Bhagavatatatparyanirnaya/C11/S24: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 3: | Line 3: | ||
| chapter_num = 11 | | chapter_num = 11 | ||
| title = चतुर्विंशोऽध्यायः | | title = चतुर्विंशोऽध्यायः | ||
}} | }}{{VerseBlock | ||
{{VerseBlock | |||
| verse_id = BTN_C11_S24_V02 | | verse_id = BTN_C11_S24_V02 | ||
| document_id = BTN | | document_id = BTN | ||
| Line 18: | Line 17: | ||
| id = BTN_C11_S24_V02_B1 | | id = BTN_C11_S24_V02_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् | 'यथैवार्थस्तथा ज्ञानं ज्ञानार्थैक्यमुदाहृतम् । | ||
तथा कृतयुगे प्रायस्तदन्येषु तु कस्यचित्''॥ इति ब्रह्मतर्के ॥ २ ॥ | |||
}} | }} | ||
| Line 37: | Line 36: | ||
| id = BTN_C11_S24_V03_B1 | | id = BTN_C11_S24_V03_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
फलं रूपयतीति फलरूपः । ज्ञानार्थैक्येन सत्यम् । पश्चात् तद्द्विधा समभवत् । तच्छब्दार्थात्मकमुभयं बृहत्तरम् ॥ ३ ॥ | फलं रूपयतीति फलरूपः । ज्ञानार्थैक्येन सत्यम् । पश्चात् तद्द्विधा समभवत् । तच्छब्दार्थात्मकमुभयं बृहत्तरम् ॥ ३ ॥ | ||
| Line 82: | Line 80: | ||
| id = BTN_C11_S24_V07_B1 | | id = BTN_C11_S24_V07_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः | 'ज्ञानाभिमानी पुरुषः स ब्रह्मा समुदाहृतः । | ||
अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता ॥ | |||
तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता । | |||
वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत ॥ | |||
त्रिगुणात्मा समुद्दिष्टः प्रायः सत्त्वात्मकस्तथा । | |||
गायत्री चैव सावित्री तथैव च सरस्वती ॥ | |||
एवं त्रिरूपा प्रकृतिरेका सत्त्वादिभेदतः । | |||
तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् ॥ | |||
स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः । | |||
तस्यापि सूत्रं भगवान् धारणाद्विष्णुरव्ययः ॥ | |||
सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः । | |||
सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः ॥ | |||
तस्यापि पुत्रोऽहङ्कारः स चानन्त उदाहृतः । | |||
अनन्तादपि रुद्रोऽभूद् ब्रह्मणश्चेति स त्रिधा ॥ | |||
वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । | |||
तामसोऽनन्तजश्चैव स एको गुणभेदतः''॥ इति प्राथम्ये ॥ | |||
'चिदचिद् यद्वशे सर्वं स रुद्रश्चिदचिन्मयः''॥ इति च ॥ ४-७ ॥ | |||
}} | }} | ||
| Line 101: | Line 114: | ||
| id = BTN_C11_S24_V10_B1 | | id = BTN_C11_S24_V10_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् | 'चिदानन्दशरीरस्तु प्रविष्टोऽण्डे हरिः स्वयम् । | ||
तन्नाभेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः ॥ | |||
चतुर्मुखस्तु सर्वाण्डव्याप्तदेहो महातपाः । | |||
हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित् ॥ | |||
नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्''॥ इति निवृत्ते ॥१०॥ | |||
}} | }} | ||
| Line 120: | Line 136: | ||
| id = BTN_C11_S24_V14_B1 | | id = BTN_C11_S24_V14_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
महरादीनामपि भक्तियोगोऽपेक्षित एव । आधिक्येनापेक्षितत्वात् 'भक्ति-योगस्य मद्गतिः''। इत्युक्तम् ।'नैव विष्णावभक्तस्य महर्लोकादिका गतिः | महरादीनामपि भक्तियोगोऽपेक्षित एव । आधिक्येनापेक्षितत्वात् 'भक्ति-योगस्य मद्गतिः''। इत्युक्तम् । | ||
'नैव विष्णावभक्तस्य महर्लोकादिका गतिः । | |||
भक्त्युद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ | |||
एवं ज्ञानं विना साऽपि महर्लोकादिका गतिः । | |||
ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ | |||
नित्यशो भगवद्रूपस्याऽपरोक्ष्येण दर्शनम् । | |||
मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् ॥ | |||
ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । | |||
सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः ॥ | |||
अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । | |||
अपरोक्षदृशा नित्यं एकमात्रायुजा युतम् ॥ | |||
योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् । | |||
तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् ॥ | |||
पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । | |||
पादयोगान्महर्लोको जनलोकस्तु योगतः ॥ | |||
तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित्''॥ इति ध्यानयोगे ॥ १४ ॥ | |||
}} | }} | ||
| Line 139: | Line 169: | ||
| id = BTN_C11_S24_V15_B1 | | id = BTN_C11_S24_V15_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
कालात्मना ज्ञानाद्यात्मना ॥ १५ ॥ | कालात्मना ज्ञानाद्यात्मना ॥ १५ ॥ | ||
| Line 158: | Line 187: | ||
| id = BTN_C11_S24_V17_B1 | | id = BTN_C11_S24_V17_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'प्रकृतेस्तु विकाराणां कोट्यंशोऽभेद इष्यते | 'प्रकृतेस्तु विकाराणां कोट्यंशोऽभेद इष्यते । | ||
तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः । | |||
भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधाः''॥ इति विवेके ॥ १७ ॥ | |||
}} | }} | ||
| Line 177: | Line 207: | ||
| id = BTN_C11_S24_V18_B1 | | id = BTN_C11_S24_V18_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते | 'पारमार्थिकसत्यत्वं स्वातन्त्र्यमभिधीयते । | ||
तद्विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता''॥ इति च ॥ | |||
यद्ब्रह्मोपादाय । पूर्वः प्रकृत्यादिः । आदिरन्तश्च यद्ब्रह्मणि यस्मात् तस्मात् तह्म परमार्थसत्यम् ॥ १८ ॥ | |||
}} | }} | ||
| Line 196: | Line 227: | ||
| id = BTN_C11_S24_V19_B1 | | id = BTN_C11_S24_V19_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
परः पुरुषो हिरण्यगर्भः । कालोऽपि रूपान्तरेण स एव ।'कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः | परः पुरुषो हिरण्यगर्भः । कालोऽपि रूपान्तरेण स एव । | ||
'कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः । | |||
सर्वजीवाभिमानी स परः परुष उच्यते ॥ | |||
प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी । | |||
सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वशः''॥ इति च । | |||
> | |||
आधारो व्यञ्जकश्चैव प्रसवीता च केशवः । | |||
'कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि । | |||
आधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः''॥ इति च ॥ १९ ॥ | |||
}} | }} | ||
| Line 215: | Line 253: | ||
| id = BTN_C11_S24_V20_B1 | | id = BTN_C11_S24_V20_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
यावत् स्थितिरस्ति तावदुत्पत्तिरस्त्येव । यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम् ॥ २० ॥ | यावत् स्थितिरस्ति तावदुत्पत्तिरस्त्येव । यावदीक्षणं यावत्प्रलयः स्यादिति भगवतः स्मरणम् ॥ २० ॥ | ||
| Line 234: | Line 271: | ||
| id = BTN_C11_S24_V21_B1 | | id = BTN_C11_S24_V21_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृता''। इति प्रवृत्ते | 'विशेषेण गुणोद्रेकाद्विशेषः पृथिवी स्मृता''। इति प्रवृत्ते । | ||
पञ्चत्वानन्तरमविशेषाय ॥ २१ ॥ | |||
}} | }} | ||
| Line 253: | Line 290: | ||
| id = BTN_C11_S24_V22_B1 | | id = BTN_C11_S24_V22_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी''। इत्यादि च ॥ २२ ॥ | 'देव्यामोषधिमानिन्यां लीयतेऽन्नाभिमानिनी''। इत्यादि च ॥ २२ ॥ | ||
| Line 296: | Line 332: | ||
| id = BTN_C11_S24_V27_B1 | | id = BTN_C11_S24_V27_B1 | ||
| name = Bhashyam | | name = Bhashyam | ||
| text = | | text = | ||
'विकारजत्वात्तु महान्वैकारिक उदाहृतः | 'विकारजत्वात्तु महान्वैकारिक उदाहृतः । | ||
ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः''॥ इति च ॥ | |||
'गायत्री चैव सावित्री तथैव च सरस्वती । | |||
एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता ॥ | |||
महत्तत्त्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते । | |||
गुणाधिकः पतिरपि तस्याः सत्त्वादिभेदतः ॥ | |||
त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते । | |||
प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया ॥ | |||
पुरुषाभिधे विरिञ्चे तु स स्वस्मिन् कालसञ्ज्ञिते । | |||
कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते ॥ | |||
जीवमायेति यामाहुः सा च सत्त्वादिभेदतः । | |||
त्रिविधैकत्वमापाद्य विष्णावेव विलीयते ॥ | |||
हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः । | |||
पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते ॥ | |||
ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः । | |||
अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगौ''॥ इत्यादि च ॥ २५-२७॥ | |||
}} | }} | ||
[[Category:Bhagavatatatparyanirnaya]] | [[Category:Bhagavatatatparyanirnaya]] | ||
Revision as of 16:48, 9 April 2026
अर्थाभिमानी प्रकृतिर्गायत्री सा प्रकीर्तिता ॥ तयोर्नियामको विष्णुः श्रीश्चानुग्राहिका स्मृता । वायुस्तु ब्रह्मणः पुत्रः प्रकृतौ समजायत ॥ त्रिगुणात्मा समुद्दिष्टः प्रायः सत्त्वात्मकस्तथा । गायत्री चैव सावित्री तथैव च सरस्वती ॥ एवं त्रिरूपा प्रकृतिरेका सत्त्वादिभेदतः । तासु वीर्यं समुत्सृष्टं ब्रह्मणैकत्वमागतम् ॥ स सूत्रात्मा समुद्दिष्टो वायुर्लोकप्रणायकः । तस्यापि सूत्रं भगवान् धारणाद्विष्णुरव्ययः ॥ सूत्रपुत्रस्त्वहङ्कारः स रुद्रः समुदाहृतः । सूत्रात्मना महांश्चापि सहजातश्चतुर्मुखः ॥ तस्यापि पुत्रोऽहङ्कारः स चानन्त उदाहृतः । अनन्तादपि रुद्रोऽभूद् ब्रह्मणश्चेति स त्रिधा ॥ वैकारिको ब्रह्मजस्तु तैजसो वायुजः स्मृतः । तामसोऽनन्तजश्चैव स एको गुणभेदतः॥ इति प्राथम्ये ॥
'चिदचिद् यद्वशे सर्वं स रुद्रश्चिदचिन्मयः॥ इति च ॥ ४-७ ॥
तन्नाभेर्भूतदेहोऽभूत् पद्मादपि चतुर्मुखः ॥ चतुर्मुखस्तु सर्वाण्डव्याप्तदेहो महातपाः । हरिस्तु सर्वव्याप्तोऽपि भूतदेहो न तु क्वचित् ॥
नैवास्य प्राकृतो देहः प्रादुर्भावेष्वपि क्वचित्॥ इति निवृत्ते ॥१०॥
'नैव विष्णावभक्तस्य महर्लोकादिका गतिः । भक्त्युद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ एवं ज्ञानं विना साऽपि महर्लोकादिका गतिः । ज्ञानोद्रेकात् क्रमादूर्ध्वं यावद्विष्णुप्रवेशनम् ॥ नित्यशो भगवद्रूपस्याऽपरोक्ष्येण दर्शनम् । मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् ॥ ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः ॥ अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । अपरोक्षदृशा नित्यं एकमात्रायुजा युतम् ॥ योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् । तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् ॥ पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । पादयोगान्महर्लोको जनलोकस्तु योगतः ॥
तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित्॥ इति ध्यानयोगे ॥ १४ ॥
तथैवैकांशतो भेदः सोऽपि नाभेदवर्जितः ।
भेदाभेदमतः प्राहुरभेदं वा तयोर्बुधाः॥ इति विवेके ॥ १७ ॥
तद्विष्णोरेव नान्यस्य तदन्येषां सदाऽस्तिता॥ इति च ॥
यद्ब्रह्मोपादाय । पूर्वः प्रकृत्यादिः । आदिरन्तश्च यद्ब्रह्मणि यस्मात् तस्मात् तह्म परमार्थसत्यम् ॥ १८ ॥
'कालाभिमानी ब्रह्मा तु काल इत्यभिशब्दितः । सर्वजीवाभिमानी स परः परुष उच्यते ॥ प्रकृतिर्नाम तत्पत्नी प्रकृतेरभिमानिनी । सा प्रसूते जगत्सर्वं सूत्रमारभ्य सर्वशः॥ इति च । > आधारो व्यञ्जकश्चैव प्रसवीता च केशवः । 'कालप्रकृतिपुंसां च तन्मूलप्रकृतेरपि ।
आधारो व्यञ्जकश्चैव सर्वस्यापि नियामकः॥ इति च ॥ १९ ॥
ईशनादीश्वरश्चैव ब्रह्मा बृंहणतः स्मृतः॥ इति च ॥ 'गायत्री चैव सावित्री तथैव च सरस्वती । एवं त्रिरूपा प्रकृतिर्ब्रह्मपत्नी प्रकीर्तिता ॥ महत्तत्त्वात्मको ब्रह्मा तज्जत्वात् तत्र लीयते । गुणाधिकः पतिरपि तस्याः सत्त्वादिभेदतः ॥ त्रिविधा मूलरूपायां प्रकृत्यां सा प्रलीयते । प्रकृतिर्मूलरूपा सा ब्रह्मपत्नी जगन्मया ॥ पुरुषाभिधे विरिञ्चे तु स स्वस्मिन् कालसञ्ज्ञिते । कालाभिधो विरिञ्चस्तु महालक्ष्म्यां विलीयते ॥ जीवमायेति यामाहुः सा च सत्त्वादिभेदतः । त्रिविधैकत्वमापाद्य विष्णावेव विलीयते ॥ हरेरत्यन्तसामीप्यं लयो लक्ष्म्याः प्रकीर्तितः । पुरुषेणापि सामीप्यं प्रकृतेर्लय उच्यते ॥ ब्रह्मा च प्रकृतिश्चैव मुक्तिगौ विलये यतः ।
अतस्तौ भिन्नदेहौ तु ज्ञानमात्रौ समीपगौ॥ इत्यादि च ॥ २५-२७॥