Jump to content

Bhagavatatatparyanirnaya/C10/S4: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 3: Line 3:
| chapter_num  = 10
| chapter_num  = 10
| title        = चतुर्थोऽध्यायः
| title        = चतुर्थोऽध्यायः
}}
}}{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C10_S04_V15
| verse_id      = BTN_C10_S04_V15
| document_id  = BTN
| document_id  = BTN
Line 18: Line 17:
| id      = BTN_C10_S04_V15_B1
| id      = BTN_C10_S04_V15_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः ।प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ॥अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा ।बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः''॥ इति च ॥ १५ ॥
'बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः
प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः
अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा
बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः''॥ इति च ॥ १५ ॥
}}
}}


Line 45: Line 46:
| id      = BTN_C10_S04_V17_B1
| id      = BTN_C10_S04_V17_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'महदादिस्त्वविकृत ईषद्विकृतरूपतः''। इति च ॥अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि ।'महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे ।अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते''॥ इति च ॥ १६,१७ ॥
'महदादिस्त्वविकृत ईषद्विकृतरूपतः''। इति च
अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि ।
'महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे
अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते''॥ इति च ॥ १६,१७ ॥
}}
}}


Line 66: Line 69:
| id      = BTN_C10_S04_V18_B1
| id      = BTN_C10_S04_V18_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते ।'ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः ।जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः ।आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥''इति तन्त्रभागवते ।जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य ।'सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् ।अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते''॥ इति च ।आत्मन्येव वासादात्मवस्तु ॥ १८ ॥
ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते ।
'ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः
जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥
सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः
आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥''इति तन्त्रभागवते
जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य ।
'सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात्
अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते''॥ इति च
आत्मन्येव वासादात्मवस्तु ॥ १८ ॥
}}
}}


Line 87: Line 97:
| id      = BTN_C10_S04_V19_B1
| id      = BTN_C10_S04_V19_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् ।'अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति ।खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः''॥इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे ।'प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः ।मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥वेदवादविरोधित्वादनुयाता तमो विशेत् ।यतः पर्यङ्कशयन आह विष्णुः सनातनः ॥इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये ।धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव''॥ इति ब्रह्माण्डे ।चेति फलतोऽपि तमो यान्तीति ।'ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् ।स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्''॥ इति ब्रह्मवैवर्ते ॥ १९ ॥
परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् ।
'अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति
खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः''
इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे ।
'प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः
मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत्
वेदवादविरोधित्वादनुयाता तमो विशेत्
यतः पर्यङ्कशयन आह विष्णुः सनातनः
इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये
धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव''॥ इति ब्रह्माण्डे
चेति फलतोऽपि तमो यान्तीति ।
'ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम्
स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्''॥ इति ब्रह्मवैवर्ते ॥ १९ ॥
}}
}}


Line 108: Line 129:
| id      = BTN_C10_S04_V20_B1
| id      = BTN_C10_S04_V20_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् ।सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः''॥ इति ब्राह्मे ।अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् ।'अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते''इत्याग्नेये ॥ २० ॥
'अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन्
सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः''॥ इति ब्राह्मे
अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् ।
'अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात्
ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यते''इत्याग्नेये ॥ २० ॥
}}
}}


Line 129: Line 153:
| id      = BTN_C10_S04_V21_B1
| id      = BTN_C10_S04_V21_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'जगतां वर्धयन्सत्वं यदा रक्षति केशवः ।हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः ।तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् ॥वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् ।सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता ।रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा ।सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् ।तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः ।यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम् ॥तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते ।एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः ।सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् ।ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥एकरूपोऽपि भगवान्बहुरूप इवेयते ।अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥''इति ब्रह्मतर्के ।'स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः ।गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः''॥ इति तन्त्रभागवते ॥ २१ ॥
'जगतां वर्धयन्सत्वं यदा रक्षति केशवः
हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः
वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः
तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत्
वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम्
सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः
ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता
रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते
असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा
सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः
ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम्
तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम्
आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः
यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम्
तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते
एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः
शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः
सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः
ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान्
ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः
एकरूपोऽपि भगवान्बहुरूप इवेयते
अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥''इति ब्रह्मतर्के ।
'स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः
गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः''॥ इति तन्त्रभागवते ॥ २१ ॥
}}
}}


Line 150: Line 196:
| id      = BTN_C10_S04_V22_B1
| id      = BTN_C10_S04_V22_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः ।यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् ।यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् ।तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्''॥ इति ब्रह्मतर्के ॥२२॥
'सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः
यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत्
तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम्
यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम्
सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम्
तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्''॥ इति ब्रह्मतर्के ॥२२॥
}}
}}


Line 168: Line 218:
| id      = BTN_C10_S04_V25_B1
| id      = BTN_C10_S04_V25_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
'सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः ।सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः ।अनादरान्निरीहश्च सेहः सर्वकृती यतः''॥ इति तन्त्रभागवते ॥यस्य तद्रूपं सत्वम् । 'सप्तसु प्रथमा''॥ इति सूत्रात् ॥ २५ ॥
'सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः
सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः
अनादरान्निरीहश्च सेहः सर्वकृती यतः''॥ इति तन्त्रभागवते
यस्य तद्रूपं सत्वम् । 'सप्तसु प्रथमा''॥ इति सूत्रात् ॥ २५ ॥
}}
}}


Line 189: Line 241:
| id      = BTN_C10_S04_V26_B1
| id      = BTN_C10_S04_V26_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
अशेषसंज्ञः सर्वनामा ॥ २६ ॥
अशेषसंज्ञः सर्वनामा ॥ २६ ॥
Line 218: Line 269:
| id      = BTN_C10_S04_V27_B1
| id      = BTN_C10_S04_V27_B1
| name    = Bhashyam
| name    = Bhashyam
| label    = Bhashyam
| text    =
| text    =
चेष्टते अनेनेति चेष्टा ॥ २७ ॥
चेष्टते अनेनेति चेष्टा ॥ २७ ॥

Revision as of 16:47, 9 April 2026

स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् ।तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥


'बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः ।

प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ॥ अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा ।

बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः॥ इति च ॥ १५ ॥
य एतेऽविकृता भावाः सप्त ते विकृतैः सह ।नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥


सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥


'महदादिस्त्वविकृत ईषद्विकृतरूपतः। इति च ॥

अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि । 'महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे ।

अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते॥ इति च ॥ १६,१७ ॥
एवं भवान् बुद्ध्यनुमेयलक्षणोग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।


ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते ।

'ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥ सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः । आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥इति तन्त्रभागवते । जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य । 'सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् । अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते॥ इति च ।

आत्मन्येव वासादात्मवस्तु ॥ १८ ॥
यदात्मनो दृश्यगुणेषु सन्निधे-र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः ।


परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् ।

'अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति । खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे । 'प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः । मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥ वेदवादविरोधित्वादनुयाता तमो विशेत् । यतः पर्यङ्कशयन आह विष्णुः सनातनः ॥ इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये । धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव॥ इति ब्रह्माण्डे । चेति फलतोऽपि तमो यान्तीति । 'ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् ।

स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्॥ इति ब्रह्मवैवर्ते ॥ १९ ॥
त्वत्तोऽस्य जन्मस्थितिसंयमान् विभोवदन्त्यनीहादगुणादविक्रियात् ।


'अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् ।

सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः॥ इति ब्राह्मे । अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् । 'अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।

ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यतेइत्याग्नेये ॥ २० ॥
सत्त्वं त्रिलोकस्थितये स्वमाययाबिभर्षि शुक्लं खलु वर्णमात्मनः ।


'जगतां वर्धयन्सत्वं यदा रक्षति केशवः ।

हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥ वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः । तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् ॥ वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् । सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥ ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता । रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥ असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा । सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥ ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् । तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥ आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः । यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम् ॥ तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते । एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥ शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः । सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥ ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् । ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥ एकरूपोऽपि भगवान्बहुरूप इवेयते । अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥इति ब्रह्मतर्के । 'स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः ।

गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः॥ इति तन्त्रभागवते ॥ २१ ॥
त्वमस्य लोकस्य विभो रिरक्षिषु-र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।


'सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः ।

यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥ तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् । यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥ सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् ।

तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्॥ इति ब्रह्मतर्के ॥२२॥
देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥


'सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः ।

सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः । अनादरान्निरीहश्च सेहः सर्वकृती यतः॥ इति तन्त्रभागवते ॥

यस्य तद्रूपं सत्वम् । 'सप्तसु प्रथमा॥ इति सूत्रात् ॥ २५ ॥
नष्टे लोके द्विपरार्धावसानेमहाभूतेष्वादिभूतं गतेषु ।


अशेषसंज्ञः सर्वनामा ॥ २६ ॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धोचेष्टामाहुश्चेष्टते येन विश्वम् ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्थोऽध्यायः ॥
चेष्टते अनेनेति चेष्टा ॥ २७ ॥