Chandogya/C1: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 17: | Line 17: | ||
| id = CHU_C01_V01_B1 | | id = CHU_C01_V01_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा | अत्युद्रिक्तविदोषसत्सुखमहाज्ञानैकतानप्रभा | ||
सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् । | |||
सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति | |||
ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ | |||
हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमा पतिम् । | |||
अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ | |||
ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद्गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्– | |||
हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् । | |||
ओमित्येतन्मुखैर्देवमस्तुवत्सामवेदगैः ॥ इति । | |||
ओंनामानमुपासीत तदर्थगुणपूर्वकम् । | |||
ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥ | |||
आनन्दादोजसश्चैव भरणादोमुदाहृतः ॥ इति समन्वये । | |||
ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । | |||
इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥ | |||
उच्चत्वाद्गीयमानत्वात् स्थानादुद्गीथ उच्यते । | |||
ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥ | |||
विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता । | |||
अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥ | |||
तथा मितं सर्ववेदैर्मकारेणाभिधीयते । | |||
अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥ | |||
तदेतत्परमत्वं तु यथाक्रममुदीर्यते । | |||
देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥ | |||
एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा । | |||
अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥ | |||
एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः । | |||
एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥ | |||
प्रविशन्ति परं देवं नारायणमनामयम् । | |||
उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥ | |||
लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति । | |||
स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥ | |||
ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ । | |||
मानवाख्याश्च मुनयस्तान्यजन्ति न चेतरान् ॥ | |||
पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः । | |||
अपभ्रष्टा ओवाश्च ब्रह्माद्याख्यायुता अपि ॥ | |||
देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् । | |||
यद्भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥ | |||
वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् । | |||
यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम् ॥ | |||
अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् । | |||
विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥ | |||
तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् । | |||
तृतीयमपि वैराग्यं न चान्यन्मोक्षकारणम् ॥ | |||
एतत्साधनताहेतोस्तदन्यदि्ध विधीयते । | |||
अतोऽन्यत्सर्वकृच्चापि गच्छेदेवाधरं तमः ॥ | |||
अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् । | |||
अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥ | |||
}} | }} | ||
| Line 80: | Line 79: | ||
| id = CHU_C01_V02_B1 | | id = CHU_C01_V02_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । सव | पृथिवी सर्वभूतेभ्यः सदा सर्वगुणैर्वरा । सव | ||
रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥ | |||
पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता । | |||
सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥ | |||
तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी । | |||
सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामगायकः ॥ | |||
समत्वात् सर्वभूतेषु साम साम्नां च देवता । | |||
ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ॥ | |||
श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः । | |||
परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥ इति सारनिर्णये । | |||
अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति । किन्तु महान् विशेष इति ज्ञापयितुं रसानां रसतम इत्यादिबहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्धरसतमत्वम् । अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति । किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव । न तु परमपरार्धिरसतमत्वम् । परस्मादप्या समन्तादृद्धं हि परार्धम् । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यम् । परार्धोत्तमं परार्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यमित्यतः परार्धित्वं श्रियो भवति । श्रियोऽपि परार्ध्यो भगवान् । अतो रसानां रसतमः परमः परार्ध्यः । | |||
}} | }} | ||
| Line 108: | Line 106: | ||
| id = CHU_C01_V03_B1 | | id = CHU_C01_V03_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियते कतमा कतमर्गित्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः । | पृथिव्याः सोमवरुणयोश्चौषध्यब्देवतात्वेन रुद्रस्य च लिङ्गदेवतात्वेन प्रसिद्धेः ऋगादीनामेव विमर्शः क्रियते कतमा कतमर्गित्यादिना । तज्ज्ञानस्य विशिष्टफलत्वाच्च । वाचश्च सरस्वतीत्वेन प्रसिद्धेर्वागृचोरैक्याच्च न विमर्शः कृतः । | ||
विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते । | |||
ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥ | |||
विशेषसंयोगहीना यदा सैव सरस्वती । | |||
तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥ | |||
प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते । | |||
वागेवार्क्तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥ | |||
अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि । | |||
अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः ॥ | |||
इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः । | |||
एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥ | |||
उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः । | |||
}} | }} | ||
| Line 153: | Line 150: | ||
| id = CHU_C01_V06_B1 | | id = CHU_C01_V06_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा ॥ | तस्मादोमित्यनुज्ञानं कुवर्न्त्येते जनाः सदा ॥ | ||
त्वदुक्तं तत्तथा कुर्याद्भगवानेव केशवः । | |||
इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः ॥ | |||
तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते । | |||
ओमित्ययं पूर्णवाची समृदि्धर्ह्योमितीरिता ॥ | |||
समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् । | |||
अतस्समृदि्धवाची स्याद्धरेरोंशब्द ईरितः ॥ | |||
इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः । | |||
वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने ॥ | |||
मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे । | |||
तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥ | |||
}} | }} | ||
| Line 189: | Line 185: | ||
| id = CHU_C01_V08_B1 | | id = CHU_C01_V08_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते । | तेनैव विष्णुनेयं च त्रयीविद्या प्रवर्तते । | ||
ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥ | |||
ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि । | |||
महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥ | |||
कुरुतः कर्म नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा । | |||
स्वयोग्यं तु परिज्ञानं यत्तस्योपनिषत्स्मृतम् ॥ | |||
अक्षरं भगवान् विष्णुस्तस्योपप्रणवः स्मृतः । | |||
उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥ इति तार्तीये । | |||
परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् । | |||
ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥ | |||
परतः परमाच्चैव परार्धो वायुरीरितः । | |||
परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥ | |||
इति शब्दनिर्णये ॥ १ ॥ | |||
}} | }} | ||
| Line 323: | Line 318: | ||
| id = CHU_C01_V22_B1 | | id = CHU_C01_V22_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति । वायौ मुख्यधिया इति च इति भगवद्वचनम् । | उद्गीथाख्यस्य विष्णोर्विशिष्टप्रतिमा वायुरेव । अतस्तस्य सर्वोत्तमत्वज्ञानपूर्वकं तस्मिंस्ततोऽप्युत्तमत्वेनोपासित एव भगवान् सम्यक् फलं ददातीति दर्शयति । वायौ मुख्यधिया इति च इति भगवद्वचनम् । | ||
यस्माद्वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् । | |||
स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥ | |||
अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः । | |||
उपासितो दैत्यजयकारणात् पापवर्जिते ॥ | |||
वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा । | |||
सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम् ॥ | |||
रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम् । | |||
चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥ | |||
असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः । | |||
मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे ॥ | |||
विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः । | |||
यदा विदध्वसुः प्राणं विध्वास्तास्ते तदाऽसुराः ॥ | |||
अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा । | |||
प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः ॥ | |||
तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वानिले । | |||
बलज्ञानात्मके दिव्याकृतिमत्युज्जवलात्मनि ॥ | |||
सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् । | |||
अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥ | |||
इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः । | |||
प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ॥ | |||
इति प्रध्याने । | |||
उद्गीथाख्यं परं विष्णुमुपास्त्याऽजह्रुरञ्जसा । | |||
तथापि प्राण एवासौ प्रीतिमागादुपासितः ॥ इति च । | |||
प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा । | |||
तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥ इति च । | |||
एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् । | |||
विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ॥ | |||
वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः । | |||
आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ॥ | |||
प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः । | |||
ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ॥ इति च । | |||
प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा । | |||
सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ॥ | |||
प्राणमुद्गीथमित्याद्याः द्वितीया सप्तमी मता ॥ इति च ॥ २ ॥ | |||
}} | }} | ||
| Line 375: | Line 369: | ||
| id = CHU_C01_V23_B1 | | id = CHU_C01_V23_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः । | आदित्यसंस्थितो नित्यं प्राणस्तपति नापरः । | ||
प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥ | |||
सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः । | |||
अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम् ॥ | |||
}} | }} | ||
| Line 396: | Line 389: | ||
| id = CHU_C01_V24_B1 | | id = CHU_C01_V24_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा । | आदित्यमण्डलस्थश्च सर्वप्राणिगतस्तथा । | ||
वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥ | |||
तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् । | |||
उपासीत विमोक्षाय सर्वकामाप्तये तथा ॥ इति च । | |||
केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः । न्त्र | |||
शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः ॥ | |||
मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः । | |||
}} | }} | ||
| Line 420: | Line 412: | ||
| id = CHU_C01_V25_B1 | | id = CHU_C01_V25_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥ | प्राणाद्यास्त्रिविधाः पञ्चप्रधानो वायुरेव च ॥ | ||
मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः । | |||
अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ॥ | |||
इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । | |||
प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥ | |||
रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः । | |||
तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥ | |||
योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा । | |||
उद्गीथे च स एवैकस्तस्माद् व्यानादि्ध तत्क्रियाः ॥ | |||
}} | }} | ||
| Line 446: | Line 437: | ||
| id = CHU_C01_V26_B1 | | id = CHU_C01_V26_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । | उद्गीथनामा भगवान् स्थितो व्यानादिपञ्चके । | ||
वीर्यवत्कर्मकृत् तस्माद्व्यान एव ह्युदाहृतः ॥ | |||
तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः । | |||
यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥ | |||
अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च । | |||
तथापि तत्क्रियाभेदान्नामरूपादिकं पृथक् ॥ | |||
उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः । | |||
अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥ | |||
विशेषहेतुकं सर्वं करोत्यविकृतः सदा । | |||
}} | }} | ||
| Line 480: | Line 470: | ||
| id = CHU_C01_V28_B1 | | id = CHU_C01_V28_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥ | उद्गीथाक्षरगं चैव प्राणादिषु च संस्थितम् ॥ | ||
आशीःसमृदि्धहेतुष्वप्यखिलेषु व्यवस्थितम् । | |||
एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ॥ इति च । | |||
उच्छब्दवाच्याः प्राणाद्याः वागाद्या गीरितीरिताः । | |||
अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ॥ इति च । | |||
आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥ ३ ॥ | |||
}} | }} | ||
| Line 503: | Line 492: | ||
| id = CHU_C01_V29_B1 | | id = CHU_C01_V29_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । | स्वरतेस्तु स्वरो विष्णुस्तद्रतेर्वायुरुच्यते । | ||
वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे ॥ | |||
देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः । | |||
मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः ॥ | |||
ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ इति सन्ध्याने । | |||
ऊर्ध्वा उत्तमाः ॥ ४ ॥ | |||
}} | }} | ||
| Line 558: | Line 546: | ||
| id = CHU_C01_V34_B1 | | id = CHU_C01_V34_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । | आदित्यसंस्थितो वायुः प्रणवस्तद्गतो हरिः । | ||
प्रकृष्टत्वाच्च नेतृत्वाद्गतित्वादखिलस्य च ॥ | |||
उद्गीथ उच्चैर्गीयत्वात् स एव पुरुषोत्तमः । | |||
स एव प्राणगो देहे ओमित्येव सदा जपन् ॥ | |||
एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् । | |||
एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु ॥ | |||
बहुपुत्रो विमुक्तः स्यात् तस्माद्ध्यायेत् तथा परम् ॥ इति च । | |||
प्राणस्थं भूमानमभिगायदुरुद्गीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा । | |||
अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् । | |||
अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥ | |||
इति त्रैविद्ये ॥ ५ ॥ | |||
}} | }} | ||
| Line 618: | Line 605: | ||
| id = CHU_C01_V39_B1 | | id = CHU_C01_V39_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता । | अग्नीरसूर्यनीलेषु वायुस्थः सामदेवता । | ||
उर्वीवियद्द्युशुक्लेषु ऋग्देवीस्था सरस्वती ॥ | |||
सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः । | |||
एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥ | |||
अतो हि सामवेदोयं ऋक्सामात्मक ईरितः । | |||
}} | }} | ||
| Line 656: | Line 642: | ||
| id = CHU_C01_V42_B1 | | id = CHU_C01_V42_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥ | वागादिष्वेवमेवैतौ वाक्प्राणौ सर्वदा स्थितौ ॥ | ||
तयोरन्तःस्थितो विष्णुर्गायको तस्य तावुभौ । | |||
ऋक्सामाभ्यां स उन्नामा पापोद्गश्चोच्च एव च ॥ इत्यादि सत्तत्त्वे । | |||
कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः । | |||
गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान् ॥ | |||
कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि । | |||
मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ॥ इति च । | |||
तस्मादुद्गीथ उच्चोऽसौ गीयते च इति । | |||
}} | }} | ||
| Line 689: | Line 674: | ||
| id = CHU_C01_V44_B1 | | id = CHU_C01_V44_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
आत्मा जीवः । | आत्मा जीवः । | ||
सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः । | |||
विदित्वा तावुभौ देवी तद्गं ध्यायेद्धरिं सदा ॥ इति मानसे । | |||
}} | }} | ||
| Line 725: | Line 709: | ||
| id = CHU_C01_V47_B1 | | id = CHU_C01_V47_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् । | दृश्यते ज्ञानदृष्ट्या यः सूर्ये चक्षुषि चैकराट् । | ||
ऋङ्ग्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥ | |||
उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः । | |||
ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान् ॥ इति च ॥ | |||
}} | }} | ||
| Line 770: | Line 753: | ||
| id = CHU_C01_V51_B1 | | id = CHU_C01_V51_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यथा बदरिकानाथो द्वारकानाथ इत्यपि । | यथा बदरिकानाथो द्वारकानाथ इत्यपि । | ||
अर्वाङ्ग्नाथः पराङ्ग्नाथ इति तद्वहिहोच्यते ॥ | |||
सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ॥ इति च ॥ ६९ ॥ ७ ॥ | |||
}} | }} | ||
| Line 822: | Line 804: | ||
| id = CHU_C01_V56_B1 | | id = CHU_C01_V56_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः । | अग्निः सामाभिमानी स्याद् वरुणस्तु स्वरात्मकः । | ||
प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ॥ | |||
अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् । | |||
द्व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः । | |||
क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ॥ इति निवृत्ते । | |||
अग्नेर्वागात्मकत्वात् ।उदकात्मकत्वात् स्वरस्य । आदित्य एव प्राणोऽन्नं वै प्रजापतिः इति श्रुतेः । आप एवेन्द्रो द्यौर्वाव रुद्रः इत्यादेश्च । | |||
विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् । | |||
ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥ इति ब्रह्मतर्के । | |||
स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेत् विपतिष्यति । | |||
ब्रह्मैव हि पृथिव्यात्मा ....... ...... । | |||
}} | }} | ||
| Line 857: | Line 838: | ||
| id = CHU_C01_V58_B1 | | id = CHU_C01_V58_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
........ ..... विष्णुराकाशनामकः । | ........ ..... विष्णुराकाशनामकः । | ||
आदीप्तत्वाद्वरीयांश्च परमो हरिरेव हि ॥ इति सत्तत्त्वे । | |||
शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः । | |||
स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ॥ | |||
उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः । | |||
अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ॥ | |||
स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः । | |||
अतः स्वर्गोसुसंस्थत्वादसाविति च कीर्तितः ॥ | |||
सर्वदेवान्तरत्वात् तु ब्रह्मायं समुदाहृतः । | |||
लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः ॥ इति ब्रह्मतर्के । | |||
आपालनादाप इन्द्रः । अधिकं वरीयान् परोवरीयान् । तत्परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ९ ॥ | |||
}} | }} | ||
| Line 885: | Line 865: | ||
| id = CHU_C01_V59_B1 | | id = CHU_C01_V59_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः । इति शब्दनिर्णये । | उपला इष्टकाः स्थूला मटचीति प्रकीर्तिताः । इति शब्दनिर्णये । | ||
आसन्नयौवना योषिदाटकीत्यभिधीयते । इति च । | |||
प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः । इति च ॥ १० ॥ | |||
}} | }} | ||
| Line 969: | Line 948: | ||
| id = CHU_C01_V68_B1 | | id = CHU_C01_V68_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः । | प्राणस्थविष्णुना सर्वे प्रसूयन्ते यतस्ततः । | ||
प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥ | |||
आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् । | |||
राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ॥ | |||
उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः । | |||
अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ॥ | |||
प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥ इति च । | |||
उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥ | |||
}} | }} | ||
| Line 1,002: | Line 980: | ||
| id = CHU_C01_V70_B1 | | id = CHU_C01_V70_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
दल्भपुत्रो बको मित्रया पुत्रार्थे स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः । | दल्भपुत्रो बको मित्रया पुत्रार्थे स्वीकृतो ग्लाववत् तूष्णीं स्थितत्वात् तया ग्लावेत्युक्तो ग्लावनामको जातः । अत उभयथाऽस्य निर्देशो भवतीत्यर्थः । | ||
प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा । | |||
शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥ | |||
उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । | |||
सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥ | |||
ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः । | |||
वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम् ॥ | |||
देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु । | |||
वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥ | |||
प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥ इति च ॥ १२ ॥ | |||
}} | }} | ||
| Line 1,029: | Line 1,006: | ||
| id = CHU_C01_V71_B1 | | id = CHU_C01_V71_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं ततः । | हूयतेऽत्राग्निहोत्रादिर्हावुकारस्त्वियं ततः । | ||
हेत्याश्वर्यवदायाति हेति वा सुखकृत्त्वतः ॥ | |||
हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् । | |||
आनन्तर्यात् प्रकाशस्य सूर्याचन्द्रस्तथेरितः ॥ | |||
सर्वसामीप्यतो विष्णुरिहेति कथितः सदा । | |||
इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥ | |||
नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः । | |||
एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥ | |||
उच्चत्वाद्विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः । | |||
मुक्तावौहोयिनस्तस्मात् सर्वदेवाः प्रकीर्तिताः ॥ | |||
हीति निश्चय उद्दिष्टो निश्चयज्ञानतस्सदा । | |||
ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ॥ | |||
स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः । | |||
ययिर्नित्यगतेर्वायुस्तद्गायाया सरस्वती ॥ | |||
सैवान्नदेवता प्रोक्ता याऽत्त्रा प्राणेन नीयते । | |||
सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥ | |||
विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः । | |||
आहूत एव पातीति हुप्कार इति कीर्तितः ॥ | |||
हुबित्याक्रियते यस्माद् हुप्कारस्तु जनार्दनः । | |||
अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ॥ इति माहात्म्ये । | |||
सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥ | |||
}} | }} | ||
Revision as of 16:49, 9 April 2026
सर्वप्राभवशक्तिभोगबलसत्सारात्मदिव्याकृतिम् । सृष्टिस्थाननिरोधनित्यनियतिज्ञानप्रकाशावृति ध्वान्तामोक्षविमोक्षदं हरिमजं नित्यं सदोपास्महे ॥ हयग्रीवमुखोद्गीर्णगीर्भिर्देवी रमा पतिम् । अस्तुवद् विस्तृतगुणं भोगिप्रस्तरशायिनम् ॥ ओमितिनामकमक्षरं सर्वसन्निहितत्वादेतत् । उच्चत्वाद्गीतत्वात् सर्वस्थानत्वाच्चोद्गीथं भगवन्तमुपासीत । उक्तं च महासंहितायाम्– हयग्रीवोद्गीतवाक्यैः रमा देवी रमापतिम् । ओमित्येतन्मुखैर्देवमस्तुवत्सामवेदगैः ॥ इति । ओंनामानमुपासीत तदर्थगुणपूर्वकम् । ओतत्वादवनान्मानादधिकोच्चत्वकारणात् ॥ आनन्दादोजसश्चैव भरणादोमुदाहृतः ॥ इति समन्वये । ओतमस्मिन् जगत्सर्वमत्युच्चश्चाखिलैर्गुणैः । इत्योमिति सदोपास्यः सोऽक्षरः पुरुषोत्तमः ॥ उच्चत्वाद्गीयमानत्वात् स्थानादुद्गीथ उच्यते । ओमित्येनं समुद्दिश्य ह्युद्गाता गायति स्फुटम् ॥ विष्णोरोमितिनाम्नोऽस्य व्याख्यानमधिकोच्चता । अकारेणाधिकं प्रोक्तमुकारेणोच्चमुच्यते ॥ तथा मितं सर्ववेदैर्मकारेणाभिधीयते । अधिकोच्चमिति ज्ञातमोमित्यस्यार्थ ईरितः ॥ तदेतत्परमत्वं तु यथाक्रममुदीर्यते । देवतानुक्रमज्ञाश्च विष्णोः परमताविदः ॥ एकान्तिनस्ते विज्ञेया यथाक्रमपरास्तथा । अस्मादसावुच्च इति क्रमस्यान्तगतं हरिम् ॥ एकमेव तु ये विद्युस्ते ह्येकान्तिन ईरिताः । एवं यथाक्रमज्ञाश्च सदैकान्तपरायणाः ॥ प्रविशन्ति परं देवं नारायणमनामयम् । उच्चक्रमान्तगत्वेन कुर्युः पूजां हरेः सदा ॥ लक्ष्म्यादेः क्रमशः पूजां ज्ञात्वा भागवता इति । स्वतन्त्रपूज्यताबुद्ध्या न दद्युः किञ्च कस्यचित् ॥ ब्रह्माद्या मनुसञ्ज्ञा ये वर्णत्वेनोदिताः श्रुतौ । मानवाख्याश्च मुनयस्तान्यजन्ति न चेतरान् ॥ पितृत्वेन गुरुत्वेन साक्षाद्भागवतत्वतः । अपभ्रष्टा ओवाश्च ब्रह्माद्याख्यायुता अपि ॥ देवसञ्ज्ञाश्च दीनत्वात् पूजयेयुर्न तान् क्वचित् । यद्भागवतबुद्ध्यैव दत्तं ब्रह्मादयः सुराः ॥ वैदिकाः प्रतिगृह्णीयुरपभ्रष्टास्तथेतरत् । यथाक्रमपरिज्ञानादेकान्तित्वाच्च केवलम् ॥ अच्छिद्रत्वाच्च नियतो मोक्षोन्यत्तु विडम्बनम् । विष्णौ भक्तिर्विशेषेण मोक्षावाप्तौ हि कारणम् ॥ तद्भक्तेषु क्रमेणैव रमाद्येषु त्वनन्तरम् । तृतीयमपि वैराग्यं न चान्यन्मोक्षकारणम् ॥ एतत्साधनताहेतोस्तदन्यदि्ध विधीयते । अतोऽन्यत्सर्वकृच्चापि गच्छेदेवाधरं तमः ॥ अस्मिन्सुनिष्ठितो नित्यं मोक्ष्येवान्योज्झकोऽपि सन् ।
अतस्तेषां क्रमं वक्ष्ये देवानां यः श्रुतौ श्रुतः ॥
रसः सारो वरश्चेति शब्दा एकार्थवाचकाः ॥ पृथिव्या वरुणः श्रेष्ठस्तस्मादोषधिदेवता । सोमस्तस्मात्तु पुरुषो रुद्रो यत्पौंस्यदेवता ॥ तस्मात् सरस्वती वाग्घि श्रेष्ठाऽस्या ऋक्स्वरूपिणी । सैव श्रेष्ठा ततो वायुर्वरिष्ठस्सामगायकः ॥ समत्वात् सर्वभूतेषु साम साम्नां च देवता । ततः श्रेष्ठतमो विष्णुः श्रेष्ठश्रेष्ठतमः सदा ॥ श्रेष्ठाच्छ्रेष्ठतमाच्चापि परमात्परमो विभुः । परमर्धियुतत्वाच्च परार्ध्य इति कीर्तितः ॥ इति सारनिर्णये ।
अतिशयं परमर्धिगुणः परमः परार्ध्यः । उत्तमेभ्योऽप्यतिपरमोत्तमोत्तमो रसानां रसतमः परमः परार्ध्यः । रसानां सकाशादपि परमपरार्ध्यरसतम इत्यर्थः । प्राणादीनां भूतादिभ्यः श्रेष्ठत्ववदस्य श्रेष्ठत्वं न भवति । किन्तु महान् विशेष इति ज्ञापयितुं रसानां रसतम इत्यादिबहुविशेषणम् । भूतेभ्यः पृथिव्या रसत्वं तेभ्यो वरुणस्य रसतरत्वं सोमस्य रसतमत्वं रुद्रस्य परमरसतमत्वं वाचः परमर्द्धरसतमत्वं प्राणस्य परमपरार्धरसतमत्वम् । अयं तु भगवान् प्राणादपि परमपरार्द्धरसतममात्रो न भवति । किन्तु प्राणस्यापि रसभूताया रमाया अपि परमपरार्ध्यरसतमः । अस्मादप्यतिशयेन परमित्यसङ्ख्यागोचरत्वेन परार्धेन ज्ञेयं हि परार्ध्यम् । ऋग्रूपाया वाचः पृथक् परत्वाङ्गीकारेऽपि भूतेभ्यः प्राणस्य परमपरार्धरसतमत्वमेव । न तु परमपरार्धिरसतमत्वम् । परस्मादप्या समन्तादृद्धं हि परार्धम् । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यम् । परार्धोत्तमं परार्धि । तेनासङ्ख्यागोचरत्वेन ज्ञेयं परार्ध्यमित्यतः परार्धित्वं श्रियो भवति । श्रियोऽपि परार्ध्यो भगवान् । अतो रसानां रसतमः परमः परार्ध्यः ।
विशेषात् प्राणसंयुक्ता वागृगित्यभिधीयते । ऋ गताविति धातोर्हि ऋक्त्वं सर्गाभिमानिनी ॥ विशेषसंयोगहीना यदा सैव सरस्वती । तदा तस्यावरा सैव प्राणसंयोगिनी मता ॥ प्राणयोगवियोगाभ्यां सैषैकाऽपि विभिद्यते । वागेवार्क्तच्छ्रुतौ प्रोक्ता प्राणः सामेति कीर्तितः ॥ अक्षयाद्रतिरूपत्वादक्षेषु रमणादपि । अक्षरं भगवान् विष्णुरोमित्युच्चत्वहेतुतः ॥ इतिशब्दोऽन्यथाभावनिवृत्त्यर्थ उदाहृतः । एवमत्युच्च एवासौ सर्वदैतद्धृदि स्थितः ॥
उद्गीयमान उद्गीथो भगवान् पुरुषोत्तमः ।
त्वदुक्तं तत्तथा कुर्याद्भगवानेव केशवः । इत्यभिप्रायतः शब्दः प्रवृत्तः स पुरातनैः ॥ तदेतदज्ञैस्तु जनैः स्वानुज्ञेति प्रदीयते । ओमित्ययं पूर्णवाची समृदि्धर्ह्योमितीरिता ॥ समृद्धस्ते हि कामोऽयमित्यनुज्ञाऽथवा भवेत् । अतस्समृदि्धवाची स्याद्धरेरोंशब्द ईरितः ॥ इति वा दीयतेऽनुज्ञा हरिस्तव समृदि्धदः । वाक्प्राणौ दम्पती चापि संसृज्येते जनार्दने ॥ मुक्तौ तु तत्प्रसादेन संसृज्यन्ते ततः परे ।
तद्द्वारेणैव साक्षात्तु प्राणः संसृज्यते हरौ ॥
ओमित्युक्त्वा हि तद्व्याख्या सर्वैर्मन्त्रैः प्रवर्तते ॥ ओंनामकस्य पूजार्थं विष्णोरेव सदैव हि । महिम्ना सारभूतेन विष्णुना ज्ञोऽज्ञ एव च ॥ कुरुतः कर्म नाज्ञस्य मुक्तिर्ज्ञस्य भवेत्तु सा । स्वयोग्यं तु परिज्ञानं यत्तस्योपनिषत्स्मृतम् ॥ अक्षरं भगवान् विष्णुस्तस्योपप्रणवः स्मृतः । उपव्याख्या तु तद्व्याख्येत्येवमाह श्रुतिः परा ॥ इति तार्तीये । परर्धं परमादुच्चं परार्धं तु ततोऽधिकम् । ततोऽधिकं परार्धिः स्यात् परार्ध्यमिति तत्परम् ॥ परतः परमाच्चैव परार्धो वायुरीरितः । परार्धिनी श्रीरुद्दिष्टा परार्ध्यो भगवान् हरिः ॥
इति शब्दनिर्णये ॥ १ ॥
यस्माद्वायौ स्मृतो विष्णुर्वायोर्मुख्यतयाऽखिलात् । स्वस्य मुख्यतया तस्मात् परां तुष्टिं गमिष्यति ॥ अतो विचार्य सकलैर्देवैः प्राणे जनार्दनः । उपासितो दैत्यजयकारणात् पापवर्जिते ॥ वायुपुत्रं च नासिक्यमग्निं वागात्मकं तथा । सोमं श्रोत्रात्मकं चैव सूर्यं चक्षुःस्वरूपिणम् ॥ रुद्रं मनःस्वरूपं च शेषं चाहंस्वरूपिणम् । चित्तात्मकं च गरुडं पापेन विविधुः सुरान् ॥ असुरास्तैर्यतो विद्धास्तस्मात् ते दोषयोगिनः । मुख्यवायौ यदा देवाः शरीरस्थे च सूर्यगे ॥ विष्णुमुद्गीथनामानं तदा तं च विदध्वसुः । यदा विदध्वसुः प्राणं विध्वास्तास्ते तदाऽसुराः ॥ अखन्याश्मानमेवाप्य लोष्टो विध्वंसते यथा । प्रतिमां प्रेयसीं प्राप्य विष्णोः प्राणं तथाऽसुराः ॥ तस्मादादित्यसंस्थे वा शरीरस्थेऽपि वानिले । बलज्ञानात्मके दिव्याकृतिमत्युज्जवलात्मनि ॥ सर्वदेवोत्तमे विष्णुमुपासीत ततोऽधिकम् । अस्योपासनया देवास्सर्वे नामानि भेजिरे ॥ इन्द्रो बृहस्पतिः शम्भुरित्याद्याः प्राणगा यतः । प्राणस्य नामशब्दाश्च मुख्यतो विष्णुसंस्थिताः ॥ इति प्रध्याने । उद्गीथाख्यं परं विष्णुमुपास्त्याऽजह्रुरञ्जसा । तथापि प्राण एवासौ प्रीतिमागादुपासितः ॥ इति च । प्राणं प्राप्यैव विध्वस्ता यथा सर्वेऽसुरास्तथा । तदुपासकस्य यश्चापि प्रतीपं दातुमिच्छति ॥ इति च । एवं विदित्वा संसारान्मुक्तिमेष्यत्यसंशयम् । विष्णुमप्यन्ततो वेत्ति प्राणवेत्ता यतः स्फुटम् ॥ वीति विष्णुः समुद्दिष्टो विशिष्टत्वात्तु सर्वतः । आददात्येव तं प्राणवेत्ताऽन्ते तत्प्रसादतः ॥ प्राणात् परं तु ये विष्णुं जीवांश्चैवावरांस्ततः । ये विदुस्ते विदुः प्राणं नान्यथा तु कथञ्चन ॥ इति च । प्राण उद्गीथ इत्याद्या नाम ब्रह्मादिकास्तथा । सप्तम्यर्थाः समुद्दिष्टाः सप्तसु प्रथमा यतः ॥
प्राणमुद्गीथमित्याद्याः द्वितीया सप्तमी मता ॥ इति च ॥ २ ॥
प्रकाशनं च तपनं काष्ठवत्सूर्यगं भवेत् ॥ सूर्यमण्डलगो वायुरुदयास्तमयोज्झितः ।
अपि प्रजाभ्य उद्यंश्चैवोद्गायति जनार्दनम् ॥
वायुस्समान एवायमुष्णोऽसावपि च स्फुटम् ॥ तस्मादस्मिन्नमुष्मिन् वाऽप्युद्गीथाख्यं जनार्दनम् । उपासीत विमोक्षाय सर्वकामाप्तये तथा ॥ इति च । केशवः स्वः स्वतन्त्रत्वात् तद्रतेर्मारुतः स्वरः । न्त्र शरीरस्थश्च सूर्यस्थः प्रतिप्रत्या समन्ततः ॥
मां प्रतीत्यत एवासौ प्रत्यास्वर उदाहृतः ।
मुख्यपञ्चकरूपस्सन् गरुडो मध्यपञ्चकः । अवमः पञ्चकस्त्वन्ये प्राणाद्यास्तस्य सूनवः ॥ इति त्रेधा विभागोऽयं विभागोऽन्यश्चतुर्थकः । प्राणापानौ शेषवीन्द्रौ तथोदानसमानकौ ॥ रुद्रेन्द्रौ तत्परः श्रेष्ठो वायुर्व्यान उदाहृतः । तस्मिन्नुद्गीथनामानमुपासीत हरिं परम् ॥ योऽसौ व्यानगतो विष्णुः स वागृक्सामगः सदा ।
उद्गीथे च स एवैकस्तस्माद् व्यानादि्ध तत्क्रियाः ॥
वीर्यवत्कर्मकृत् तस्माद्व्यान एव ह्युदाहृतः ॥ तस्माद् व्यानगतं विष्णुमुपासीतैव नित्यशः । यद्यप्येको हि भगवान् सर्वदा सर्ववस्तुगः ॥ अनूनोद्रिक्तमहिमो निर्विशेषस्सदैव च । तथापि तत्क्रियाभेदान्नामरूपादिकं पृथक् ॥ उच्यते ह्यपृथक्त्वेऽपि पूर्णैश्वर्यैकहेतुतः । अविशेषोऽपि भगवान् सर्वशक्तित्वहेतुतः ॥
विशेषहेतुकं सर्वं करोत्यविकृतः सदा ।
आशीःसमृदि्धहेतुष्वप्यखिलेषु व्यवस्थितम् । एकमेव हरिं वेद यः स सर्वेष्टमाप्नुयात् ॥ इति च । उच्छब्दवाच्याः प्राणाद्याः वागाद्या गीरितीरिताः । अन्नाद्यास्थमिति प्रोक्तास्तेषूद्गीथो हरिः स्थितः ॥ इति च ।
आत्मानं परमात्मानमन्ततः सर्वोत्तमत्वेन सर्वत्रोपसृत्य ॥ ३ ॥
वायुस्वरे स्वरं विष्णुमोमाख्यं समुपासिरे ॥ देवास्तेनामृतं प्राप्ता मुक्त्याख्यं मृत्युवर्जिताः । मारणान्मृत्युरित्युक्ता दुर्गा तद्भयतः सुराः ॥ ओमित्युपास्य तं विष्णुं परमामृतमापिरे ॥ इति सन्ध्याने ।
ऊर्ध्वा उत्तमाः ॥ ४ ॥
प्रकृष्टत्वाच्च नेतृत्वाद्गतित्वादखिलस्य च ॥ उद्गीथ उच्चैर्गीयत्वात् स एव पुरुषोत्तमः । स एव प्राणगो देहे ओमित्येव सदा जपन् ॥ एत्येष भगवान् विष्णुर्ध्यायन्नेकं तमक्षरम् । एकपुत्रो मुक्तिमेति ध्यायन् प्राणेषु रश्मिषु ॥ बहुपुत्रो विमुक्तः स्यात् तस्माद्ध्यायेत् तथा परम् ॥ इति च । प्राणस्थं भूमानमभिगायदुरुद्गीतमनुसमाहरति । अनुरूपमेव करोति । होतृसदनस्थमग्निस्थं भगवन्तं ध्यात्वा । अन्यथागानजं दोषमग्नौ ध्यात्वा हरिं परम् । अपाकरोति तस्मात् तं ध्यायेदेवाग्निगं सदा ॥
इति त्रैविद्ये ॥ ५ ॥
उर्वीवियद्द्युशुक्लेषु ऋग्देवीस्था सरस्वती ॥ सेति भार्या हि वाग्देवी प्राणोऽमः पतिरीरितः । एवं तौ सामनामानावुभावेवाप्युदाहृतौ ॥
अतो हि सामवेदोयं ऋक्सामात्मक ईरितः ।
तयोरन्तःस्थितो विष्णुर्गायको तस्य तावुभौ । ऋक्सामाभ्यां स उन्नामा पापोद्गश्चोच्च एव च ॥ इत्यादि सत्तत्त्वे । कप्यासरक्तपद्माक्षः सूर्यगश्चाक्षिगश्च सः । गायकस्तस्य विष्णोर्यः स स्वर्ग्यांश्च नृलोकगान् ॥ कामान् दद्यान्नरश्चेत् स्यात् सुराणां च नृणामपि । मोक्षदो यदि वायुः स्यान्मुख्योद्गाता ततोऽनिलः ॥ इति च ।
तस्मादुद्गीथ उच्चोऽसौ गीयते च इति ।
सरस्वती हि चक्षुःस्था जीवस्थो वायुरीरितः ।
विदित्वा तावुभौ देवी तद्गं ध्यायेद्धरिं सदा ॥ इति मानसे ।
ऋङ्ग्नामा ज्ञानरूपत्वात् साम नित्यसमत्वतः ॥ उक्थमुत्थापकत्वाच्च यजुर्याज्यस्वरूपतः ।
ब्रह्मासौ पूर्णरूपत्वादेवं सर्वाभिधानवान् ॥ इति च ॥
अर्वाङ्ग्नाथः पराङ्ग्नाथ इति तद्वहिहोच्यते ॥
सर्वनाथोऽपि भगवान् सन्निधानविशेषतः ॥ इति च ॥ ६९ ॥ ७ ॥
प्राणावराभिमानी तु सूर्य एव प्रकीर्तितः ॥ अन्नाभिमानी दक्षश्च शक्रस्त्वबभिमानवान् । द्व्यात्मकश्च शिवः प्रोक्तः क्रमेणैवोत्तरोत्तराः । क्रमेण मोक्षे प्राप्याश्च पूर्वेषामुत्तरोत्तराः ॥ इति निवृत्ते । अग्नेर्वागात्मकत्वात् ।उदकात्मकत्वात् स्वरस्य । आदित्य एव प्राणोऽन्नं वै प्रजापतिः इति श्रुतेः । आप एवेन्द्रो द्यौर्वाव रुद्रः इत्यादेश्च । विशेषज्ञानसम्प्राप्त्यै जानन्तोऽपि परं हरिम् । ब्रूयुर्देवाश्च ऋषयस्तदन्यस्य परात्मताम् ॥ इति ब्रह्मतर्के । स्वर्गाभिमानिरुद्रं प्रति सामाभिसंस्थापयामः । तत्स्तावकं हि साम । मूर्धा ते विपतेदिति यः कश्चिद् ब्रूयाच्चेत् विपतिष्यति ।
ब्रह्मैव हि पृथिव्यात्मा ....... ...... ।
आदीप्तत्वाद्वरीयांश्च परमो हरिरेव हि ॥ इति सत्तत्त्वे । शुभाशुभानां दाहादौ साम्यात् सामाग्निरीरितः । स्वो विष्णुः सागरे रन्ता वरुणोऽतः स्वरः स्मृतः ॥ उदयाज्जगत्प्रणेतृत्वात् सूर्यः प्राण उदाहृतः । अत्ता रुद्रस्तद्विरोधाद् दक्षः स्यादन्ननामकः ॥ स्वो विष्णुस्तद्रतिर्वायुस्तद्गो मुक्तौ सदाशिवः । अतः स्वर्गोसुसंस्थत्वादसाविति च कीर्तितः ॥ सर्वदेवान्तरत्वात् तु ब्रह्मायं समुदाहृतः । लोको ज्ञानस्वरूपत्वादेतेषां परमो हरिः ॥ इति ब्रह्मतर्के ।
आपालनादाप इन्द्रः । अधिकं वरीयान् परोवरीयान् । तत्परोवरीयोऽस्य रक्षकं भवति । यावत्तः द्वापरादिपर्यन्तम् ॥ ८ ॥ ९ ॥
आसन्नयौवना योषिदाटकीत्यभिधीयते । इति च ।
प्रद्रवन्नन्नपानार्थं प्रद्राणक इतीरितः । इति च ॥ १० ॥
प्रस्तावदेवता स स्यात् प्रस्तावस्तु जनिर्यतः ॥ आदित्यसंस्थितो विष्णुर्यत्सदा सर्वगीतभुक् । राजादौ गीतमप्यज्ञैर्भुङ्क्ते गानस्य देवता ॥ उद्गीथदेवता तस्मात् स एव पुरुषोत्तमः । अन्नस्थेनैव जीवन्ति भूतान्येतानि विष्णुना ॥ प्रतिहारदेवताऽतः स प्रतिहारो हि भोजनम् ॥ इति च ।
उच्चैः सन्तमुत्तमं सन्तम् ॥ ११ ॥
प्रसादार्थं बकस्यापि वायुनोक्तः श्वरूपिणा । शौवोद्गीथ इति प्रोक्तो रुद्रादीनां श्वरूपिणाम् ॥ उपासितः पौर्णमास्यां शौवोद्गीथेन केशवः । सर्वाभीष्टं ददातीति प्रातरित्याह मारुतः ॥ ओमदामादिकं मन्त्रं वायुनोक्तं तु देवताः । वायुस्थविष्णुमुद्दिश्य हिङ्कृत्य प्रापुरीप्सितम् ॥ देवौ विष्णुश्च वायुश्च सर्वज्ञत्वात् क्रमेण तु । वरुणौ वरणीयत्वात् सवितारौ प्रसूतितः ॥
प्रजानां च पती तद्वत् क्रमादेव प्रकीर्तितौ ॥ इति च ॥ १२ ॥
हेत्याश्वर्यवदायाति हेति वा सुखकृत्त्वतः ॥ हायिकारस्ततो वायुरथेत्युक्तमनन्तरम् । आनन्तर्यात् प्रकाशस्य सूर्याचन्द्रस्तथेरितः ॥ सर्वसामीप्यतो विष्णुरिहेति कथितः सदा । इन्धनादग्निरीकार ऊकारस्सूर्य उष्टितः ॥ नितरामाह्वयन्त्येनमितीन्द्रो निहवः स्मृतः । एतीत्येकार एवासौ औहोयीत्यखिलाः सुराः ॥ उच्चत्वाद्विष्णुरुः प्रोक्तो हूयन्तेऽस्मिन् यतोऽखिलाः । मुक्तावौहोयिनस्तस्मात् सर्वदेवाः प्रकीर्तिताः ॥ हीति निश्चय उद्दिष्टो निश्चयज्ञानतस्सदा । ब्रह्मा हिङ्कार इत्युक्तो वायुः प्राणः शरीरगः ॥ स्वे विष्णौ रमयत्येनं जीवं तस्मात् स्वरः स्मृतः । ययिर्नित्यगतेर्वायुस्तद्गायाया सरस्वती ॥ सैवान्नदेवता प्रोक्ता याऽत्त्रा प्राणेन नीयते । सर्ववागात्मिका या तु श्रीर्विशेषेण राजनात् ॥ विराडुक्ता निरुक्तस्तु व्याप्तो नारायणस्तु यः । आहूत एव पातीति हुप्कार इति कीर्तितः ॥ हुबित्याक्रियते यस्माद् हुप्कारस्तु जनार्दनः । अनिरुक्तस्त्ववाच्यत्वात् परमः पुरुषो हरिः ॥ इति माहात्म्ये ।
सम्यक् चरतीति स एव सञ्चरः ॥ १३ ॥