ज्ञानतृप्तेश्च परमाकाश एव च ॥ | |||
स्थिरा तु प्रतिभान्तस्थाः छिद्रमेव तु बाह्यगः । | |||
स्थिरा हि प्रतिभा श्रेष्ठा चञ्चला या स्मराभिधा ॥ | |||
एकधैव स्मृतिः श्रेष्ठाऽऽशाऽपरोक्षदृगात्मकम् । | |||
श्रेष्ठं सुखं ततो मोक्षे प्राणाख्यं परमं सुखम् ॥ | |||
उत्तरोत्तरमेतदि्ध वाय्वन्ताभिमतं सदा । | |||
बाह्याद्भ्यो बाह्यमन्नं च जायतेऽन्यत् तदन्यथा ॥ | |||
व्यक्तिरन्तर्गतानां तु विपरीतक्रमाद्भवेत् । | |||
तथापि मोक्षगं यस्मात् स्वभावो नित्य एव तु ॥ | |||
अतस्तस्मादापरोक्ष्यं कादाचित्कं हि जायते । | |||
दृष्ट्यधीना स्मृतिश्चेयं प्रतिभा स्मृतिसम्भवा ॥ | |||
स्थैर्यमालम्ब्य तु चलमन्यथा नैव तिष्ठति । | |||
प्रतिभातस्य तृप्तिः स्यादतृप्तस्य तु का रतिः ॥ | |||
तत एवं क्रमादेवं वरिष्ठः प्राणजो गुणः ॥ इति च ॥ | |||
योऽसौ प्राणः स प्राणेन परब्रह्मणा याति । स एष भगवान् प्राणं प्रत्यभीष्टं ददाति । प्राणस्य प्राणमिति श्रुतेः । प्राणो वायुः परमात्मानं च ज्ञानेन दर्शयन् ददाति । | |||
}} | }} | ||
| Line 605: | Line 588: | ||
| id = CHU_C07_V18_B01 | | id = CHU_C07_V18_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी ॥ १५ ॥ | सर्वस्मादतीतमुत्तमं वदतीत्यतिवादी ॥ १५ ॥ | ||
| Line 623: | Line 605: | ||
| id = CHU_C07_V19_B01 | | id = CHU_C07_V19_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
एष तु वा अतिवदति इति तुशब्दोऽर्थान्तरवाची । अस्ति भगवः प्राणाद्भूय इति प्रश्नो व्यतिहार्यः । | एष तु वा अतिवदति इति तुशब्दोऽर्थान्तरवाची । अस्ति भगवः प्राणाद्भूय इति प्रश्नो व्यतिहार्यः । | ||
यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । | |||
यत्र प्रमाणं वाक्यं वा व्यतिहार्यं न संशयः ॥ | |||
ओं व्यतिहारो विशिंषन्ति हीतरवत् इति च भगवद्वचनम् । | |||
अतिवादी प्राणवादी विष्णुवादी विशेषतः । | |||
स सत्यो भगवान् विष्णुर्यन्निर्दोषो नियामकः ॥ | |||
}} | }} | ||
| Line 654: | Line 635: | ||
| id = CHU_C07_V20_B01 | | id = CHU_C07_V20_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः । | विशिष्टज्ञानरूपश्च सामान्यज्ञानरूपकः । | ||
| Line 680: | Line 660: | ||
| id = CHU_C07_V21_B01 | | id = CHU_C07_V21_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥ | नित्यश्रद्धास्वरूपश्च तथैव स्थैर्यरूपकः ॥ | ||
| Line 706: | Line 685: | ||
| id = CHU_C07_V22_B01 | | id = CHU_C07_V22_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स एव सर्वकर्ता च सुपूर्णानन्दरूपकः । | स एव सर्वकर्ता च सुपूर्णानन्दरूपकः । | ||
| Line 724: | Line 702: | ||
| id = CHU_C07_V23_B01 | | id = CHU_C07_V23_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः । | स च सर्वगुणैः पूर्णो भूमेत्युच्चार्यते ततः । | ||
| Line 750: | Line 727: | ||
| id = CHU_C07_V24_B01 | | id = CHU_C07_V24_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन ॥ | यदधीनं विना नान्यत् किञ्चिदस्ति कुतश्चन ॥ | ||
स भूमोक्तोऽतिपूर्णत्वादन्यदल्पमुदीर्यते । | |||
}} | }} | ||
| Line 777: | Line 753: | ||
| id = CHU_C07_V25_B01 | | id = CHU_C07_V25_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा ॥ | स सर्वगुणसम्पूर्णः सर्वदेशेषु सर्वदा ॥ | ||
स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः । | |||
पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः ॥ | |||
कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा । | |||
आस्तिकत्वाच्च मन्ताऽसौ विज्ञाता च ततो हरिः ॥ | |||
विज्ञातृत्वाच्च निर्दोषः सर्वस्यापि नियामकः । | |||
भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ॥ | |||
आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । | |||
जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ॥ | |||
सोऽप्यणुत्वेऽपि संव्यापी परमैश्वर्ययोगतः । | |||
यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता ॥ | |||
प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः । | |||
अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ॥ | |||
आत्मेत्युक्तः स च व्यापी न च भेदो हरौ क्वचित् ॥ | |||
इति परमसारे । | |||
भूमप्रसादं विना नाल्पे सुखमस्ति । मर्त्यं च पूर्वम् । | |||
अल्पापि ह्यमृता देवी श्रीः पूर्णातिप्रियत्वतः इति च । | |||
आत्मरतिर्भगवद्रतिः । स्वो भगवान् । सोऽस्य प्रत्यक्षतः आज्ञापयिता भवतीति स्वराट् । | |||
}} | }} | ||
| Line 860: | Line 835: | ||
| id = CHU_C07_V26_B01 | | id = CHU_C07_V26_B01 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आत्मतः प्राण आत्मत आशेत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः । सर्वं हि पश्यः पश्यति इति वाक्यशेषात् । पश्य इति द्रष्टा । यदा पश्यः पश्यते रुक्मवर्णम् इति श्रुतेः | आत्मतः प्राण आत्मत आशेत्यादि मुक्तः सन् प्राणादीनां सृष्ट्यादिकं पश्यतीत्यर्थः । सर्वं हि पश्यः पश्यति इति वाक्यशेषात् । पश्य इति द्रष्टा । यदा पश्यः पश्यते रुक्मवर्णम् इति श्रुतेः । | ||
भूमोपासनयोग्यस्तु साक्षाद्ब्रह्मैव मुख्यतः । | |||
स तद्विद्याबलेनैव विष्णुना रतिमाप्नुयात् ॥ | |||
तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत् । | |||
तदानन्दः स एवास्य राजा भवति नापरः ॥ | |||
पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः । | |||
ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः ॥ इति परमतत्त्वे । | |||
न च भूमानं भगवो विजिज्ञास इति पृष्टः सन् भूम्नो लक्षणं स एवाधस्तात् स उपरिष्टादित्यादिना पूर्णत्वं भगवतोऽन्यस्याहङ्कारस्योपदिशतीति युज्यते । न चाहङ्कारस्य पूर्णत्वमस्ति । न च मुख्ये पूर्णत्वे युज्यमाने उपचरितं युज्यते । न चाहङ्कारस्य काचित् प्रस्तुतिः । अथशब्दस्तु रूपान्तरापेक्षया युज्यते । अतःशब्दस्तत्प्रसादादिति । | |||
आत्मरतिः स्वराडित्यादि । यो ब्रह्माणं विदधाति पूर्वमिति ब्रह्मण उत्पत्तिप्रसिद्धेः स्वयम्भूरात्मभूरित्यादिष्वात्मशब्दः स्वयंशब्दश्च यथा विष्णुवाची तद्वदेवात्राप्यात्मशब्दो विष्णुवाच्येव । | |||
न च मुक्तेभ्यः प्राणादिकमुत्पद्यते । ओं जगद्व्यापारवर्जम् इति वर्णितत्वाद् भगवता । आत्मत एव प्राणो जायत इत्यवधारणान्न भगवतोऽन्यस्मात् प्राणो जायते । | |||
आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः । | |||
तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्माऽऽत्मभूः स्वभूः ॥ इति स्कान्दे । | |||
इदं नामातिसामीप्यात् सर्वं पूर्णगुणत्वतः । | |||
भूमाऽहमात्मेति हरिस्त्रिविधोऽपि हि सर्वदा ॥ इति विश्वनिर्णये । | |||
स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि । | |||
यदधीना व्यत्ययः स्याद् लिङ्गानां तत्र सर्वशः ॥ | |||
कः किं कं तत्सर्वमात्माऽदितिर्देवादयस्ततः ॥ | |||
इति लिङ्गनिर्णये । | |||
गुरोर्विद्याहृतिर्या तु स आहार इति स्मृतः । | |||
तच्छुद्धौ ज्ञानशुदि्धः स्याज्ज्ञानशुद्धी स्थिरा स्मृतिः ॥ | |||
स्मृतिस्थैर्ये त्वापरोक्ष्यं हरेर्मोक्षस्ततो भवेत् ॥ | |||
इति साधननिर्णये ॥ २६ ॥ | |||
}} | }} | ||
[[Category:Chandogya]] | [[Category:Chandogya]] | ||
Revision as of 16:50, 9 April 2026
देवतालक्षणं दैवं निधिश्च निधिलक्षणम् ॥ वाकोवाक्यं मूलवेदो वेदसारोपसंहृतिः । एकायनमितिप्रोक्तं देवविद्या त्वमानुषी ॥ देवज्ञेयैव या विद्या ब्रह्मविद्या तथाऽऽरणम् । भूतविद्या भूतचिह्नं क्षत्रविद्या तु नीतिका ॥ नाक्षत्री ज्यौतिषाख्या च सर्पलक्षणमेव च । सर्पविद्येति सम्प्रोक्ता या देवपरिचारगा ॥
सा देवजनविद्या स्यादेता वेद स नारदः ॥ इति सामसंहितायाम् ।
सर्वविद्याविदप्यद्धा तस्मान्निर्णयवित्तये ॥ कुमारमैच्छद्देवर्षिर्नारदो ब्रह्मवित्तमम् ॥ इति च । विष्णोर्नाम यतो विद्याः सर्वनामेत्यतः स्मृताः । नामाभिमानिनी चोषा तस्या ब्रह्म परं स्मरेत् ॥ यदेषा न त्वमेया स्यान्मीयते ह्युषसि ध्रुवम् ।
रात्रिमानमजानदि्भस्ततो नामेत्युषा स्मृता ॥ १ ॥
सर्वैगुणैर्विमुक्तौ च तथा बन्धे च सर्वदा ॥
वाचोभिमानिनी सैव वाङ्ग्नाम्नी चाञ्चनाद्वसोः ॥ २ ॥
ध्यानस्य देवता चासौ तन्नामा च निधानतः ।
सत्यानृतविवेकार्थं ...............
विज्ञानदेवता चासौ तन्नामा च विवेचनात् ।
सत्यस्य ..........
तथा वरिष्ठः प्राणाख्यो वायुः सोऽपां च देवता ।
अम्नामा देहसंव्याप्तेः ........................
बन्धमुक्त्योः सर्वगुणैः सर्वदाऽऽशास्वरूपिणी ॥
शमित्यानन्द उद्दिष्ट आशापूर्णसुखत्वतः ।
प्राणनामा णइत्येव ह्यानन्दः समुदीरितः । आणा सरस्वती प्रोक्ता तत्प्रकृष्टसुखत्वतः ॥ प्राण इत्युच्यते वायुः .... ..... ........। .... .......... ...... सर्वे त्वेते दशोत्तराः । पर्जन्यमित्रशिखिनो भूतवायुस्तथैव च ॥ द्विगुणा एवानिरुद्धोऽनिलात् पञ्चगुणाधिकः । पादोनो वरुणादग्निरध्यर्धोनस्स सोमतः ॥ शिवादाशा तथैवास्या मुख्यवायुः शतोत्तरौ । सङ्ख्यान्यथात्वं यत्र स्यात् तत्रावेशविशेषतः ॥ अवराणां गुणस्यापि परमीयत्वतस्तथा । प्राणात्तु भगवान् विष्णुरनन्तगुणतोऽधिकः ॥ नित्यमुक्तो नित्यशक्तिर्नित्योद्रिक्तगुणः प्रभुः ॥ इति तत्त्वविवेके । सैषाऽऽनन्दस्य मीमांसा भवति इत्यादेश्च । अथातः सम्भूतिः परमाद्विद्या विद्यायाः प्राणः प्राणाच्छ्रद्धा श्रद्धायाः शिवश्शिवाद् बुदि्धः बुद्धेरिन्द्र इन्द्रात् तैजसः प्राणस्तैजसादनिरुद्धो अनिरुद्धात् स्पर्शवातः स्पर्शवातात् सोमस्सोमाद्वरुणो वरुणादग्निरग्नेर्मित्रो मित्रात् पर्जन्यः पर्जन्यात् स्वाहा स्वाहाया उषा जायते तेषां परः परो ज्यायान् गुणैरुत्तरः उत्तरः प्रत्यवरः परस्मात् परस्मादुत्तर उत्तरो मुच्यते स्वं स्वं भावमापद्यते । नैषां पारावर्यमुच्छिद्यते कदाचन । नैषां पारावर्यमुच्छिद्यते कुतश्चन । पारावर्येणैव ब्रह्मोपयन्ति पारावर्येण मुक्ताः सञ्चरन्ति । इत्यादि श्रुतेश्च । नामादिमारुतान्तेषु देवेष्वेभ्यश्च भेदतः । उपासितो हरिर्मुक्तिं दद्यान्नास्त्यत्र संशयः ॥ इति सत्तत्त्वे ॥ उषादिमारुतान्तेषु समः समगुणोऽपि सन् । ध्यातः प्रीतिं हरिर्यायादधिकामुत्तरोत्तरे ॥ उत्तमेषूत्तमा प्रीतिस्तस्य तत्र स्मृतस्ततः । ध्यातुरप्युत्तमां प्रीतिं यायान्नास्त्यत्र संशयः ॥ तारतम्यपरिज्ञानात् तेषु ध्यातो विमुक्तिदः । प्रीतिं न चान्यथा यायादिति शास्त्रस्य निर्णयः ॥ इति तत्त्वविवेके । नामादिप्राणपर्यन्ताः सप्तम्यर्थाः प्रकीर्तिताः । तृतीयापञ्चमीषष्ठीचतुर्थ्यर्थाश्च सर्वशः ॥ शब्दास्ते ब्रह्मशब्देन सम्बध्येयुर्यदा तदा । ब्राह्मणोऽस्य मुखं यद्वदात्मा वै पुत्रको यथा ॥ यथा च यूप आदित्य एवमेष प्रकीर्तितः । सप्तसु प्रथमा यस्माद् भूयो भूयस्त्वतस्तथा ॥ षट्सुद्वितीया यस्माच्च कारणत्वात् परस्य च । न ह्यन्यदन्यदित्येव ध्यातं स्यात् पुरुषार्थदम् ॥ अनर्थश्च भवेत् तस्माद् भृत्ये राजेति बोधवत् । राजपूजां यथा भृत्ये कुर्याद्राजा हिनस्ति हि ॥ तद्वशत्वात् तथा भृत्य एवं नामादिकं च यः । उपास्ते ब्रह्मरूपेण तं ब्रह्माथेतराणि च ॥ पातयन्ति तमस्यन्धे तस्मान्नेक्षेत तांस्तथा ॥ इति सामसंहितायाम् । अचेतनमयोग्यं च तथैवातात्त्विकं क्वचित् । नोपासीत परोऽनर्थः स्यात् तथोपासनाकृतः ॥ दर्भचर्मादयश्चातो देवता ह्यभिमानिनः । न ह्यचेतनकं किञ्चित् फलदं स्यात् कथञ्चन ॥ औषधादिषु चैतस्माद्देवा एव वरप्रदाः । औषधादिस्थिता देवास्तेऽज्ञे दृष्टफलप्रदाः ॥ ज्ञानिन्यदृष्टदाश्च स्युर्नादैवं किञ्चिदिष्यते । यथाऽज्ञस्यापि राज्ञस्तु भोजनं क्ऌप्तमिष्यते ॥ न त्वविज्ञाय राजानं ग्रामप्राप्तिस्ततो भवेत् । एवं देवा दृष्टफलं दद्युरज्ञस्य चाल्पतः ॥ किञ्चिज्ज्ञानकृतादृष्टात् तच्च नैवान्यथा भवेत् । अदृष्टाख्यं फलं यत्तु तज्ज्ञस्यैव न चान्यगम् ॥ तस्मादचेतनोपासां न कुर्यात् क्वापि कश्चन । न चासत्यां न चायोग्यां यदीच्छेदुत्तमं फलम् ॥ यदि नेच्छेत् तमो गन्तुं यदि चेच्छेद्धरेः प्रियम् । अथ कर्तव्यकारी च मुमुक्षुरथवा भवेत् ॥ सोऽपीच्छेत हरेः प्रीतिं नात्र कार्या विचारणा ॥ इत्युपासनालक्षणे । ओम् अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं पयोम्बुवच्चेत् तत्रापि इति भगवद्वचनम् । देवेषु चर्मादिनामानि संवादादेः इति च देवमीमांसायाम् । अचेतनासत्यायोग्यन्यनुपास्यान्यफलत्वविपर्ययाभ्याम् इति सङ्कर्षणसूत्रम् । ओषधयः संवदन्ते सोमेन सह राज्ञा । प्र वो ग्रावाणः सविता देवः सुवतु धर्मणा । न ऋते त्वत्क्रियते किञ्चनारे महामर्कं मघवन् चित्रमर्च । न देवानामतिव्रतं शतात्मा न जीवति । अनेहसो व ऊतयः सु ऊतयो व ऊतयः । द्यावापृथिवी जनयन्नभिव्रताय ओषधीर्वनिनानि यज्ञिया । अन्तरिक्षं स्वारापरूतये वशं देवासस्तन्वी३ नि मामृजुः ॥ अचेतनं चेतनेभ्यो दैवतेभ्यश्च चेतनाः । देवाः प्राणाच्च स प्राणो विष्णोरेव सदैव तु ॥ स्वभावं च प्रवृत्तिं च विकारं च समाप्नुयुः । कश्चिद्भाव ऋते तेषां नैतत्स्याच्च कदाचन ॥ अचेतनप्रवृत्तौ तन्न दृष्टान्तोऽस्ति कश्चन । चेतनानां प्रवृत्तेश्च दृष्टत्वादेव सर्वशः ॥ अदृष्टं दृष्टवज्ज्ञेयं यथा दृष्टप्रणेतृकम् । विसर्पत् तण्डुलं दृष्ट्वा कल्प्या तत्र पिपीलिका ॥ न तद्दृष्ट्वैव दृष्टानामपिपीलिकसर्पणम् । एवं दृष्टानुसारेण चिदधीनमचेतनम् । दुर्घटा शक्तिरपि हि पिशाचानां हि दृश्यते । देवानां किमु किम्वेव परमस्य हरेः प्रभोः ॥ इत्यादेश्च ब्रह्मतर्के । हृदयज्ञो भगवत्तत्त्वज्ञः । हृद्ययनाद्धृदयम् । उदरं ब्रह्मेति शार्कराक्ष्या उपासते हृदयं ब्रह्मेत्यारुणयः इति श्रुतिः । कोलं पूगफलं प्रोक्तं कलं ताम्बूलपत्रकम् इत्यभिधानम् । भूतानां भौतिकानां च मन्त्राहुतिगणस्य च । अचेतनगणस्यास्य कल्पको मित्रनामकः ॥ प्राणा भूतानि मन्त्राद्याश्चिदचित्त्वविभेदिनः । अचितां कल्पको मित्रश्चितां वाय्वादयः स्मृताः ॥ इति वस्तुतत्त्वे । सर्वमचेतनं सङ्कल्प्यते । अस्थिरस्मरणं चित्तं स्थिरसंस्मरणं स्मरः इति शब्दनिर्णये । वेदनं ज्ञानमात्रं स्याद् विद्वत्त्वं तु विशेषतः इति च । मोक्षे यस्मिन् प्रवेशः स्यात् सा प्रतिष्ठा हि मुख्यतः । उपचारतस्त्ववस्थानमिति शब्दविदो विदुः ॥ इति च । देवा मनुष्यतां प्राप्ता विज्ञेया देवमानुषाः । ध्यानं कुर्वन्त इव ते नैव स्युर्बहुभाषिणः ॥ ब्रूयुरर्थवतीं वाचं नानर्थां प्रायशो हि ते ॥ इति पाद्मे । बलं ज्ञानबलं चैव बाह्यं चेति द्विधा मतम् । युक्तिज्ञता ज्ञानबलं सा ज्ञानादधिका मता ॥ इति तत्त्वसारे । अन्नं ज्ञानरसान्नं च बाह्यमन्नमिति द्विधा । ज्ञानान्नं ज्ञानबलतः श्रेष्ठं ज्ञानरतिर्हि तत् ॥ यद्बाह्यं तु बलं तस्माद् बाह्यमन्नं विशिष्यते । आपश्च द्विविधः प्रोक्तास्तृप्तिर्या ज्ञानतो रतेः ॥ ता ज्ञेया आन्तरा आपो बाह्यास्तु द्रवरूपकाः । आन्तरान्नादान्तरापो बाह्याद्बाह्यास्तथा वराः ॥ एवं तेजः प्रातिभाख्यं बाह्यं चेति द्विधा मतम् । प्रातिभं ज्ञानतृप्तेश्च परमाकाश एव च ॥ स्थिरा तु प्रतिभान्तस्थाः छिद्रमेव तु बाह्यगः । स्थिरा हि प्रतिभा श्रेष्ठा चञ्चला या स्मराभिधा ॥ एकधैव स्मृतिः श्रेष्ठाऽऽशाऽपरोक्षदृगात्मकम् । श्रेष्ठं सुखं ततो मोक्षे प्राणाख्यं परमं सुखम् ॥ उत्तरोत्तरमेतदि्ध वाय्वन्ताभिमतं सदा । बाह्याद्भ्यो बाह्यमन्नं च जायतेऽन्यत् तदन्यथा ॥ व्यक्तिरन्तर्गतानां तु विपरीतक्रमाद्भवेत् । तथापि मोक्षगं यस्मात् स्वभावो नित्य एव तु ॥ अतस्तस्मादापरोक्ष्यं कादाचित्कं हि जायते । दृष्ट्यधीना स्मृतिश्चेयं प्रतिभा स्मृतिसम्भवा ॥ स्थैर्यमालम्ब्य तु चलमन्यथा नैव तिष्ठति । प्रतिभातस्य तृप्तिः स्यादतृप्तस्य तु का रतिः ॥ तत एवं क्रमादेवं वरिष्ठः प्राणजो गुणः ॥ इति च ॥
योऽसौ प्राणः स प्राणेन परब्रह्मणा याति । स एष भगवान् प्राणं प्रत्यभीष्टं ददाति । प्राणस्य प्राणमिति श्रुतेः । प्राणो वायुः परमात्मानं च ज्ञानेन दर्शयन् ददाति ।
यत्रानवसरोऽन्यत्र पदं तत्र प्रतिष्ठितम् । यत्र प्रमाणं वाक्यं वा व्यतिहार्यं न संशयः ॥ ओं व्यतिहारो विशिंषन्ति हीतरवत् इति च भगवद्वचनम् । अतिवादी प्राणवादी विष्णुवादी विशेषतः ।
स सत्यो भगवान् विष्णुर्यन्निर्दोषो नियामकः ॥
स्वतन्त्रः सर्ववस्तूनि तदधीनानि सर्वशः । पूर्णत्वात् सुखरूपोऽसौ सर्वकर्ता सुखत्वतः ॥ कर्तृत्वात् सुस्थिरश्चासौ स्थिरत्वादास्तिकस्तथा । आस्तिकत्वाच्च मन्ताऽसौ विज्ञाता च ततो हरिः ॥ विज्ञातृत्वाच्च निर्दोषः सर्वस्यापि नियामकः । भूमा नारायणाख्यः स्यात् स एवाहङ्कृतिः स्मृतः ॥ आकार्योऽहमिति ह्येष ततोऽहङ्कार उच्यते । जीवस्थस्त्वनिरुद्धो यः सोऽहङ्कार इतीरितः ॥ सोऽप्यणुत्वेऽपि संव्यापी परमैश्वर्ययोगतः । यथा बालतनौ विष्णौ मार्कण्डेयेन धीमता ॥ प्रविश्य नान्तोऽधिगत एवं व्याप्तो हरिः परः । अणुरूपोऽपि भगवान् वासुदेवः परो विभुः ॥ आत्मेत्युक्तः स च व्यापी न च भेदो हरौ क्वचित् ॥ इति परमसारे । भूमप्रसादं विना नाल्पे सुखमस्ति । मर्त्यं च पूर्वम् । अल्पापि ह्यमृता देवी श्रीः पूर्णातिप्रियत्वतः इति च ।
आत्मरतिर्भगवद्रतिः । स्वो भगवान् । सोऽस्य प्रत्यक्षतः आज्ञापयिता भवतीति स्वराट् ।
भूमोपासनयोग्यस्तु साक्षाद्ब्रह्मैव मुख्यतः । स तद्विद्याबलेनैव विष्णुना रतिमाप्नुयात् ॥ तेनैव क्रीडते नित्यं स्त्रीरूपो मिथुनीभवेत् । तदानन्दः स एवास्य राजा भवति नापरः ॥ पश्येच्च प्राणसृष्ट्याद्यं ये तदन्य उपासकाः । ते यथायोग्यमाप्स्यन्ति फलं मुक्तौ न संशयः ॥ इति परमतत्त्वे । न च भूमानं भगवो विजिज्ञास इति पृष्टः सन् भूम्नो लक्षणं स एवाधस्तात् स उपरिष्टादित्यादिना पूर्णत्वं भगवतोऽन्यस्याहङ्कारस्योपदिशतीति युज्यते । न चाहङ्कारस्य पूर्णत्वमस्ति । न च मुख्ये पूर्णत्वे युज्यमाने उपचरितं युज्यते । न चाहङ्कारस्य काचित् प्रस्तुतिः । अथशब्दस्तु रूपान्तरापेक्षया युज्यते । अतःशब्दस्तत्प्रसादादिति । आत्मरतिः स्वराडित्यादि । यो ब्रह्माणं विदधाति पूर्वमिति ब्रह्मण उत्पत्तिप्रसिद्धेः स्वयम्भूरात्मभूरित्यादिष्वात्मशब्दः स्वयंशब्दश्च यथा विष्णुवाची तद्वदेवात्राप्यात्मशब्दो विष्णुवाच्येव । न च मुक्तेभ्यः प्राणादिकमुत्पद्यते । ओं जगद्व्यापारवर्जम् इति वर्णितत्वाद् भगवता । आत्मत एव प्राणो जायत इत्यवधारणान्न भगवतोऽन्यस्मात् प्राणो जायते । आत्मेति मुख्यतो विष्णुस्तदन्ये तूपचारतः । तथैव स्व इति प्रोक्तस्तस्माद् ब्रह्माऽऽत्मभूः स्वभूः ॥ इति स्कान्दे । इदं नामातिसामीप्यात् सर्वं पूर्णगुणत्वतः । भूमाऽहमात्मेति हरिस्त्रिविधोऽपि हि सर्वदा ॥ इति विश्वनिर्णये । स्त्रीगुणाः पुङ्गुणाश्चैव नपुंसकगुणा अपि । यदधीना व्यत्ययः स्याद् लिङ्गानां तत्र सर्वशः ॥ कः किं कं तत्सर्वमात्माऽदितिर्देवादयस्ततः ॥ इति लिङ्गनिर्णये । गुरोर्विद्याहृतिर्या तु स आहार इति स्मृतः । तच्छुद्धौ ज्ञानशुदि्धः स्याज्ज्ञानशुद्धी स्थिरा स्मृतिः ॥ स्मृतिस्थैर्ये त्वापरोक्ष्यं हरेर्मोक्षस्ततो भवेत् ॥
इति साधननिर्णये ॥ २६ ॥