Jump to content

Bruhadaranyaka/C5/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = प्रथमं ब्राह्मणम्
| title        = प्रथमं ब्राह्मणम्
}}
}}
== प्रथमं ब्राह्मणम् ==
{{VerseBlock
{{VerseBlock
| verse_id      = BR_C05_S01_V01
| verse_id      = BR_C05_S01_V01
Line 13: Line 11:
| verse_line1  = ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
| verse_line1  = ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
| verse_line2  = पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
| verse_line2  = पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 37: Line 36:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥
| verse_line1  = ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥
| commentary1  = bruhadaranyaka
}}
}}



Revision as of 07:05, 9 April 2026

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥


अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।
             पूर्णं च तत्परं रूपं पूर्णात् पूर्णाः समुद्गताः ॥
             परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।
             न देशकालसामथ्यैः पारावर्यं कथञ्चन ॥
             पूर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् ।
             रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ॥
             लौकिकव्यवहारो यो भूभारक्षपणादिकः ।
तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥
ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥


॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये प्रथमं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये प्रथमं ब्राह्मणम् ॥ १ ॥
ओताः सर्वगुणाः यस्मादस्मिन्नों विष्णुरुच्यते ।
             खं प्रकाशस्वरूपत्वात् ब्रह्मतद्व्याप्तरूपतः ॥
             पुनः खं सुखरूपत्वम् पुराणं तदनादितः ॥
             वायोश्च रतिदं यस्माद्वायुरं ब्रह्म तत्परम् ।
             ख्यातत्वाच्चापि तत्खं स्याद्रौहिणेयस्तथाऽवदत् ॥
             वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः ।
निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम् ॥ इति च ।
बाह्लीकसुता हि रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्रः ॥