Jump to content

Bruhadaranyaka/C1/S5: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = अव्याकृतब्राह्मणम्
| title        = अव्याकृतब्राह्मणम्
}}
}}
== अव्याकृतब्राह्मणम् ==
{{VerseBlock
{{VerseBlock
| verse_id      = BR_C01_S05_V01
| verse_id      = BR_C01_S05_V01
Line 12: Line 10:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदं रूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्यात् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणनामा भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १ ॥
| verse_line1  = तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदं रूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्यात् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणनामा भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 69: Line 68:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुतं भवति ॥ २ ॥
| verse_line1  = तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुतं भवति ॥ २ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 101: Line 101:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तदाहुर्- यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद् यस्मात् तत्सर्वमभवदिति ॥ ३ ॥
| verse_line1  = तदाहुर्- यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद् यस्मात् तत्सर्वमभवदिति ॥ ३ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 118: Line 119:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात् तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणां तथा मनुष्याणां तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषं समभवत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादीयमाने प्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ ४ ॥
| verse_line1  = ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात् तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणां तथा मनुष्याणां तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषं समभवत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादीयमाने प्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ ४ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,577: Line 1,579:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत । क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मेवान्तत उप निःश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान् भवति यथा श्रेयां सं हिंसित्वा ॥ ५ ॥
| verse_line1  = ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत । क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मेवान्तत उप निःश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान् भवति यथा श्रेयां सं हिंसित्वा ॥ ५ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,683: Line 1,686:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमिषं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ ७ ॥
| verse_line1  = स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमिषं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ ७ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,708: Line 1,712:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = स नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत् क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो अबलीयन् बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वैतत् तस्मात् सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ ८ ॥
| verse_line1  = स नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत् क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो अबलीयन् बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वैतत् तस्मात् सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ ८ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,738: Line 1,743:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माऽभवत् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽनूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते ॥ ९ ॥
| verse_line1  = तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माऽभवत् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽनूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते ॥ ९ ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,802: Line 1,808:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षिणामथ यत्पितृभ्यो निमृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवं विदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १० ॥
| verse_line1  = अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षिणामथ यत्पितृभ्यो निमृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवं विदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १० ॥
| commentary1  = bruhadaranyaka
}}
}}


Line 1,854: Line 1,861:
| verse_type    = mantra
| verse_type    = mantra
| verse_line1  = आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छंश्च नातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्योकृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवं श्रोत्रेण हि तच्छ्रुणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥११॥ ॥ इति अव्याकृतब्राह्मणम् ॥
| verse_line1  = आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छंश्च नातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्योकृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवं श्रोत्रेण हि तच्छ्रुणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥११॥ ॥ इति अव्याकृतब्राह्मणम् ॥
| commentary1  = bruhadaranyaka
}}
}}



Revision as of 07:05, 9 April 2026

तद्धेदं तर्ह्यव्याकृतमासीत् । तन्नामरूपाभ्यामेव व्याक्रियतासौ नामाऽयमिदं रूप इति । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियतेऽसौ नामायमिदं रूप इति स एष इह प्रविष्ट आनखाग्रेभ्यो यथा क्षुरः क्षुरधानेऽवहितः स्यात् विश्वम्भरो वा विश्वम्भरकुलाये तं न पश्यन्त्यकृत्स्नो हि स प्राणन्नेव प्राणनामा भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन् श्रोत्रं मन्वानो मनस्तान्यस्यैतानि कर्मनामान्येव स योऽत एकैकमुपास्ते न स वेद । अकृत्स्नो ह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीतात्र ह्येते सर्व एकं भवन्ति तदेतत्पदनीयमस्य सर्वस्य यदयमात्माऽनेन ह्येतत्सर्वं वेद यथा ह वै पदेनानुविन्देदेवं कीर्तिं श्लोकं विन्दते य एवं वेद ॥ १ ॥


विश्वम्भरो वायुः । अकृत्स्नो हि स इत्यस्याभिप्रायः स योऽत एकैकमुपास्ते न स वेदेत्यादि । प्राण इत्यादिनामानि परमेश्वरस्य न सर्वगुणसम्पूर्णतां वदन्ति । किन्तु प्राणनादिकर्मकर्तृत्वमेव वदन्ति । आत्मशब्द एव सर्वगुणपरिपूर्णत्वं वदति । अस्य सर्वस्य गुणजातस्यायमात्मैव पदनीय आश्रयो यस्मादतस्तं सर्वगुणवाचकेनात्मशब्देनैवोपासीत । अनेन ह्येतत्सर्वं वेद यस्मात् सर्वज्ञानप्रदस्तस्मात् सर्वगुणसम्पूर्णः इत्येवोपासनं तस्य युक्तम् । तदुपासनादेव सर्वज्ञत्वादयो भवन्ति किमु तस्येति । पद्यते अनेनेति पदं साधनम् । यथा तत्तत्साधनेन तत्तत्फलं प्राप्नुयादेवं सर्वगुणयुक्तत्वेन भगवदुपासनात् कीर्तिं श्लोकं च विन्दते । शं लोकः श्लोकः परमानन्दं परमं ज्ञानं चेत्यर्थः ।
लुक् प्रकाश इति धातोः ।
आसीदेको हरिः पूर्वं देवी नारायणी तथा ।
             अन्यदव्यक्ततां यातं तद्व्यक्तमकरोद्धरिः ॥
             सृष्ट्वा जगदिदं सर्वं सृष्ट्वा देहांश्च सर्वशः ।
             आकेशादानखाग्रेभ्यः प्रविष्टः पुरुषोत्तमः ॥
             यथा प्राणः शरीरेषु क्षुरो यद्वत् क्षुरस्तुके ।
             प्रविष्टमपि तं विष्णुं न पश्यन्ति पृथग्जनाः ॥
             प्रविष्ट इति जानंश्च नैनं जानाति सर्वशः ।
             यस्मात् तद्गुणभागोऽयं प्रवेशः प्राणनादि च ॥
             तस्मात् प्राणादिनामानि कर्मनामानि तस्य तु ।
             तस्मात् प्राणादिनाम्ना य उपास्ते हरिमव्ययम् ॥
             अकृत्स्नोपासकः स स्याद्यस्मात् तद्गुणभागवित् ।
             पूर्णत्वेऽपि परेशस्य यस्तु तद्गुणभागवित् ॥
             अकृत्स्नवित् स्यात् कृत्स्नस्य वेत्ताऽऽत्मेतिविदेव यः ।
             चिदानन्दादयो यस्य गुणा आप्ताः सदैव तु ॥
             स आत्मेति प्रविज्ञेयो गुणानामाप्तितो हरिः ।
             प्राणनादीनि कर्माणि चात्मशब्दोदितानि तु ॥
             तदेतदात्मरूपं हि गुणानामश्रयत्वतः ।
             पदनीयमिति प्रोक्तं यतस्तज्ज्ञोऽपि सर्ववित् ॥
             सार्वज्ञ्यादिगुणास्तस्य किमुतात्मेश्वरस्य तु ।
             एवं सर्वगुणैर्युक्तं सर्वजीवेश्वरं हरिम् ॥
             यो वेद तत्तत्साध्यं तु यथा तैस्तैस्तु साधनैः ।
             प्राप्नुयादेवमेवासौ कीर्तिं च परमं सुखम् ॥
ज्ञानं च परमं विन्देन्मुक्तः सन्नात्र संशयः ॥ १ ॥
तदेतत् प्रेयः पुत्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरं यदयमात्मा स योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो ह तथैव स्यादात्मानमेव प्रियमुपासीत स य आत्मानमेव प्रियमुपास्ते न हास्य प्रियं प्रमायुतं भवति ॥ २ ॥


स एष विष्णुर्भगवान् पुत्राद्वित्तात् तथाऽऽत्मनः ।
             अन्यस्मादपि सर्वस्मात् प्रेष्ठ एव स्वभावतः ॥
             आत्मनोऽपि प्रियत्वं तु तेनैव कृतमञ्जसा ।
             आत्मनो निरयायैव कुर्यात् कर्माणि नित्यशः ॥
             यतोऽतः स्वात्मनश्चापि स्वाप्रियत्वमुदाहृतम् ।
             स चेदप्रियकृद्विष्णुर्नात्माऽपि प्रियतां व्रजेत् ॥
             अस्मिन् प्रिये प्रियं सर्वं तस्मादेकः प्रियो हरिः ।
             स चात्मशब्देनोद्दिष्टो यस्मादाप्तगुणः प्रभुः ॥
             अतो विष्णोः प्रियं ब्रूयाद्यः स्वात्माद्यं दुरात्मवान् ।
             प्रियरोधं करोषीति तं ब्रूयाद्वैष्णवो महान् ॥
             एवं वदन् वैष्णवस्तु समर्थः प्रियरोधने ।
             तस्य स्याच्च विशेषेण तदुक्त्यैवापि दुःखिनः ॥
             तस्मात् सर्वप्रियो विष्णुरित्युपास्ते सदा प्रियः ।
             नास्य प्रियमनित्यं स्यादस्य प्रीतिः सदा भवेत् ॥
             तस्मात् सर्वप्रियं विष्णुमुपासीतैव नित्यशः ।
नित्यप्रियकरो विष्णुर्भवेत् तस्याप्यजः स्वयम् ॥इत्यध्यात्मे ॥ २ ॥
तदाहुर्- यद् ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते किमु तद्ब्रह्मावेद् यस्मात् तत्सर्वमभवदिति ॥ ३ ॥


ब्रह्मविद्यया सर्वं भविष्यन्त आत्मयोग्यतापूर्तिमाप्नुवन्तो महान्तो यदाहुः ब्रह्मविद्यया स्वयोग्यं सर्वं प्राप्यत इति । नित्यनिर्दुःखानन्दानुभवरूपो हि स्वत उत्तमो जीवः । तादृशं रूपमज्ञानात् तिरोहितं ब्रह्मविद्ययाऽभिव्यज्यते एव । न चान्यथाऽभिव्यज्यत इति सन्तो यदाहुः । तत्तत्र केचिन्मनुष्या इति मन्यन्ते । स्वरूपमपि ब्रह्मविद्ययाऽभिव्यज्यते चेत् तद् ब्रह्मापि यस्मात् सर्वमभवत् परिपूर्णमभवत् तस्मात् स्वरूपं ज्ञात्वैवाभवत् किमिति ॥ ३ ॥
ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति तस्मात् तत्सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत् तथर्षीणां तथा मनुष्याणां तद्धैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देवाश्च नाभूत्या ईशत आत्मा ह्येषं समभवत्यथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद यथा पशुरेवं स देवानां यथा ह वै बहवः पशवो मनुष्यं भुञ्जुरेवमेकैकः पुरुषो देवान् भुनक्त्येकस्मिन्नेव पशावादीयमाने प्रियं भवति किमु बहुषु तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः ॥ ४ ॥


सत्यम् । तदपि स्वरूपं नित्यापरोक्षज्ञानेन सर्वदा जानात्येव । अत एव सर्वदा परिपूर्णमिति तेषां परिहारः । तदात्मानमेवावेत् तस्मात् तत्सर्वमभवदिति । आत्मा वा इदमेक एवाग्र आसीत् सदेव सोम्येदमग्र आसीत् इत्यादिवत् सदातनज्ञानं पूर्णभावं चाह ।
इदमग्रे अस्याग्र इति षष्ठ्यर्थे द्वितीया । अहं अहेयं, ब्रह्म परिपूर्णम् । अस्मि सर्वदाऽस्तीति मेयमित्येतैर्विशेषणैरात्मानं स्वरूपमेवावेत् । यद्यहंशब्दोऽस्मच्छब्दार्थवाची अस्मिशब्दश्चोत्तमपुरुषे तदाऽऽत्मानमिति व्यर्थं स्यात् । अतोऽहमस्मिशब्दावुक्तार्थावेव । अग्रे अनादिकालत एव विद्यमानमात्मानं जानाति च तद्ब्रह्मेत्यर्थः । सर्वनियन्तृत्वेन सर्वगतत्वादहेयम् । तद्योऽहं सोऽसौ योऽसौ सोऽहं योऽसावसौ पुरुषः सोहमस्मि इत्यादिष्वप्यहंशब्दोऽन्तर्यामित्वेनाहेयत्ववाची । तत्सत्यं स आत्मा तत्त्वमसीति भेदस्य नवकृत्वोऽभ्यासात् ।
तद्योऽहं सोऽसौ अहं ब्रह्मास्मि इत्यादिवाक्यानां सम्यगर्थापरिज्ञानात् भ्रान्तिप्राप्तोऽभेदोऽतत्त्वमसीति नवकृत्वो निराक्रियते । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयं कुतस्तु खलु सोम्यैवं स्यात् कथमसतः सज्जायेत इत्यादिना असद्वा इदमग्र आसीदसतः सदजायत इत्यादिश्रुत्यर्थापरिज्ञानोत्थभ्रमो यथा निवार्यते । एवमतत्त्वमसीतिवाक्येनापि । स आत्मेतिशब्दाच्च । आत्मशब्दस्य परमात्मनि मुख्यत्वेऽपि जीवे भ्रान्तिरुपपद्यते । तन्निवृत्यर्थं चातत्त्वमसीत्याह ।
यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भावस्तस्मादात्मेति भण्यते ॥
इत्यादिना आप्त्यादिकमैतदात्म्यमिदं सर्वमित्यनेनोच्यते । पूर्णत्ववाच्यात्मशब्द आत्मा पूर्णत्वतो हरिः इत्यादिना स आत्मेति पूर्णत्वमभिधीयते । यथा सोम्यैकेन मृत्पिण्डेन इति सदृशविज्ञानेन सदृशान्तरं विज्ञातं भवतीत्युक्तम् । लोहमणिनेति मणिशब्दात् प्रधानविज्ञानेनाप्रधानं सर्वं विज्ञातं भवतीति । मणिर्मुखं प्रधानञ्चेत्युत्तमस्य वचो भवेत् इति वचनात् । यथा सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् इति पुनरपि सदृशेन विज्ञातेन सदृशान्तरं विज्ञातं भवतीत्यभ्यासस्तात्पर्यार्थः ।
             उपादानविवक्षायामेकत्वविवक्षायां चैकेनेति विशेषणं, पिण्डेनेति एकेन मणिनेति पुनरेकेनेति च विशेषणानि व्यर्थानि भवेयुः । तस्मिन् पक्षे मृदा विज्ञातया लोहेन विज्ञातेन कार्ष्णायसेन च विज्ञातेन सर्वं विज्ञातं भवतीति वक्तव्यम् । न ह्येकमृत्पिण्डविकारभूतं सर्वं मृण्मयम् । न च तेनैक्यं सर्वस्य विद्यते । न चैकलोहमणिकार्यं सर्वलोहमयम् । न च तेनैकीभूतम् ।
             न चैकनखनिकृन्तनकार्यं सर्वं कार्ष्णायसम् । वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् इत्यादि प्रधानपरिज्ञाने गुणभूतं परिज्ञातमिव भवतीत्यत्र दृष्टान्तान्तरम् । वाचा नाम्ना आरम्भणं विकारः विविधत्वेन कर्तुं योग्यमिति विकारः । सत्यं सर्वदा विद्यमानं नामधेयं मृत्तिकेत्येव । सङ्केतरूपेण नानाविधानि नामानि कर्तुं शक्यते । तथापि शास्त्रप्रयोगसिद्धमृत्तिकादिनामपरिज्ञानात् तत्तन्नामविद् भवति ।
एवं नित्यासाम्यातिशयसर्वगुणपरिपूर्णपरमेश्वरपरिज्ञानात् सर्वविद्भवतीति । यथैकस्मिन् जनपदे प्रधानपुरुषेषु परिज्ञातेष्वाहूतेष्वागतेषु विनाशितेषु रक्षितेषु वा सर्वो जनपदः परिज्ञात आहूत आगतो विनाशितो रक्षित इत्युच्यते ।
यथा वा राजसु नाशितेषु । नाशिता पृथिवी सर्वा धार्तराष्ट्रेण दुर्नयैः इति ।
यथा च केषाञ्चित् पुरुषाणां रक्षणेन । शशास पृथिवीं सर्वां सशैलवनकाननाम् इति ।
एवं सर्वोत्तमस्य परमेश्वरस्य विज्ञानात् सर्वं विज्ञातमिव भवति । न च मृन्मात्रविज्ञानाद् घटशरावादिसंस्था विज्ञाता भवन्ति मुख्यतः । तथा सति दृष्टमृदः पुरुषस्य घटशरावादिजिज्ञासा न स्यात् ।सृष्टिकथनं च प्राधान्यार्थम् । त्रीणि रूपाणीत्येव सत्यमित्यपि प्राधान्यार्थमेवाभिमानिदेवतापेक्षया ।
तेजोऽभिमानवान् ब्रह्मा वायुश्चाबभिमानवान् ।
             रुद्रः क्षित्यभिमानी चाप्येतन्मयमिदं जगत् ॥
             अभिमन्यमानसहितास्त्रय एतेऽभिमानिनः ।
             विष्णोर्जाताः क्रमेणैव पूर्वस्मादुत्तरोत्तरम् ॥
             तेजोऽबन्नाभिधा तस्मादेषामेव प्रकीर्तिता ।
             एते च त्रीणि रूपाणीत्यभिधागोचराः सुराः ॥
             ब्रह्मवायुगिरीशेभ्यस्तेभ्यो जातमिदं जगत् ।
             अतोऽग्निसूर्यसोमानामपि रूपं तदुद्भवम् ॥
             अतोऽग्निसूर्यसोमानां नामाप्येषां प्रकीर्तितम् ।
             सादनाद्यमनाच्चैव सत्यमेषां त्रयः सुराः ॥
             तेषां सत्यं हरिः साक्षाद्यतस्तेषां नियामकः ।
             प्रधाने सत्यशब्दोऽयं श्रुतिभिः समुदाहृतः ॥
             यथैव सर्वलोहानां प्रधानं काञ्चनं स्मृतम् ।
             यथा मृत्पिण्डसदृशा मृण्मयाः सर्व एव च ॥
             यथा कार्ष्णायसं सर्वं समं कार्ष्णायसान्तरे ।
             एवं सर्वस्य जगतः सदृशः श्रेष्ठ एव च ॥
             हरिस्तेन तु तज्ज्ञानाज्जगज्ज्ञातमिवाखिलम् ।
             स स्रष्टा चैव संहर्ता नियन्ता रक्षिता हरिः ॥
             तेन व्याप्तमिदं सर्वमैतदात्म्यमतो विदुः ।
             स आत्मा पूर्णगुणतः स सूक्ष्मः सर्वगः सदा ॥
             सर्वोत्तमत्वात् सत्यं तज्जीवाभिन्नं तदासुराः ।
             विदुर्न त्वं तथा विद्धि श्वेतकेतो कदाचन ॥
             किन्तु विष्णुः पृथक् सर्वदेवदेवेश्वरः प्रभुः ।
             पृथगेवाहमत्यल्पशक्तिज्ञानसुखादिकः ॥
             इत्येव विद्धि सततमतो मोक्षमवाप्स्यसि ।
             सवोत्तम इति ज्ञातो विष्णुर्मोक्षमिमं नयेत् ॥
             जीवरूपतया ज्ञातस्तमोऽन्धं प्रापयेत् प्रभुः ।
             विष्णोर्दासतया विष्णोः सामीप्यं मोक्ष उच्यते ॥
             न विष्णुत्वं तु मोक्षः स्यादेषोऽहमिति वा स्मृतेः ।
             संसारसागरात् तीर्णो मुक्तोऽहमिति वा स्मृतिः ॥
             यदा तदा विमोक्षेण किं फलं ज्ञानिनो भवेत् ।
             यथा मधुकरैर्नानाविधपुष्परसैः सह ॥
             मधुत्वं प्रापितः संविदभावान्न सुखी भवेत् ।
             यथा नद्यो न मुक्ता हि समुद्रं प्रापिता अपि ॥
             इयमस्मीति चाज्ञानाद्यथा सुप्तो न मुच्यते ।
             प्रलयेऽपि हरिं प्राप्तः पृथक्त्वज्ञानवर्जनात् ॥
             एवं जीवोशयोर्भेदज्ञानाद् विष्णोः सदोच्चताम् ।
ज्ञात्वैव मुच्यते तस्मादेवं जानीहि पुत्रक ॥ इति ब्रह्माण्डे ।
मग्नस्य हि परेऽज्ञाने किं न दुःखतरं भवेत् इति च मोक्षधर्मे ।
तस्मै स्वलोकं भगवान् सभाजितः सन्दर्शयामास इत्युक्त्वा
             न वर्तते यत्र रजस्तमस्तयोः सत्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ इति च भागवते ।
अदर्शयत् स्वकं लोकं ब्रह्मणे विष्णुरव्ययः । यस्मात् पदात् परं नास्ति यत्र मुक्ता उपासते ॥ इति हरिवंशेषु ।
अतः परं न यत्पदमित्यत्रापि यच्छब्दस्य यस्मादित्यर्थः । यत्तदित्यादयः शब्दाः पञ्चम्यर्थाश्च कीर्तिताः इति च ।
विद्यात्मनि भिदाबोधः
क्ष्माम्भोनलानिलवियन्मन इन्द्रियार्थं भूतादिभिः परिवृतः प्रतिसञ्जिघृक्षुः । अव्याकृतं विशति यर्हि गुणत्रयात्मा कालं परं स्वमनुभूय परः स्वयम्भूः ॥
एवं परेत्य भगवन्तमनुप्रविष्टा ये योगिनो जितमरुन्मनसो विरागाः । तेनैव साकममृतं पुरुषं पुराणं ब्रह्म प्रधानमुपयान्त्यगताभिमानाः ॥
भेददृष्ट्याभिमानेन निःसङ्गेनापि कर्मणा इत्यादि च ।
आधिपत्यमृते चैव आनन्देनापि कर्मणा ।
             सर्वे ते ब्रह्मणस्तुल्या भोगेन विषयेण च ॥
             नानात्वेनापि सम्बद्धास्तदा तत्कालभाविना ।
             प्रकृतौ कारणातीताः स्वात्मन्येव व्यवस्थिताः ॥
             प्रदर्शयित्वा ह्यात्मानं प्रकृतिस्तेषु सर्वशः ।
             पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते ॥
             प्रवर्तति पुनः सर्गे तेषां सा न प्रवर्तते ।
             संयोगः प्रकृतेर्नैव मुक्तानां तत्त्वदर्शनात् ॥
             समा दुःखनिवृत्तिस्तु मुक्तानामपि सर्वशः ।
             मानुषादिविरिञ्चान्तं सुखं मुक्तौ शतोत्तरम् ॥ इत्यादि वायुप्रोक्ते ।
             ऐकात्म्यं नाम यदिदं केचिद् ब्रूयुरनैपुणाः ।
             शास्त्रतत्त्वमविज्ञाय तथावादबला जनाः ॥
             कामक्रोधाभिभूतत्वादहङ्कारवशं गताः ।
             याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः ॥
             ब्रह्मस्तेना निरानन्दाः अपक्वमनसोऽशिवाः ।
             वैगुण्यमेव पश्यन्ति न गुणानि नियुञ्जते ॥
             तेषां तमःशरीराणां तम एव परायणम् ।
             अन्य ईशस्तथाऽन्योऽहमिति ज्ञानं विपश्चिताम् ॥॥
             आधिक्यज्ञानमीशस्य यतोऽन्यत्वेन युज्यते ।
             यतः स्वरूपश्चान्यो जातितः श्रुतितोऽर्थतः ।
कथमस्मि स इत्येव सम्बन्धः स्यादसंहितः ॥
बहवः पुरुषा ब्रह्मन् उताहो एक एव तु ।
             को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति ॥
             वैशम्पायन उवाच–॥
             नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह ।
             बहूनां पुरुषाणां हि यथैका योनिरुच्यते ॥
तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम् ॥ इति च मोक्षधर्मे ।
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
             क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥
             उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
             यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥
             यस्माद् क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
             अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥
             यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
             स सर्वविद्भजति मां सर्वभावेन भारत ॥
             इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ ।
एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥ इति च ॥
ब्रह्मणस्तद्गुणानां च भेददर्श्यधरं तमः ।
             भेदाभेदप्रदर्शी च मध्यमं तु तमो विशेत् ॥
             ईषद्भेदप्रदर्शी च तम एवोत्तरं व्रजे ।
             विजानीयात् ततो ब्रह्म सदा सर्वगुणात्मकम् ॥
             गुणानां च विशेषोऽस्ति न विभेदः कथञ्चन ।
             ते च सर्वे गुणाः पूर्णास्तच्छरीरः परः स्मृतः ॥
             आनन्दज्ञानशक्त्यादिदेहं विष्णुं तु ये जनाः ।
             ओहं भूतदेहं वा विदुस्ते चाधरं तमः ॥
             तथा प्रकृतिदेहज्ञाः कर्मदेहविदोऽपि वा ।
             तस्मादानन्दचिद्देहं चिदानन्दशिरोमुखम् ॥
             चिदानन्दभुजं ज्ञानसुखैकपदसाङ्गुलिम् ।
             आकेशादानखाग्रेभ्यः पूर्णचित्सुखशक्तिकम् ॥
             प्रत्येकं तु गुणांस्तांस्तु सदा सर्वगुणात्मकम् ।
             ज्ञात्वा विमुच्यते विष्णोः प्रसादान्मानुषोऽपि सन् ॥
             जीवाभेदं तथाऽभेदं जगता ये विदुः प्रभोः ।
             तेऽपि यान्ति तमो घोरमधरं ब्रह्मतस्कराः ॥
             भेदाभेदं विदुर्ये च जीवैस्तु जगताऽपि वा ।
             परस्य ब्रह्मणो यान्ति तमस्तेऽप्युत्तरं सदा ॥
             अभेदज्ञाः प्रकृत्याऽपि भेदाभेदविदस्तथा ।
             तेऽपि यान्ति तमो घोरमधरं चोत्तरं क्रमात् ॥
             तस्मात् सर्वोत्तमं विष्णुं पूर्णसर्वगुणोच्छ्रितम् ।
             विजानीयाद्विमुक्त्यर्थं सर्वतश्च विलक्षणम् ॥
             अन्धन्तमः प्रविशन्ति ये देहं परमात्मनः ।
             भिन्नं विजानते विष्णोर्भिन्नाभिन्नविदोऽपि वा ॥
             अन्धन्तमः प्रविशन्ति प्रादुर्भावांस्तु येऽपि वा ।
             सर्वभूतस्थितान् वाऽपि भिन्नान् जानन्ति येऽखिलान् ॥
             भिन्नाभिन्नविदो वापि शिरःपाण्यादिकं तथा ।
             भिन्नं मिथो विजानीयुर्भिन्नाभिन्नविदोऽपि वा ॥
             तेऽपि यान्ति तमो घोरं यतो नैवोत्थितिः क्वचित् ।
             प्रादुर्भावतया ये च तदन्यान् जानते विभोः ॥
             तेऽपि यान्ति तमो घोरं तस्मान्नैवंविदो विदुः ।
             मत्स्यकूर्मक्रोडसिंहवटुभार्गवराघवाः ॥
             कृष्णबुद्धौ कल्किदत्तहयशीर्षैतरेयकाः ।
             पाराशर्यश्च कपिलो वैकुण्ठो वृषभस्तथा ॥
             यज्ञो धन्वन्तरिश्चैव स्त्रीरूपस्तापसो मनुः ।
             नारायणो हरिः कृष्णः उपेन्द्रः सर्व एव च ॥
             एवमाद्याः हरेः साक्षात्प्रादुर्भावाः प्रकीर्तिताः ।
             श्रीर्भूर्दुर्गाऽम्भृणी ह्रीश्च महालक्ष्मीश्च दक्षिणा ॥
             सीता जयन्ती सत्या च रुक्मिणीत्यादिभेदिता ।
             प्रकृतिस्तेन चाविष्टा तद्वशा न हरिः स्वयम् ॥
             ततोऽनन्तांशहीना च बलज्ञप्तिसुखादिभिः ।
             गुणैः सर्वैस्तथाऽप्यस्य प्रसादाद् दोषवर्जिता ॥
             सर्वदा सुखरूपा च सर्वदा ज्ञानरूपिणी ।
             प्राणः सूत्रं महान् ब्रह्मा चित्तं वायुर्बलं धृतिः ॥
             स्थितिर्योगश्च वैराग्यं ज्ञानं प्रज्ञा स्मृतिः सुखम् ।
             मेधा मुक्तिर्विष्णुभक्तिरादिगोपो महाप्रभुः ॥
             ऋजुः समानो विज्ञाता महाध्याता महागुरुः ।
             हनूमान् भीम आनन्द इत्यादिबहुरूपिणः ॥
             हिरण्यगर्भा येऽतीताः ये भाव्या यश्च वर्तते ।
             सर्वे विष्णुवशा नित्यं विमुक्तेरप्यनन्तरम् ॥
             एभ्यः श्रीस्तु विमुक्तेभ्यो गुणैः कोटिगुणोत्तरा ।
             ज्ञानानन्दबलादिभ्यः सर्वेभ्यः सर्वदैव हि ॥
             भिन्नाभिन्नाश्च ते सर्वे ब्रह्माणस्तु परस्परम् ।
             अभिमानः पृथक्तेषामानन्दः सह भुज्यते ॥
             ते तु भिन्ना हरेर्नित्यं श्रियोऽन्येभ्यस्तथैव च ।
             आविष्टो विष्णुरेतेषु न विष्णुस्तत्स्वरूपकः ॥
             विष्णोरतिप्रियत्वात् ते ह्यध्यर्धा इति चोदिताः ।
             विष्णोः केवलभेदेऽपि शेषादिभ्यः प्रिया यतः ॥
             विष्णोः प्रियत्वे तद्भक्तौ तज्ज्ञाने च श्रियस्तु ते ।
             मुक्ता अप्यवरा नित्यं सर्वे कोटिगुणेन च ॥
             सरस्वती च गायत्री श्रद्धाऽऽद्या प्रीतिरेव च ।
             सर्ववेदात्मिका बुद्धिरनुभूतिः सुखात्मिका ॥
             गुरुभक्तिर्हरौ प्रीतिः सर्वमन्त्रात्मिका भुजिः ।
             शिवकन्येन्द्रसेना च द्रौपदी काशिजा तथा ॥
             चन्द्रेत्यादिस्वरूपा यास्तेभ्यः शतगुणावराः ।
             विष्णुभक्तौ च तत्प्रीतौ ज्ञानानन्दादिकेष्वपि ॥
             मुक्तेः पश्चादपि गुणैः सर्वैर्ब्रह्मभ्य ईरिताः ।
             शेषः सदाशिवश्चोर्ध्वस्तपोऽहङ्कार एव च ॥
             नरोऽपटो लक्ष्मणश्च रौहिणेयः शुकस्तथा ।
             सद्योजातो वामदेवश्चाघोरस्तत्पुमानपि ॥
             दुर्वासा द्रौणिरौर्वश्च जैगीषव्यादिरूपकाः ।
             पूर्वोक्तैश्च गुणैः सर्वैस्ताभ्यः शतगुणावराः ॥
             मुक्तेः पश्चादपि सदा अतीतानागताश्च याः ।
             अतीतानागता ये च सर्वशोऽप्यवराः सदा ॥
             एवं सुपर्णाः सर्वेऽपि समाः शेषैः सदैव तु ।
             सर्वैर्गुणैस्तथा मुक्तौ तद्भार्यास्तच्छतावराः ॥
             ताभ्यः शतावरास्त्विन्द्राः पुरन्दर इतीरिताः ।
             तेभ्यः शतावरास्त्वन्ये इन्द्राश्चान्याश्च देवताः ॥
             द्वित्रिपञ्चादिगुणतः परस्परविशेषिणः ।
             सनत्कुमारास्तु सदा पुरन्दरसमा मताः ॥
             सनकाद्या नारदश्च दक्षभृग्वादयोऽपि च ।
             देवावरा यथा तद्वन्मनवोऽपि प्रकीर्तिताः ॥
             त्रिचतुर्भागभेदेन तेऽप्यन्योन्यविशेषिणः ।
             वाली गाधिर्विकुक्षिश्च पार्थ इन्द्रः पुरन्दरः ॥
             सुदर्शनश्च भरतः प्रद्युम्नः स्कन्द एव च ।
             सनत्कुमारः कामश्चेत्येक एव व्यवस्थितः ॥
             स्वायम्भुवो मनुर्दक्षो वायुः स्पर्शाधिपस्तथा ।
             बृहस्पतिश्चानिरुद्ध एते सूर्यादितोऽधिकाः ॥
             सूर्यश्च चन्द्रमाश्चैव यमश्चैते त्रयः सुराः ।
             प्रोक्तेभ्यस्त्ववराश्चान्यदेवेभ्योऽपि सदाऽधिकाः ॥
             कार्तवीर्यः पृथुश्चैव दौष्यन्तिर्भरतस्तथा ।
             शशबिन्दुश्च मान्धाता ककुत्स्थाद्यास्तथाऽपरे ॥
             सर्वे ते विष्णुनाऽऽविष्टाः विष्णोर्भिन्नाः सदैव तु ।
             शतावराश्च देवेभ्यः कर्मदेवा इति स्मृताः ॥
             तुम्बुरुप्रमुखा ये च तथोर्वश्यादिका अपि ।
             सूर्यादिभ्योऽधमाश्चैव मन्वादिभ्यस्तथैव च ।
             वैवस्वतो मनुर्नित्यं विष्ण्वावेशी ततोऽधिकः ॥
             कार्तवीर्यादिराजभ्यो देवभृत्याः शतावराः ।
             आजानदेवास्ते प्रोक्तास्तेभ्यश्च पितरश्चिराः ॥
             पितॄणां सप्तकं यत्तत्कर्मदेवसमं मतम् ।
             विश्वामित्रो ब्रह्मपुत्रैः समो मुनिरुदाहृतः ॥
             आचार्यः पितृणां चासौ पितृभिः सह पठ्यते ।
             आजानेभ्यस्तु पितरो ह्यष्टभ्योऽन्ये शतावराः ॥
             कर्मदेवगणा अष्टगन्धर्वास्तत्परे शतम् ।
             आजानदेवास्तेभ्योऽन्ये पितृभ्यश्च शतावराः ॥
             स्वमुखेनैव देवैर्ये आज्ञाप्याः सर्वदा गणाः ।
             आख्याता देवगन्धर्वा ये त्वन्यमुखगोचराः ॥
             मानुषास्ते तु गन्धर्वास्तेभ्यस्ते च शतावराः ।
             तेभ्यः शतावराश्चैव मनुष्येषूत्तमा गणाः ॥
             देवादिष्वेषु सर्वेषु प्रोक्ता अपि विशेषिणः ।
             पञ्चांशतो दशांशाद्वा स्वस्वजात्यां परस्परम् ॥
             देवस्त्रियो दशांशोनाः स्वपतिभ्यस्तथाऽपराः ।
             अष्टांशोनाः प्रविज्ञेया यासां मुक्तौ सह स्थितिः ॥
             अनादिश्च विशेषोऽयं सर्वेषां मानुषादिनाम् ।
             इयं नीचोच्चता क्वापि न केनापि ह्यपोदितुम् ॥
             शक्यते योऽन्यथाकर्तुमिच्छेत् सोऽपि तमो व्रजेत् ।
             योऽपि वेद समत्वेन सर्वान्नीचोच्चतः स्थितान् ॥
             सोऽपि याति तमो घोरं यश्च साम्यमुदीरयेत् ।
             मानुषोत्तममारभ्य ब्रह्मान्तानां प्रयत्नतः ॥
             विष्णोर्भक्तिज्ञानपूर्वं भवेन्मुक्तिः प्रसादतः ।
             भक्तिज्ञानादयः सर्वे सर्वेषामप्यनादयः ॥
             अनादिकालादारभ्य वृद्धानामुत्तरोत्तरम् ।
             तत्तद्योग्यतया पूर्तौ विष्णोर्दृष्टिः प्रजायते ॥
             यथोदञ्चनकुम्भादेः सरित्सागरयोरपि ।
             अल्पेन महता वाऽपि पूर्तिर्योग्यतया भवेत् ॥
             एवं नरादिब्रह्मान्तजीवानां साधनैरपि ।
             अनादिसिद्धैर्भक्त्याद्यैः पूर्तिर्योग्यतया भवेत् ॥
             अल्पैः पूर्तिस्तथाल्पानां महद्भिर्महतामपि ।
             भक्त्याद्यैर्जायते तेषां साधनैर्नान्यथा क्वचित् ॥
             श्रवणं मननं चैव ध्यानं भक्तिस्तथा दृशिः ।
             ज्ञानञ्चोक्तविशेषाणां सर्वेषां साधनं भवेत् ॥
             त्यक्त्वैतानि न कस्यापि भवेन्मोक्षः कदाचन ।
             सर्वोत्तमतया ज्ञानपूर्वकः स्नेह एव तु ॥
             भक्तिर्विष्णौ समुद्दिष्टा तदन्येषां च योग्यतः ।
             विष्णुभक्तिर्देवभक्तिर्गुरौ भक्तिस्तथैव च ॥
             तत्तच्छ्रैष्ठ्यानुसारेण मुक्तौ नियतसाधनम् ।
             भक्तिपूर्तौ भवेन्मुक्तिस्तदभावे च नो भवेत् ॥
             भक्तिर्ज्ञानं तथा ध्यानं मुक्तानामपि सर्वशः ।
             नियमेन न हीयन्ते मुक्तानां ते स्वरूपकाः ॥
             साधनानि तु सर्वाणि भक्तिज्ञानप्रवृद्धये ।
             नैवान्यसाधनं भक्तिः फलरूपा हि सा यतः ॥
             स्वात्मोत्तमेषु विद्वेषात् तमो नियमतो व्रजेत् ।
             गुणानामल्पताज्ञानं तत्स्त्रीरागस्तथैव च ॥
             तत्प्रतीपे च या बुद्धिस्त्रिविधो द्वेष उच्यते ।
             द्वेषोज्झिता च या भक्तिः सा मोक्षं नियमान्नयेत् ॥
             निर्दुःखं तु सुखं नित्यं मोक्ष इत्यभिधीयते ।
             चिदानन्दशिरोदेहपाणिपादात्मकाः सदा ॥
             सर्वदोषविनिर्मुक्ता मुक्ताः क्रीडन्ति नित्यशः ।
             अनादिकालादारभ्य या भार्यास्ताः सदैव तु ॥
             ब्रह्मादीनां विमुक्तौ च भार्याः स्युर्नियमात् सदा ।
             न कदाचिद्विमुक्तानां भार्याः काश्चित् स्युरन्यगाः ॥
             न कदाचिद्वियोगश्च न विद्वेषो न वाऽरतिः ।
मोदन्ते सहिताः सर्वे सदा विष्णुपरायणाः ॥ इत्यादि पैङ्गिश्रुतिः ।
एकमेवाद्वितीयम्
             नेह नानास्ति किञ्चन
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति
एकधैवानुद्रष्टव्यमेतदप्रमयं ध्रुवम् । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति ॥
एकधैवानुदृष्टव्यं नेहनानाऽस्ति किञ्चन । मृत्योः समृत्युं गच्छति य इह नानेवपश्यति ॥
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । एवं धर्मान् पृथक्पश्यंस्तानेवानु विधावति ॥ इत्यादि च ।
इहेति परमेश्वररूपेषु अवयवेषु धर्मेषु च किञ्चन नाना नास्तीत्यर्थः । एकमेवाद्वितीयमिति तत्समोऽधिको वा तदनधीनो वा नास्तीति सतात्पर्यं निषिध्यते ।
एक एवाद्वितीयोऽसौ हरिर्वेदेषु सर्वदा । एक एवाद्वितीयोऽसावश्वमेधः क्रतुष्वपि ॥
एकैव वाऽद्वितीया सा विष्णुभक्तिर्हि साधने । एक एवाद्वितीयोऽसौ प्रणवो मन्त्र उच्यते ॥ इत्यादिवचनात् ॥
यथैकमुत्तमं पुरुषमपेक्ष्य, तस्मिन् पुरे एक एव नान्योऽस्तीत्युक्तेऽपि तत्सदृशस्तदधिको वाऽन्यो नास्तीत्युक्तं भवति ।
एक एवाद्वितीयोऽसौ तदतन्त्रस्य वर्जनात् । तत्समस्याधिकस्यापि ह्यभावात् पुरुषोत्तमः ॥ इति च ब्राह्मे ।
स्वगतभेदाविवक्षायामिहेति विशेषणं व्यर्थं स्यात् । नानेवेति भेदाभेदनिराकरणार्थम् । विरुद्धोभयसंयोग इव शब्दः प्रदृश्यते इति शब्दतत्त्वे । पर्वतेषु दुर्गे पर्वताग्रे वृष्टं यथाऽधो विधावति एवं पृथक् दृष्टान् धर्मानन्वेव तदनन्तरमेवाधोऽन्धे तमसि विधावति ।
भेदेन दर्शनाद्वाऽपि भेदाभेदेन दर्शनात् ।
             विष्णोर्गुणानां रूपाणां तदङ्गानां मुखादिनाम् ॥
तथा दर्शनकालात्तु क्षिप्रमेव तमो व्रजेत् ॥ इति ब्रह्माण्डे ।
जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः,
             द्वा सुपर्णा सयुजा साखाया,
             यो वेद निहितं गुहायां परमे व्योमन्
             सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति
एतमानन्दमयमात्मानमुपसङ्क्रम्य, इमांल्लोकान् कामान्नी कामरूप्यनुसञ्चरन् अथात आनन्दस्य मीमांसा भवति इत्यारभ्य मानुषादिब्रह्मान्तानां मुक्तानामानन्दे शतगुणविशेषश्चोच्यते । मुक्तानां चायं विशेषः । श्रोत्रियस्य चाकामहतस्य इति विशेषणात् । न हि ब्रह्मादीनामनधिगतः श्रुत्यर्थः केषाञ्चिदस्ति । न च ब्रह्माण एव केचन कामहताः केचनाकामहताः इत्यत्र प्रमाणमस्ति । तस्माच्छ्रोत्रिय इति प्राप्तश्रुतिफलत्वान्मुक्त उच्यते । अकामहतत्वं च मुख्यं मुक्तस्यैव ।
प्राप्तश्रुतिफलत्वात्तु श्रोत्रियाः प्राप्तमोक्षिणः । त एव चाप्तकामत्वात् तथाऽकामहताः श्रुताः ॥ इति च भारते ।
ब्रह्मणोऽपि ह्यमुक्तस्य नाकामहतता परा । यतस्तस्यापि कामस्य क्षणव्यवहितिर्भवेत् ॥ इति च ।
कामहतता कामेनोपद्रवः ।
ब्रह्मणोऽप्यल्पदुःखं स्यात् तदप्यनभिमानतः । नास्त्यात्मसम्बद्धतया भोगाभावात् कथञ्चन ॥ इति च ।
न चान्यस्य कस्यचिच्छ्रोत्रियस्याकामहतस्य च ब्रह्मणा समं सुखं युज्यते ।
ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सहसिद्धं चतुष्टयम् ॥ इत्यादिना श्रोत्रियत्वादिगुणैस्तस्यैवान्येभ्य आधिक्यात् । न चेन्द्रपदाद्विरक्तस्येन्द्रसमं सुखं ब्रह्मपदाद्विरक्तस्य तत्सममित्यत्र किञ्चिन्मानमस्ति । दृष्टवस्तुनि विरागे आयासाभावात् कश्चित् सुखविशेषो दृश्यते । अन्यत्र ब्रह्मपदाद्विरक्तस्य न कश्चिद्विशेषो दृश्यते । अतोऽनुभवविरुद्धत्वाद्यत्किञ्चिदेतत् ।
नरादिब्रह्मपर्यन्तं विमुक्तानां शतोच्छ्रयः ।
             निःशेषदुःखहीनानां नित्यानन्दैकभोगिनाम् ॥
अप्यानन्दो मिथोऽप्युक्तस्त्वध्वर्यूणां श्रुतौ पृथक् ॥इति हरिवंशेषु ।
यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते इत्यत्राप्येतस्मिन्निति विशेषणात् स्वगतभेदनिषेध एव ।
अभेदमीशरूपाणां भेदं जीवेशयोरपि । यः पश्येत् स्थिरया बुद्ध्या भक्तिमान् स विमुच्यते ॥इति भविष्यत्पुराणे ।
परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते । स उत्तमः पुरुषः । स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ।
यस्य लोकं समासाद्य स्वरूपमभिपद्यते । जीवः पर्येति विष्णोश्च समीपे तत्प्रसादतः ॥ यत्प्रसादात् स पर्येति स विष्णुः पुरुषोत्तमः ॥
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदध्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥
दुग्धसागरगाः केचित् केचिदश्वत्थकक्षगाः ।
             अमृतह्रदेषु केचिच्च पिबन्ति स्नातवत् सदा ॥
केचित् पश्यन्ति तं देवं सदा केचित् समीपगाः ॥
आणिं न रथ्यममृताधितस्थुरिह ब्रवीतु य उ तच्चिकेतत् रथ्यमाणिमिवाश्रित्य मुक्ताः सर्वे व्यवस्थिताः । यं विष्णुं देवदेवेशं नमस्तस्मै स्वयम्भुवे ॥ इत्यादि ।
तौ यत्र विहीयेते इत्यत्रापि परमात्मैव ।
शरीरानभिमानी यो हृदि संस्थो जनार्दनः ।
             अभिमानवतो देहे जीवस्य स नियामकः ॥
             स एव सूर्यसंस्थश्च हंसः सोऽहमिति श्रुतः ।
             हन्तृत्वाद्धंसनामासौ सोऽहं चासावहेयतः ॥
             स एव सूर्यसंस्थेन रूपेणैवाक्षिणि स्थितः ।
             सूर्यसंस्थाद्धि रूपात् स विभक्तोऽक्षिणि संस्थितः ॥
             गच्छतो म्रियमाणस्य तावुभावपि देहतः ।
             तयोर्देहविहाने तु भवेतारिष्टदर्शनम् ॥
तदा सञ्चिन्तयेद्देवं तमेव पुरुषोत्तमम् ॥ इत्यादि हरिवंशेषु ।
क्षेत्रज्ञ एता मनसो विभूतीर्जीवस्य मायारचिता अनित्याः ।
             आविर्हिताश्चापि तिरोहिताश्च शुद्धो विचष्टे ह्यविशुद्धकर्तुः ॥ क्षेत्रज्ञ आत्मा पुरुषः पुराणः साक्षात् स्वयञ्ज्योतिरजः परेशः ।
नारायणो भगवान् वासुदेवः स्वमाययाऽत्मन् व्यवधीयमानः ॥ इति भागवते ।
स्वेच्छयैवावृतो विष्णुर्जीवे तिष्ठति सर्वदा । योऽसौ नियमयन् जीवं क्षेत्रज्ञ इति शब्दितः ॥ इति हरिवंशेषु ।
अशरीरः प्रज्ञात्मेति विशेषणाच्च परमात्मा । न हि जीवस्याशरीरत्वममुक्तस्य । एष त आत्माऽन्तर्याम्यमृतः अतोऽन्यदार्तम् इति च । न हि जीवादन्यस्यार्तिरुपपद्यते । सर्वेषां भूतानामन्तरपुरुषः सम आत्मेति विद्यात् इत्यादिश्रुतिभ्यश्च ।
ब्रह्मादयो हि भूतानि तेषामन्तर्गतो हरिः । समः स सर्वभूतेषु य एवं वेद तत्त्ववित् ॥ इति भारते ।
न च मुख्ये सति लक्षणा नाम युज्यते । न च मुख्यत एव जीवेशयोरैक्यं युक्तम् । प्रत्यक्षविरोधादेव । तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते इत्यादेः । सहस्रशीर्षत्वादिसर्वेशत्वसर्वज्यायस्त्वादिज्ञानादेव मोक्षः प्रतीयतेऽनन्ययोगेन । न चात्रैक्यज्ञानमुक्तम् । पुरुष एवेदं सर्वम् इत्यत्रापि सर्वेशितृत्वमेवोक्तम् । उतामृतत्वस्येशानः इति वाक्यशेषात् ।
पुरुष एवेदं सर्वं भूतं भव्यं भवच्च यत् ।
             इत्युच्यते तदीयत्वान्न तु सर्वस्वरूपतः ॥
             भूतभव्यादिजातस्य मुक्तानामपि चेश्वरः ।
इत्युच्यते श्रुतौ विष्णुः सर्वदा पुरुषोत्तमः ॥ इति भारते ।
सर्वस्मादुत्तम इति सम्यक् स्नेहयुता मतिः ।
             सुस्थिरा भक्तिरुद्दिष्टा तया मोक्षो न चान्यतः ॥
             तया मोक्षो भवत्येव सा चेत् पूर्णा स्वयोग्यतः ।
             अपरोक्षदृशा युक्ता सा पूर्णेत्यभिधीयते ॥
             अपरोक्षदृशिश्चापि महाचार्योक्तदर्शनम् ।
             सोऽपि यन्मोक्षनियतं मनसा समुदीरयेत् ॥
             तस्य दर्शनतो याति मुक्तिं नास्त्यत्र संशयः ।
             ध्यानं च गुरुशुश्रूषा नित्यनैमित्तिकाः क्रियाः ॥
             तीर्थदानजपाद्याश्च स्वाध्यायो हरिकीर्तनम् ।
             द्वादश्यादिव्रतं चैव तुलस्याद्यैरथार्चनम् ॥
             सर्वं भक्त्यर्थमुद्दिष्टं निष्फलन्तु तया विना ।
             विष्णुभक्तियुतो मुक्तिं याति नान्यः कथञ्चन ॥
             एतदन्यत्तु यच्छास्त्रं न तच्छास्त्रं कुवर्त्म तत् ।
             विष्णोर्भक्तिमृते मुक्तिर्जीवाभेदो हरेरपि ॥
             शिवब्रह्मादिसाम्यं च हरेर्मोहार्थमुच्यते ।
             दैत्यानां मोहनार्थाय विष्णोरन्यसमानता ॥
             हीनता चोच्यते शास्त्रैर्न तद्ग्राह्यं मनीषिभिः ।
             विष्णुवायुगिरीशेन्द्रदेवविप्राः क्रमात् सदा ॥
             सामर्थ्यतो विहीनास्तु गुणैः सर्वैस्तथैव च ।
             हीनो विष्णुर्न कस्यापि सर्वतश्चोत्तमो मतः ॥
             एतदन्यत्तु यच्छास्त्रं तदासुरविमोहनम् ।
तस्मात् सर्वोत्तमं विष्णुं निश्चित्य परमं व्रजेत् ॥ इति हरिवंशेषु ।
तुलापुरुषदानाद्यैरश्वमेधादिभिर्मखैः ।
             वाराणसीप्रयागादितीर्थस्नानादिभिः प्रिये ॥
             गयाश्राद्धादिभिः पित्र्यैर्वेदपाठादिभिर्जपैः ।
             तपोभिरुग्रैर्नियमैर्यमैर्भूतदयादिभिः ॥
             गुरुशुश्रूषणैः सत्यैः धर्मैर्वर्णाश्रमोचितैः ।
             ज्ञानध्यानादिभिः सम्यक् चरितैर्जन्मजन्मभिः ॥
             न यान्ति तत्परं श्रेयो विष्णुं सर्वेश्वरेश्वरम् ।
सर्वभावैरनाश्रित्य पुराणपुरुषोत्तमम् ॥ इति पाद्मे ।
भावो भक्तिः समुद्दिष्टस्तद्वान् भावुक उच्यते इति नारसिंहे ।
मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामते ॥ इति भागवतवचनम् ।
परायण इति विशेषणान्न नारायणायनत्वं विना मुक्तिद्योतकम् ॥
न च सिद्धेऽर्थे तात्पर्याभावो वक्तुं युक्तः । अस्त्यत्र तव पिता राजेत्यादिषु सिद्ध एव तात्पर्यदर्शनात् । न च तत्र कार्ये तात्पर्यं कल्पयितुं युक्तम् । सुखसाधनत्वविज्ञानेनैव प्रवृत्त्युपपत्तेः । वाक्यस्य स्वार्थमात्रे तात्पर्यपर्यवसानात् । अधिककल्पनायामश्रुतकल्पनाप्रसक्तिः । यजेतेत्यादिष्वपि यजनादेः सुखसाधनतामात्रं प्रतीयते । न शब्दस्य प्रेरकता । वाक्यमात्रस्य प्रेरकत्वे सर्वैर्विहितमनिष्टसाधनमपि क्रियेत । व्युत्पत्तिरपि सिद्धे साङ्गुलिनिर्देशादिना युज्यते । न च कुत्रचित् सुखसाधनं विना कार्यान्वितं विद्यते । लिङ्गाद्यर्थोऽपि सुखसाधनत्वमेव । न च कार्यान्वित एव तात्पर्यमित्यत्र किञ्चिन्मानम् ।
सुखसाधनमेवैकं नृणां वेदः प्रदर्शयेत् ।
             न कुर्विति नरं क्वापि प्रेरयत्यत्र कञ्चन ॥
             सुखसाधनताज्ञानात् सुखप्राप्त्यर्थमिच्छया ।
             प्रवर्तते ततो वेदः सिद्धस्यैव प्रदर्शकः ॥
न तु कारकतां क्वापि वेदः प्राप्नोति कस्यचित् ॥ इति ब्राह्मे ।
अतस्तद्विरोधिकथनं मोहत एव । कार्यान्विते शक्तिरिति वदता सिद्धवाक्यानां प्रामाण्यमङ्गीकृतं च । अन्यथा वसन्ते वसन्ते ज्योतिषा यजेतेत्यादौ वसन्तादिलक्षणवाक्यानां स्थानान्तरस्थानां स्वार्थे प्रामाण्याभावाद् वसन्ताद्यसिद्धेर्यागाद्यसिद्धिः । कार्यान्विते शक्तिरित्युक्ते कार्यपदस्य कार्यान्वयाभावादशक्या विध्यादेरसिद्धिश्च । कार्यपदस्य स्वत एव शक्तिरन्येषां कार्यान्वितत्वेनेत्यङ्गीकारे कल्पनागौरवम् । स्वार्थे शक्तिरित्यङ्गीकारे न कश्चिद्विरोधः । कर्तव्यतामात्रे वाक्यप्रामाण्याङ्गीकारे कर्मप्रयोजने प्रमाणाभावात् तत्रापि तात्पर्यमङ्गीकर्तव्यमेवेति सिद्धमेव सिद्धे तात्पर्यम् ।
चित्रादितारकाद्वन्द्वं यदा पूर्णेन्दुसंयुतम् । चैत्रादिमासा विज्ञेयाः ॥
इत्यादौ वस्तुयाथार्थ्ये तज्ज्ञाने चोभयत्र तात्पर्यदर्शनात् । उपासनावाक्येष्वप्युपासनायां वस्तुयाथार्थ्ये चोभयत्र तात्पर्यं युक्तम् ।
उभयत्रापि तात्पर्यमात्मोपासादिके विधौ ।
             तस्मादसत्यं न ध्यायेद्ध्यायेत् तत्सत्यता तथा ।
विचार्य मतिमान् वाक्यैर्बहुभिः स्वार्थवाचकैः ॥इति हरिवंशेषु ।
तस्मादिष्टसाधनमेव सर्ववाक्यार्थः । तार्किकाणां तूक्तवचनानां प्रामाण्यं सिद्धमेव । अतस्तद्विरोधिकथनं मोहत एव ।
अनुमाया विरोधश्चेत् प्रत्यक्षेणागमेन वा ।
             सैवाप्रमाणतां गच्छेदागमद्विट् तथाऽक्षजम् ॥
             तस्मादागम एवैको मानानामुत्तमोत्तमः ।
धर्मार्थकाममोक्षाणां साक्षादेव प्रदायकः ॥
इति वायुप्रोक्तवचनान्नानुमानविरोधो वक्तुं युज्यते । सर्वत्रानिवार्यत्वाच्च प्रत्यनुमानस्य ।
निर्णयस्त्वागमेनैव नानुमाऽऽगमवर्जिता । क्वचिन्निर्णीतिहेतुः स्यादतः शास्त्राद्विनिर्णयः ॥ इति भारते ।
न च वेदात्मकेतिहासपुराणोक्तन्यायं परित्यज्य येन केनचित् क्ऌप्तन्यायो युज्यते ।
अक्षपादकणादौ च साङ्ख्ययोगार्हतास्तथा ।
             शिवशक्तिमहायानलोकायतपुरःसराः ॥
             गाणपत्याश्च सौराश्च सर्वे प्रोक्ता दुरागमाः ।
             ऋग्यजुःसामथर्वाश्चेतिहासपुराणकौ ॥
स्वागमा इति सम्प्रोक्ता मीमांसा धर्म एव च ॥ इति पाद्मे ।
पञ्चरात्रं भारतं च मूलरामायणं तथा । इतिहास इति प्रोक्तो ब्राह्माद्यं च पुराणकम् ॥ इति प्रकाशिकायाम् ।
वेदाश्चैवेतिहासाश्च पुराणं भागवतं तथा ।
             मूलप्रमाणमुद्दिष्टं मीमांसा च तथोत्तरा ॥
             एतेषामविरोधे तु मानमन्यदुदीरितम् ।
एतेषां तु विरुद्धं यदप्रमाणं विदो विदुः ॥ इति व्यासस्मृतौ ।
विष्णोः सर्वोत्तमत्वस्य ज्ञानार्थं शास्त्रमिष्यते । अतस्तत्साधकं शास्त्रं दुःशास्त्रं तद्विरोधि यत् ॥ इति ब्रह्माण्डे ।
विष्णोः सर्वोत्तमत्वं च तद्भक्त्या मोक्ष एव च । शास्त्रार्थ इति निर्दिष्टः सर्वशास्त्रार्थनिर्णयात् ॥ इति पाद्मे ।
न चागमस्याप्रामाण्यं वक्तुं युक्तं तत्प्रमाणाभावात् । स्वतः प्रामाण्याच्च । तदनङ्गीकारे चानवस्थानात् । आगमप्रामाण्यसाधकानुमानादेरप्यागमवदप्रामाण्यप्राप्तेश्च । विशेषप्रमाणाभावात् । स्वीकृतत्वाच्च तैरपि स्वागमप्रामाण्यस्य । न ह्यनुमानादिना सप्तमलधारणचैत्यवन्दनादेः स्वर्गसाधनत्वं ज्ञातुं शक्यम् । न च प्रत्यक्षमात्रप्रामाण्यवादिनस्तत्सिद्धमागमाप्रामाण्यम् । अतस्तेषां प्रत्यक्षवदनुमानवच्चाङ्गीकर्तव्यमागमप्रामाण्यम्
उक्तं च भविष्यत्पर्वणि ।
             येनोक्तमागमामात्वं कुतस्तदिति तं वदेत् ।
             प्रत्यक्षादेर्यदि ब्रूयात् तन्मात्वं क्वेति तं वदेत् ॥
             तत्स्वतश्चेदागमस्य प्रामाण्यं न स्वतः कुतः ।
             परतश्चेत् प्रमाणस्य न कस्यापि स्थितिर्भवेत् ॥
             अङ्गीकृतं च प्रामाण्यं सर्वैरप्यागमस्य तु ।
             यतः स्वपक्षप्रामाण्यं विरोधेऽप्यक्षजादिना ॥
             अङ्गीकुर्वन्ति तत्पक्षः प्रत्यक्षादिविरोधकः ।
             शून्यता क्षणिकत्वं च ज्ञानमात्रत्वमेव च ॥
             भावाभावात्मता साकं शरीरात्मत्वमेव च ।
             प्रत्यक्षेण विरुध्यन्ते मद्देह इति दर्शनात् ॥
             भावरूपस्थिरत्वादेर्ज्ञानाद्भेदस्य दर्शनात् ।
             देहभेदो यद्यमुख्यो देहैक्ये मुख्यता कुतः ॥
             जातिस्मृतिप्रमाणाच्च न युक्ता देहरूपता ।
             अनुष्ठाय च शास्त्रार्थं फलभोगस्य दर्शनात् ॥
             प्रत्यक्षादेर्विरुद्धत्वात् सौगताद्या दुरागमाः ।
             बह्वागमविरोधाच्च दुष्टत्वं तेषु संस्थितम् ॥
             प्रामाण्यं स्वीकृतं यैस्तु वेदानामागमा हि ते ।
             शतकोट्यः पञ्चरात्रं पुराणं तावदेव च ॥
             रामस्य चरितं तावत् तावदन्यच्च सर्वशः ।
             अनन्ताश्च तथा वेदाः साङ्गोपाङ्गाश्च सर्वशः ॥
             सर्वाधिक्यं यत्र विष्णोस्तात्पर्यात् समुदीर्यते ।
             विंशदेव सहस्राणि श्लोकानां समुदीरितम् ॥
             बार्हस्पत्यं तथा बौद्धं भावाभावमतं तथा ।
             शिवशक्त्यादिकं यच्च किञ्चित् प्रामाण्यसंयुतम् ॥
             त्रिंशत्कोट्येव तत्सर्वमतो मानं न तत्स्मृतम् ।
             बहुमानविरुद्धं यन्न तन्मानं विदो विदुः ॥
             गुणसाम्येऽपि किमुत गुणाधिकविरोधि यत् ।
             यथा बहूनां ज्ञानानां समानां गुणतोऽपि च ॥
             विरोध्येकं तु यज्ज्ञानं न मानत्वं गमिष्यति ।
             प्रत्यक्षादौ हि बहुभिः समैरेकमपोद्यते ॥
             तस्माद्वेदाः प्रमाणं स्युर्बाहुल्यादेव किं पुनः ।
             अदोषत्वाद्गुणाच्चैव बलवत्कार्यसाधनात् ॥
             वेदोक्तकर्मयुक्तानां तथा सिद्धिमतामपि ।
             वेदबाह्यक्रियायोगान्न बाधः क्वापि दृश्यते ॥
             वेदोक्तकर्मसिद्धानां न बाध्यं दृश्यते क्वचित् ।
असाध्यं वा ततो वेदाः प्रामाण्यं निश्चयाद्गताः ॥ इति ।
प्रत्यक्षमनुमानं च वाक्यं चेति त्रिधा प्रमा ।
             उपमाद्यं प्रमाणं यदेतेष्वन्तर्गतं हि तत् ॥
             निर्दोषेन्द्रियसंयोगः प्रत्यक्षमिति गीयते ।
             निर्दोषयुक्तिरनुमा तादृशोक्तिस्तथाऽऽगमः ॥
             मानं चैव विशेषेण निर्दोषज्ञानसाधनम् ।
             अर्थापत्तिश्चोपमा च सम्भवाद्यनुमैव तु ॥
             दुःखाद्यभावः प्रत्यक्षं बाह्यगश्चानुमा स्मृता ।
             योग्यस्यानुपलब्ध्याख्या युक्तिरेव हि बाह्यगा ॥
             मनसः सम्प्रयोगो यो दुःखादिरहितात्मनि ।
             अभावरूपं प्रत्यक्षं मनश्च द्विविधं मतम् ॥
             चेतनं च जडं चेति चक्षुराद्यं तथैव च ।
             चेतनं त्विन्द्रियं ह्यात्मस्वरूपान्नापरं स्मृतम् ॥
             मुक्तानां चेतनं त्वेव बद्धानामुभयं तथा ।
             स्वरूपेणापि संयोगः स्वरूपस्यैव युज्यते ॥
             यथा रत्नस्य संयोगस्तत्प्रकाशेन नित्यदा ।
             रत्नस्य च प्रकाशस्य न भेदः कश्चिदिष्यते ॥
             विशेषो नाम विज्ञेयो विशेषाद् दृष्टिगोचरः ।
             विष्णोरेव स्वरूपाणां तद्गुणानां तथैव च ॥
             तस्यैव शिरआदीनां नैव भेदोऽस्ति कश्चन ।
             अभेदेऽपि विशेषेण व्यवहारः पृथग्भवेत् ॥
             विष्णोर्जडेन जीवैश्च भेद एव श्रिया तथा ।
             विष्णोः क्रियाश्च याः कश्चिदभेदस्तैरपि ध्रुवः ॥
             कादाचित्कत्वमप्यासां विशेषेणैव युज्यते ।
             एवं विमुक्तजीवानां स्वरूपैः स्वगुणैरपि ॥
             स्वक्रियाभिस्तथैवैक्यं नित्यं स्वावयवैरपि ।
             भेदाभेदस्तु बद्धानां गुणैः स्वैः कर्मभिस्तथा ॥
             अंशांशिनोर्गुणस्यापि गुणिनः कर्म तद्वतोः ।
             कार्योपादानयोश्चैव व्यक्तिसामान्ययोरपि ॥
             भेदाभेदः समुद्दिष्टो विनाशो यत्र दृश्यते ।
             एकस्मिन् विद्यमानेऽपि तयोरेकस्य कस्यचित् ॥
             अविनाभावनियमो यत्राभेदस्तु तत्र हि ।
             अभेदश्च स्वभिन्नेन भेदाभेदस्तु तत्र च ॥
             भेदाभेदो न तु क्वापि विष्णोरस्ति कदाचन ।
             भेद एव तु जीवाद्यैः केवलाभेद आत्मनि ॥
             स्वरूपेषु विशेषो यः स्वरूपं तस्य सोऽपि तु ।
             क्रियाणां च न नाशोऽस्ति तच्छक्तेः पूर्वकालतः ॥
             विशेष एवोपरतिः क्रियायाः समुदीरिता ।
             विशेषस्य विशेषोऽन्यो न चैवास्ति कथञ्चन ॥
             स्वस्यापि तु विशेषश्च स्वयमेव भविष्यति ।
             यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः ॥
             तथाऽपि तु जनित्वात् सा सत्वं वस्तुन आनयेत् ।
             एवमेव विशेषोऽसौ विशेषान्तरवर्जितः ॥
             करोति न करोतीति विशेषव्यवहारकृत् ।
             व्यक्तिभावं गता या तु करोतीति स्वरूपिणी ॥
             शक्तिरूपस्थिता सैव क्रिया शक्तिरितीर्यते ।
             सा च व्यक्तिस्तु जनिवत् क्रियाया रूपमेव तु ॥
             तथापि तु विशेषेण स्वरूपेण विशेषिणी ।
             जनेर्जनिवदेवासौ ज्ञातव्या व्यतिरेकतः ॥
             एवं मुक्तक्रिया नित्या नान्येषां भ्रान्तिसम्भवात् ।
             मुक्तावुच्छेदतश्चैव निःशेषेणाखिलस्य च ॥
             नैवं मुक्तक्रियायास्तु तस्याश्च पुनरुद्भवात् ।
             अमुक्तानां क्रिया याश्च मुक्तावपि समास्थिताः ॥
             अभिन्ना इति ता ज्ञेया अभिव्यक्तेः पुनः पुनः ।
             चिन्तनादिक्रियाणां तु मुक्तावुच्छेदतः सदा ॥
             किं मया कार्यमादीनां भेदाभेद उदीरितः ।
             अचेतनेष्वस्वतन्त्राः क्रिया यस्मात् सदैव तु ॥
             भेदाभेदस्ततो ज्ञेयः सर्वत्र नियमेन तु ।
             ईश्वरः प्रकृतिर्जीवो जडं चेति चतुष्टयम् ॥
पदार्थानां समुद्दिष्टं तत्रेशो विष्णुरुच्यते ॥ इत्यादि ब्रह्मतर्के ।
पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च इत्यादिश्रुतयश्च ।
शक्तिशक्तिमतोश्चैव विशेषस्य विशेषिणः ।
             अविनाभाविता यत्र न भेदस्तत्र विद्यते ॥
             सर्वाधिकसुखत्वं च ज्ञानं सर्वाधिकं तथा ।
             सर्वाधिका सर्वशक्तिस्तेजः सर्वाधिकं तथा ।
             इत्यादयो गुणाः सर्वे स्वरूपं वैष्णवं तथा ॥
             भेदान्यत्वादयः शब्दाः अतद्रूपत्ववाचकाः ।
             क्वचिदन्तरशब्दश्च विशेषस्यैव वाचकः ॥
             एकस्मिन्नेव शब्दानां यस्तु नानास्वरूपिणाम् ।
प्रयोजकत्वहेतुः स्यात् स विशेषः प्रकीर्तितः ॥ इति च ।
यदाहुर्ब्रह्मविज्ञानात् समग्रत्वं यियासवः ।
             ब्रह्मज्ञानात् समग्रत्वं नान्यतश्चेति निश्चयात् ॥
             तत्र केचिन्मनुष्यास्तु मन्यन्ते ब्रह्म किं मतेः ।
             समग्रभावमगमदिति ब्रूयाच्च तानिति ॥
             ब्रह्माऽपि सर्वदाऽत्मानमहेयं गुणबृंहितम् ।
             सर्वदाऽस्तीति मेयं च विजानाति तथैव तु ॥
             अत एव समग्रत्वं स्वत एवास्य सर्वदा ।
             तदहेयं परं ब्रह्म यो योऽवेद्गुणबृंहितम् ॥
             सर्वदाऽस्तीति मेयं च स स याति समग्रताम् ।
             मुख्यं समग्रं तद्ब्रह्म ज्ञानस्यापि समग्रतः ॥
             किञ्चित्समग्रतां देवास्तेषां ज्ञानं हि तादृशम् ।
             आपुस्ततोऽधमां ज्ञानतादृक्त्वादृषयोऽपि तु ॥
             ऋषिभ्योऽप्यधमां प्रापुर्मानुषाश्च समग्रताम् ।
             ओयं च गुणैः पूर्णं नित्यास्तिज्ञानगोचरम् ॥
             ब्रह्म पश्यन्वामदेवः सूक्तमेतद्ददर्श ह ।
             अहं मनुः सूर्य इति स्वान्तर्यामिव्यपेक्षया ॥
             अहंशब्दो यतो विष्णौ ततश्चोत्तमपूरुषाः ।
             वर्तन्तेऽभवमित्याद्याः सर्वान्तस्थे जनार्दने ॥
             मनुरेषोऽवबोधत्वान्मन्वन्तस्थो जनार्दनः ।
             स ह्याचारानुवाचेशः प्रेरयन्मनुमानसम् ॥
             स एव सूरिभिः प्राप्यः सूर्यान्तस्थो मुमुक्षुभिः ।
             स एव कक्षगैः सेव्यः कक्षीवति समास्थितः ॥
             स एव शुक्रसंस्थस्तु नीतीः कवयति स्वयम् ।
             यतः कविः स कामस्य प्रेरणादुशनाः स्मृतः ॥
             स एव शम्बरपुरो बिभेदेन्द्रे व्यवस्थितः ।
             सर्वान्तर्यामकत्वात् तु सर्वकर्मा स एव हि ॥
             ततः सूक्ते तथोवाच वामदेवः श्रियः पतिम् ।
             यो योऽहेयं परं ब्रह्म सदैवास्तीति मानगम् ॥
             इदानीमपि जानाति स्वयोग्यां स समग्रताम् ।
             प्राप्नोति तस्य देवाश्च नाभूतिं कर्तुमीशते ॥
             आत्मा हि विष्णुर्देवानां तेषु व्याप्तो यतः सदा ।
             नियोक्तृत्वेन कार्येषु तज्ज्ञो यस्माच्च साधकः ॥
             यस्य प्रीतो हरिर्नित्यं तस्य प्रीताश्च देवताः ।
             प्रीतियोगान्नैव तस्य विरुद्धं कर्तुमीशते ॥
             एवं विलक्षणं देवमुपास्ते जीवरूपिणम् ।
             ओयोऽस्तीति मेयोऽन्योऽथान्योऽसौ हरिरित्यपि ॥
             न स वेद परं विष्णुं जीवरूपेण वेत्ति यत् ।
             नाहेयत्वं च वेदास्य तस्मात् पशुवदीरितः ॥
             पशवो बहवो यद्वत् पुरुषं भोजयन्त्युत ।
             तत्वज्ञः पुरुषस्तद्वदेकोऽपि बहुगा यथा ॥
             देवानां पशुवच्चासौ यो वेदाहेयरूपिणम् ।
             देवान् भोजयति ज्ञानसम्पत्त्या विष्णुसंश्रयात् ।
             स्वीकारे तु पशोः प्रीतिरेकस्यापि भविष्यति ॥
             बहूनां हि गवां लाभे परा प्रीतिश्च किं पुनः ।
             तस्मात् सुबहुगोरूपे देवानां तत्त्ववेदिनि ॥
             भवेदभ्यधिका प्रीतिर्विष्ण्वहेयत्ववेदनात् ।
             नित्याहेयस्तथैवान्यस्तदन्यो विष्णुरित्यपि ॥
             देवानामप्रियं ज्ञानं नैवं विद्यादतः पुमान् ।
             विष्णोरहेयतां चैव नित्यत्वं पूर्णतामपि ॥
             यो न वेद, तथा यश्च जीवैरैक्यं हरेर्वदेत् ।
             यश्चासत्यं जगद्ब्रूयात् सर्वे ते तमसि स्फुटम् ॥
             मज्जन्ति सर्ववेदैर्हि गुणैः सर्वैहरिर्यतः ।
             पूर्णो नित्यमपूर्णाश्च जीवा मुक्ता अपि स्फुटम् ॥
             निःशेषदुःखमोकेन सुखैकानुभवस्तु यः ।
             मोक्ष इत्युच्यते वेदैस्तेऽपि मुक्ता हरिं सदा ॥
             उपासते जगच्चैतत्सर्वदाऽऽद्यन्तवर्जितम् ।
             न कदाचिज्जगन्नाशो न कदाचित् तदन्यथा ॥
             जगत् प्रवाहरूपेण सर्वदैवं व्यवस्थितम् ।
             ज्ञानतः कर्मतो वाऽपि तपसा शक्तितोऽपि वा ॥
             न कस्याप्यन्यथा भाव्यं जगदेतत् कदाचन ।
             सत्यो विष्णुः श्रीश्च सत्या जीवाः सत्या जडं तथा ॥
             असत्यं नास्ति किञ्चिच्च सर्वेषां ज्ञानगोचरम् ।
ज्ञात्वा विष्णुमतो मुक्तिं प्राप्नुयात् पुरुषोत्तमम् ॥ इति भविष्यत्पर्वणि ।
इदमित्यात्मनो योग्यं सर्वं समग्रं भवति । निर्दुःखानन्दस्यापेक्षितत्वान्मनसि स्थितत्वेनेदमिति युज्यते । तत्सर्वमभवत् सर्वं भविष्यन्त इत्यादिना समग्रभावस्य प्रस्तुतत्वात् । ब्रह्म पश्यन्वामदेवो ब्रह्मणो मन्वादिजीवैरहेयत्वं प्रतिपेदे ।
ब्रह्म पश्यन्वामदेवो ब्रह्मणोऽहेयतां सदा । मन्वादिभिः सर्वजीवैः प्रतिपेदे हि मन्त्रदृक् ॥ इति ब्राह्मे ।
तदिदं ब्रह्म योऽहेयत्वादिगुणमेतर्ह्यपि वेद । अहंशब्दस्याहेयत्वानङ्गीकारे इदंशब्दोऽपि व्यर्थः । सर्वस्वरूपत्वं हि दुर्विद्वद्भिरङ्गीक्रियते । इदंशब्देन परब्रह्मविवक्षायां ब्रह्मशब्दो व्यर्थः स्यात् । इदं योऽहमिति वेदेत्येव स्यात् । एवंशब्दश्च व्यर्थः । अस्मत्पक्षे तु तदात्मानमेवावेदित्यपि ज्ञातव्यमित्येवंशब्दार्थः । तत्पक्षे तदपि व्यर्थमेव । न हि तत्पक्षे तत्स्वात्मानं वेत्ति । व्याख्यानव्याख्येयभावश्चागतिका गतिः ।
अभावे पृथगर्थानां व्याख्यामभ्यासमेव वा । कल्पयेन्नैव तद्भावे व्याख्याऽभ्यासश्च युज्यते ॥ इति भारते ।
स्वरूपज्ञं तथाऽहेयं नित्यं च ब्रह्म वेत्ति यः । समग्रभावं गच्छेत् स तत्प्रसादान्न संशयः ॥ इति च ।
स ईश्वरः एषां देवानामात्मा भवति । पुल्लिङ्गं च तत्सत्यं स आत्मा इत्यादिवद् भवति ।
देवानां व्यापकत्वात्तु तेषामात्मा हरिः सदा । तज्ज्ञः प्रियस्ततस्तेषां तस्य नाभूतिदास्ततः ॥ इति वामने ।
सर्वेभ्योऽन्यां विलक्षणां देवतां स्वगुणेभ्योऽहेयत्वादिभ्यश्चान्यां य उपास्ते ओयोऽस्मीति मेयश्चान्योऽन्यश्चासौ विष्णुरिति मत्वा यो विष्णोरन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति न स वेदेति वा ।
जीवादिभ्यो हरिर्भिन्नस्तं यः स्वगुणभेदतः ।
             ओयोऽन्यो हरिश्चान्य इति मत्वाऽन्यमेव वा ॥
             य उपास्ते न स ज्ञानी मनुष्याणां पशुर्हि सः ।
सम्यग्ज्ञानी तु देवानां पशुरित्यभिधीयते ॥ इति च ।
एवं स देवानामित्यत्र पूर्वः सम्यग्ज्ञानी परामृश्यते । एतन्मनुष्या विद्युरित्यत्रैतच्छब्देन विष्णोरन्यदेवतोपासनमुच्यते । न ह्यज्ञान्येव देवानां भोजकः । ज्ञानी हि विशेषेण भोजकः । अथो अयं वा आत्मा सर्वेषां भूतानां लोकः इति वचनात् । स य एवंवित् सर्वेषां भूतानां ब्रह्मविच्च तत्रोच्यते । प्रस्तुतत्वात्
तत्त्वविद् देवगौः प्रोक्तो नरगौश्चाप्यतत्त्ववित् । तस्माद्देवास्तत्त्वविदे प्रियं कुवर्न्त्यतन्द्रिताः ॥ इत्याग्नेये ।
तस्य ह न देवाश्च नाभूत्या ईशत इति देवानां तत्त्वज्ञानं प्रियमित्युक्तं च ।
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
             यच्चिकेत सत्यमित् तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।
             सत्यो जीवेशयोर्भेदः सत्या विष्णोर्गुणा अपि ।
सत्यं जगदिदं सर्वं सत्येशजगतोर्भिदिः ॥ इत्यादेश्च ।
भेदेनैव जगत्सर्वं भेदेनेशं गुणैः सह ।
             भेदेन जीवानन्योन्यं मुक्ताः पश्यन्ति सर्वशः ॥
             निःशेषदुःखहीनाश्च केवलं सुखभोगिनः ।
             जन्ममृत्युविहीनाश्च कालसम्बन्धवर्जिताः ।
रजस्तमःसत्वहीनाः प्रकृत्यादिविवर्जिताः ॥
इत्यादि गारुडवचनान्न ज्ञाननिवर्त्यता वक्तुं युक्ता ।
तिर्यङ्मानुषदेवादिविष्णुरूपेष्वशक्तता ।
             यस्मिन् कस्मिंश्च विषये दुःखित्वं भिन्नताऽपि वा ॥
             प्रकृतेर्विकारिता वाऽपि च्छेदभेदव्रणादि वा ।
             अज्ञानं नाशिता वाऽपि जन्म जीवैरभिन्नता ॥
             प्रकृत्यभिन्नता वाऽपि जीवाभेदः परस्परम् ।
             जडाभेदोऽथ वा विष्णोर्मिथ्यात्वं जगतोऽपि वा ॥
             अगुणत्वमदेहत्वमकर्तृत्वं तथा हरेः ।
             सम्यग्भक्तिमृते मुक्तिर्विष्णौ तद्द्वेषतस्तथा ॥
             मुक्तावभोगो जीवानां मुक्तौ साम्यं तथैव च ।
             अरूपत्वं च जीवानां मुक्तानां बन्धिनामपि ॥
             नामतीर्थादिभिर्मुक्तिस्तत्त्वज्ञानं विनाऽपि तु ।
             विष्णोः सकाशात् प्रकृतेर्ब्रह्मणोऽनन्तरुद्रयोः ॥
             गरुडेन्द्रसूर्यविघ्नादेरग्निसोमगुहादिनाम् ।
             प्रद्युम्नस्यानिरुद्धस्य देवविप्रादिनामपि ॥
             यैः कैश्चापि गुणैर्विष्णोः सकाशाद्वरता तथा ।
             यदा कदापि यत्नैर्वा वरशापादिनाऽपि वा ॥
             तपसा वाऽप्युपायैर्वा योगज्ञानादिनाऽपि वा ।
             साम्यं वा विष्ण्वधीनत्वादन्यथैषां स्थितिः कृतिः ॥
             असंसारित्वमेषां वाऽप्येषामीश्वरताऽपि वा ।
             विना विष्णुप्रसादेन मुक्तिरेषां सकाशतः ॥
विष्णोः प्रयोजनावाप्तिर्विष्णोर्दोषश्च कश्चन ॥
विष्णोः सर्वेषु रूपेषु सम्पूर्णगुणहीनता ।
             भेदो वा विष्णुरूपेषु विशेषो वा गुणेषु च ॥
             श्रियः सकाशादाधिक्यं ब्रह्मादेः साम्यमेव वा ।
             ब्रह्मवाय्वोरनन्तस्य रुद्रस्य गरुडस्य च ॥
             तेभ्यश्चैवेन्द्रसूर्यादेर्विप्रभूपादिनां ततः ।
             बद्धानां मुक्तिगानां वा दैत्यानां मोक्ष एव च ॥
             सर्वं मोहार्थमुद्दिष्टं वेदेषु हरिणाऽपि वा ।
             ब्रह्मणा वाऽथ रुद्रेण देवैश्च मुनिभिस्तथा ॥
             यथा सुराणां सज्ज्ञाने तात्पर्यं सर्वदा श्रुतेः ।
             तथा दुर्ज्ञानजनने तात्पर्यमसुरेषु च ॥
             एवमेव च देवानां विष्णुब्रह्मादिनामपि ।
             विष्णोः सर्वगुणैः पूर्तिरपि मत्स्यादिरूपिणः ॥
             अजेयत्वमभेद्यत्वमच्छेद्यत्वं च सर्वशः ।
             सर्वावताररूपाणामपि चित्सुखरूपता ॥
             श्रीब्रह्मरुद्राद्याधिक्यं सर्वेशत्वं स्वतन्त्रता ।
             सर्वशक्तिस्तत्प्रसादान्मोक्षो ब्रह्मादिनामपि ॥
             तद्भक्त्यैव विमोक्षश्च भेदो जीवेशयोरपि ।
             श्रीब्रह्मरुद्रशक्रादेः क्रमेणैव निजा गुणाः ॥
             सर्वदोषव्यपेतत्वं विष्णोः सर्वत्र सर्वदा ।
             एतत्सर्वं सर्ववेदैर्विष्ण्वाद्यैर्देवतागणैः ॥
             ऋषिभिः क्षत्रियाद्यैश्च सम्यक्तात्पर्यतः सदा ।
             उक्तं सर्वेषु शास्त्रेषु तस्माद् ग्राह्यं बुभूषुभिः ॥
             इदं सत्यमिदं सत्यमिदं सत्यं न संशयः ।
             कोटिभिः शपथैश्चापि निर्णीतं देवतागणैः ॥
             अनादिकालतश्चायं शास्त्रार्थो नान्यथा क्वचित् ।
             पुनश्चानन्तकालीन एष एव न संशयः ॥
             ज्ञातव्यश्चैष एवार्थः सर्वदैव बुभूषुभिः ।
             एवं तु स्थिरया बुद्ध्या ज्ञात्वा यास्यथ तत्परम् ॥
             एवं ते हंसरूपेण विष्णुना देवतागणाः ।
             ब्रह्माद्या बोधिताः सर्वे तथा ज्ञात्वा परं गताः ॥
             साक्षाद्विष्णुर्हंसरूप उक्त्वैवं तु दिवौकसाम् ।
             वासुदेवाख्यरूपेण तेन सर्वहृदि स्थितः ॥
             सङ्कर्षणाख्यरूपेण विवेशानन्तमेव च ।
             तं ध्यायति सदाऽनन्तस्तस्मान्मुक्तिपदेच्छया ॥
             प्रद्युम्नाख्येन रूपेण काममेव विवेश सः ।
             हंसस्तद्ध्यानतो मुक्तिं काम इच्छति सर्वदा ॥
             अनिरुद्धाख्यरूपेण सोऽनिरुद्धं विवेश ह ।
             हंसस्तद्ध्यानतो मुक्तिमनिरुद्धस्तथेच्छति ॥
इत्यादि ब्रह्माण्डपुराणे तत्त्वनिर्णयगीतायाम् ॥ ४ ॥
ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत । क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति । तस्मात् क्षत्रात् परं नास्ति । तस्मात् ब्रह्मणः क्षत्रियमधस्तादुपास्ते राजसूये क्षत्र एव तद्यशो दधाति सैषा क्षत्रस्य योनिर्यद्ब्रह्म तस्माद्यद्यपि राजा परमतां गच्छति ब्रह्मेवान्तत उप निःश्रयति स्वां योनिं य उ एनं हिनस्ति स्वां स योनिमृच्छति स पापीयान् भवति यथा श्रेयां सं हिंसित्वा ॥ ५ ॥


विष्णोर्ब्राह्मणजातिः सन् ब्रह्मा जज्ञे चतुर्मुखः ।
             इतोऽग्रे जगतस्तस्मात् क्षत्रजातिरजायत ॥
             वायुः सदाशिवोऽनन्तो गरुडः शक्र एव च ।
             कामश्च वरुणश्चैव सोमसूर्यौ यमस्तथा ॥
             एवमाद्याः क्षत्रियास्तु देवानां ब्रह्मनिर्मिताः ॥
             श्रेयसी सर्वजातिभ्यः क्षत्रजातिरिति श्रुतिः ।
             नैव क्षत्रात् परा जातिर्ब्रह्मजातिं विना क्वचित् ॥
             ब्राह्मणाच्च परो राजा राजसूयाश्वमेधयोः ।
             उपास्ते राजसूयेऽतो ब्राह्मणो राजसूयिनम् ॥
             आसीन आसनाधस्तात् तथाऽपि ब्राह्मणो गुरुः ।
             तस्मात् स राजसूयान्ते ब्राह्मणान् वन्दयीत च ॥
             यः क्षत्रियो ब्राह्मणहा पितृहा स प्रकीर्तितः ।
पापीयानेव भवति हत्वा स्वपितरं यथा ॥ इति वामने ।
स्वतोऽधिकगुणं हत्वा साक्षाच्च पितरं पुनः । क्षत्रस्य ब्राह्मणं हत्वा तावान् दोषो भवेद् ध्रुवम् ॥ इत्याग्नेये ।
ईशानो मारुतः प्राणो वायुर्जिष्णुस्तथैव च । धृष्णुश्च पवमानश्च पवनश्चेति कथ्यते ॥ इति शब्दतत्त्वे ।
मृत्युः सङ्कर्षणः शेषः शेताऽनन्तस्तथैव च । बलिर्महाविषश्चेति भूधरश्चेति कथ्यते ॥ इति च ।
इन्द्रः सुपर्णो गरुडो महाभारो धुरन्धरः । विश्वजिच्चाप्यवध्यश्च वैनतेयश्च कथ्यते ॥ इति च ।
पर्जन्यो मघवांश्चैव पुरुहूतः पुरन्दरः । प्राचीनबर्हिर्हर्यश्वः सोमपो मेषभुक्तथा ॥ इति च ।
यशोनिधिर्ब्राह्मणस्तु तद्दातुं क्षत्रिये स्वयम् । अधो ब्राह्मण आसीनो राजसूये हि सेवते ॥ इति प्रत्यये ।
ऋच्छति विनाशयति । रीङ्ग् क्षये इति धातोः ॥ ५ ॥
स नैव व्यभवत् स विशमसृजत यान्येतानि देवजातानि गणश आख्यायन्ते वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति ॥ ६ ॥


स नैव व्यभवत् स शौद्रं वर्णमसृजत पूषणमिषं वै पूषेयं हीदं सर्वं पुष्यति यदिदं किञ्च ॥ ७ ॥


विवस्वदिन्द्रवरुणविष्णुभ्योऽन्ये दितेः सुताः ।
             रुद्रादन्ये तथा रुद्रा वायोरन्ये च वायवः ॥॥
             अग्नेरन्ये च वसवो वैश्या इत्येव कीर्तिताः ।
             एक एव हरेर्जातः परिवारविवर्जितः ॥॥
             वाय्वादीन् क्षत्रियान् सृष्ट्वा पुनरल्पपरिग्रहः ।
             इच्छन् बहुपरीवारं वैश्यान् देवान् ससर्ज ह ॥॥
             ततो बहुतरानिच्छन् शूद्रान् देवान् ससर्ज ह ।
             अश्विनौ पृथिवी चैव काला मृत्यव एव च ॥ ॥
शूद्रदेवाः समुद्दिष्टा देववर्णा इति स्मृताः ।
स नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मं तदेतत् क्षत्रस्य क्षत्रं यद्धर्मस्तस्माद्धर्मात् परं नास्त्यथो अबलीयन् बलीयां समाशंसते धर्मेण यथा राज्ञैवं यो वै स धर्मः सत्यं वैतत् तस्मात् सत्यं वदन्तमाहुर्धर्मं वदतीति धर्मं वा वदन्तं सत्यं वदतीत्येतद्ध्येवैतदुभयं भवति ॥ ८ ॥


स्रष्टा स्वयं समुद्दिष्टः पालका देवता इमाः ॥ ॥
             धारणं कथमस्य स्याद्गतिश्चास्य कथं परा ।
             इति मत्वा हरेर्भक्तिर्धर्मरूपं पुनर्विभुः ॥॥
             प्राणिनां धैर्यरूपं च वायो रूपान्तरं पुनः ।
             ससर्ज मतिमान् ब्रह्मा विष्णोराज्ञापुरःसरः ॥॥
             तस्माद् वायोः परो नास्ति ऋते विष्णुं सनातनम् ।
             शेषादीनां क्षत्रियाणां वायुरेवाधिपः स्मृतः ॥॥
             धारणाद्धर्म इत्याहुर्वायुर्धारयति प्रजाः ।
             अबलोऽपि ततो वायोर्विष्णुभक्त्यादिरूपिणः ॥
             प्राप्तुमिच्छति युक्तः सन् विष्णुं सुबलवत्तरम् ।
             यथैव युवराजेन महाराजमभीप्सति ॥॥
             प्राप्तुं धर्माभिमानी स वायुः सत्याभिमानवान् ।
             तस्मादाहुर्धर्मविदं सत्यं वेत्तेति वेदिनः ॥
सत्यज्ञमथ धर्मज्ञं वायुर्देवो यतस्तयोः ॥ इति नारदीये ।
तदेतद्ब्रह्म क्षत्रं विट् शूद्रस्तदग्निनैव देवेषु ब्रह्माऽभवत् ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो वैश्येन वैश्यश्शूद्रेण शूद्रस्तस्मादग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येष्वेताभ्यां रूपाभ्यां ब्रह्माभवदथ यो ह वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति स एनमविदितो न भुनक्ति यथा वेदो वाऽनूक्तोऽन्यद्वा कर्माकृतं यदि ह वा अप्यनेवं विन्महत्पुण्यं कर्म करोति तद्धास्यान्ततः क्षीयत एवात्मानमेव लोकमुपासीत स य आत्मानमेव लोकमुपास्ते न हास्य कर्म क्षीयतेऽस्माद्ध्येवात्मनो यद्यत् कामयते तत्तत्सृजते ॥ ९ ॥


नैव व्यभवदिति परिवारबहुत्वेन यद्विशिष्टत्वं तन्नाभवदित्यर्थः ।
बृहत्वात् सर्ववर्णानां ब्राह्मणः परिकीर्तितः ।
             क्षतत्राणात् क्षत्रियश्च त्रिषूनत्वाद् विशः स्मृताः ॥
             ऊनवाची हि विट्शब्दः शुभे दत्ते त्रिभिर्यतः ।
             रमते स ततः शूद्रः स ब्राह्मण्याभिमानवान् ॥
             ब्रह्माऽग्निना सहैवास्ते देवेष्वथ नरेषु च ।
             ब्राह्मणेन सहैवास्ते ब्रह्मा शुभचतुर्मुखः ॥
             क्षत्रजात्यभिमानी तु पवनो देवराजभिः ।
             सुपर्णशेषरुद्राद्यैर्मानुषेषु च राजभिः ॥
             वैश्यजात्यभिमानी च नासिक्यो वायुरूर्जितः ।
             वस्वादिभिः सहैवास्ते देवेष्वथ नरेषु च ॥
             विड्भिः शूद्राभिमानी च निर्ऋतिर्देवतासु च ।
             नासत्ययोः पृथिव्यां च शूद्रेष्वेव तु मानुषे ॥
             यस्मादग्नौ विशेषेण ब्रह्मणः सन्निधिर्भवेत् ।
             अतोऽग्नावेव देवानां सर्वेषां नियमाद्धविः ॥
             हुत्वा लोकान् प्रार्थयन्ति तथा विप्रेषु मानुषे ।
             सर्वजात्युत्तमो ब्रह्मा यतो विप्राग्निसंस्थितः ॥
             तस्माद्विप्रांस्तथैवाग्निं तर्पयेद्ब्रह्मतुष्टिकृत् ।
             तुष्टे ब्रह्मणि विष्णुश्च तुष्टो लोकान् प्रदास्यति ॥
             अग्निविप्रार्चकोऽप्येवं यो न वेद, हरिं परम् ।
             आश्रयं सर्वजीवानां हरिस्तं नैव भोजयेत् ॥
             यथाऽनधीतो वेदस्तु यथा कर्माकृतं तथा ।
             न सम्यक् फलदो विष्णुरज्ञातो जगदीश्वरः ॥
             यद्यवेत्ता महदपि हयमेधादिकं हरेः ।
             कुर्यात् क्षयिष्णुफलवान् स भवेन्नात्र संशयः ॥
             आप्तकामतयाऽत्मेति यो विष्णुः समुदीरितः ।
             सर्वाश्रयमुपासीत तमेव पुरुषं सुधीः ॥
             विष्णुं सर्वाश्रय इति सदोपास्ते य आत्मवान् ।
             क्षीयन्ते नास्य कर्माणि शुभान्येव कदाचन ॥
             उपासनाबलान्मुक्तो भोगान् कर्मफलान् सदा ।
भुङ्क्ते विष्णोः समीपस्थः सर्वदोषविवर्जितः ॥ इति ब्रह्माण्डे ।
एताभ्यां रूपाभ्यां सहितं हि ब्रह्माऽभवत् । स्वं लोकं स्वाश्रयम् ॥
अथो अयं वा आत्मा सर्वेषां भूतानां लोकः स यज्जुहोति यद्यजते तेन देवानां लोकोऽथ यदनुब्रूते तेनर्षिणामथ यत्पितृभ्यो निमृणाति यत्प्रजामिच्छते तेन पितॄणामथ यन्मनुष्यान् वासयते यदेभ्योऽशनं ददाति तेन मनुष्याणामथ यत्पशुभ्यस्तृणोदकं विन्दति तेन पशूनां यदस्य गृहेषु श्वापदा वयांस्यापिपीलिकाभ्य उपजीवन्ति तेन तेषां लोको यथा ह वै स्वाय लोकायारिष्टिमिच्छेदेवं हैवं विदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमांसितम् ॥ १० ॥


योऽयं सर्वेषु जीवेषु नियामकतया स्थितः ।
             स विष्णुराप्तकामत्वादात्मेत्येवोच्यते बुधैः ॥
             स लोकः सर्वभूतानां सर्वजीवेषु संस्थितः ।
             वैश्वदेवादिकान् होमान् यज्ञांश्च कुरुते विभुः ॥
             कारुण्यात् सर्वदेवेषु तेन देवाश्रयो हरिः ।
             ऋषीणामाश्रयश्चापि स्वाध्यायेष्वषिसंस्मृतेः ॥
             स हि जीवेषु सन्दिष्टः पिण्डं पुत्रजनिं तथा ।
             यत्करोति पितॄणां च संश्रयस्तत एव सः ॥
             तृणोदकादिदानेन पशूनामन्नतो नृणाम् ।
             उपकाराच्च सर्वेषां प्राणिनामाश्रयो हरिः ॥
             यज्ञादीन् देवतादीनामन्नत्वेन पुरैव यत् ।
             ब्रह्माद्यैरर्थितः प्रादात् क्षीराब्धेस्तट उत्तरे ॥
             अतश्च सर्वलोकानामाश्रयो विष्णुरेव सः ।
             एवं यो वेत्ति विष्णोस्तु सर्वाधारत्वमुत्तमम् ॥
             सर्वाण्यपि हि भूतानि तस्येच्छन्त्यविनाशिताम् ।
             स्वाश्रयस्य यथा नित्यमनाशं प्रार्थयन्ति हि ॥
             राजादेरपि तान्येवमुत्तमाश्रयवेदिनः ।
             तदेतद्वासुदेवस्य सर्वाधारत्वमुत्तमम् ॥
             विदितं सर्ववेदैश्च मीमांसाभिश्च निश्चितम् ॥
इति भविष्यत्पर्वणि ।
किन्तु ब्रह्मादिभिर्देवैः पुरा दृष्ट्वा निरंहसः ।
             निर्भयान् विष्णुनाम्नैव यथेष्टं पदमागतान् ॥
             अलब्ध्वा चात्मनः पूजां सम्यगाराधितो हरिः ।
             मया चास्मादपि श्रैष्ठ्यं वाञ्छताऽहङ्कृतात्मना ॥
             ततः साक्षाज्जगन्नाथः प्रसन्नो भक्तवत्सलः ।
             अंशाशेनात्मनैवैतान् पूजयामास केशवः ॥
             देवान् पितॄन् द्विजान् हव्यकव्याद्यैः करुणामयः ।
ततः प्रभृति पूज्यन्ते त्रैलोक्ये सचराचरे ॥ इति च पाद्मे ।
आत्मैवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेत्येतावान् वै कामो नेच्छंश्च नातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयते जाया मे स्यादथ प्रजायेयाथ वित्तं मे स्यादथ कर्म कुर्वीयेति स यावदप्येतेषामेकैकं न प्राप्नोत्यकृत्स्न एव तावन्मन्यते तस्योकृत्स्नता मन एवास्यात्मा वाग्जाया प्राणः प्रजा चक्षुर्मानुषं वित्तं चक्षुषा हि तद्विन्दते श्रोत्रं दैवं श्रोत्रेण हि तच्छ्रुणोत्यात्मैवास्य कर्मात्मना हि कर्म करोति स एष पाङ्क्तो यज्ञः पाङ्क्तः पशुः पाङ्क्तः पुरुषः पाङ्क्तमिदं सर्वं यदिदं किञ्च तदिदं सर्वमाप्नोति य एवं वेद ॥११॥ ॥ इति अव्याकृतब्राह्मणम् ॥


॥ इति अव्याकृतब्राह्मणम् ॥ ३५ ॥
एको नारायणः पूर्वमासीज्जायां स ऐच्छत ।
             विद्यमानामपि सदा भोगार्थं पुरुषोत्तमः ॥
             नित्यत्वेऽप्युभयोर्देवोऽवियुक्तस्तु तया यदा ।
             एक इत्युच्यते देव्या रममाणः सुतं विभुः ॥
             ऐच्छद्ब्रह्मा ततो जज्ञे ततो देवांश्च सर्वशः ।
             जाते पुत्रे वित्तमैच्छद्भूतान्यण्डं ततोऽभवत् ॥
             अण्डस्यान्तस्त्विमे लोकाः कुर्यां कर्मेति चैच्छत ।
             ततस्तु कृतवान् यज्ञं स्वस्मै स पुरुषोत्तमः ॥
             आहुरात्मेति तं देवं पूर्णत्वाद्विष्णुमव्ययम् ।
             तस्मादद्यापि यः कामी स ह्येतावन्तमिच्छति ॥
             दैवं वित्तं सुखाद्यं हि मित्राद्यं मानुषं तु यत् ।
             इदानीमपि तस्माद्धि कामयेदेवमेव तु ॥
             यः कश्चित् पुरुषो वाऽपि तद्वैकल्यादकृत्स्नवान् ।
             एकाकिनोऽप्यवैकल्यं यथैव स्यात् तथा शृणु ॥
             स्वात्मनस्त्वपृथग्यत्तज्ज्ञानरूपं मनः परम् ।
             मुक्तावपि न हेयं यत्तत्स्वात्मेत्येव चिन्तयेत् ॥
             जायां तु तादृशीं वाचं बलं तादृक्स्वमात्मजम् ।
             श्रोत्रं चक्षुश्च तादृग्यद्वित्तं दैवं च मानुषम् ॥
             एवम्भूतं चिन्तनं यत्तत्कर्मेत्येव चिन्तयेत् ।
             एतत्षट्कं च हरये सर्वेशाय समर्पयेत् ॥
             एवमात्मा प्रिया पुत्रो वित्तं द्विविधमित्यपि ।
             पञ्चभिः क्रियते यज्ञः पुरुषः पशुरेव च ॥
             मातापितृभ्यामन्नेन तयोः पूर्वेण कर्मणा ।
             जन्यस्य कर्मणा चैव साध्यः पञ्चभिरेव तु ॥
             एवं हि प्राणिनोऽन्येऽपि जायन्ते नात्र संशयः ।
             एतामुपासनां कुर्याद्यो ब्राह्मं पदमाप्य च ॥
             सर्वस्यास्य पतिर्भूयाद्विष्णोरेव प्रसादतः ।
             ब्राह्मे पदे त्वयोग्या ये ते देवपदमाप्नुयुः ॥
             तस्याप्ययोग्या लोकस्य भवेयुरधिकं प्रियाः ।
क्रमान्मुक्तिं व्रजेयुश्च केशवस्य प्रसादतः ॥ इति माहात्म्ये ।
अविशेषेण ततोऽन्यत् स्यादितीच्छन्नपि न विन्देत् । ततोऽन्यस्याभावात् ।
आत्मा मनश्चिन्तनं च शेमुषी बुद्धिरित्यपि । एकार्थवाचका धीश्च मनीषा तप इत्यपि ॥ इति शब्दतत्त्वे ।
सर्वाश्रयं च पितरं सर्वेषामधिकं गुणैः ।
             अविदित्वा महत्पुण्यं कृत्वा न फलभाग् भवेत् ॥
             तथा ज्ञात्वा हरिं यस्तु कुर्यात् कर्म सदोदितम् ।
अनन्तफलवान् स स्यात् प्राप्नोति च मनोगतम् ॥ इति बृहच्छ्रुतौ ।
परमात्मैव गृहस्थान्तर्यामित्वेन सर्वेषां लोक आश्रयः ।
             गृहस्थान्तर्गतो विष्णुर्यज्ञैर्देवाश्रयो भवेत् ।
             स्वाध्याये ऋषिसंस्मृत्या ऋषीणां च सदाश्रयः ॥
             स्वाध्यायाच्छ्राद्धतश्चैव पितॄणामन्नदानतः ।
             मनुष्यादेरतो वेत्ति य एवं सततं गृही ॥
             स्वस्यान्तर्यामिणं विष्णुं सुरादीन् पूजयेत् तथा ।
             तस्याविनाशमिच्छन्ति स्वाश्रयस्य यथा सुराः ॥
तदेतत् सर्वशास्त्रेषु ऋषिसङ्घैर्विचारितम् ॥ इति नारायणश्रुतौ ।
नराणामाश्रया देवा न देवानां नराः क्वचित् । नराणां च सुराणां च गतिरेको जनार्दनः ॥ इति च ।
आत्मा ब्रह्मा ।
आत्मा तु जगतां ब्रह्मा तस्यात्मा भगवान् हरिः ।
             स एव जातः प्रथमं वासुदेवाच्चतुर्मुखः ॥
             सोऽकामयत भार्या मे स्यात् पुत्रस्तदनन्तरम् ।
             ततो वित्तं मम स्याच्च कर्म कुर्यां ततो हरेः ॥
             इति सोऽपि न तान् प्राप ततोऽपूर्णत्वमात्मनः ।
             मत्वा पूर्णत्वसिद्ध्यर्थं भार्यां वाचमकल्पयत् ॥
             प्राणं पुत्रं तथा वित्तं चक्षुर्बाह्यमथान्तरम् ।
             ज्ञानाख्यं श्रोत्रमेवासौ कर्म स्वात्मानमेव तु ॥
             एवं स मानसे यज्ञे त्वयजत् केशवं विभुम् ।
             ततोऽस्य वाचः सम्भूता भार्या तस्य सरस्वती ॥
             पुत्रः प्राणादभूर्द्वायुर्दिशो लोका हिरण्मयाः ।
             तस्यापरोक्षतां यातो भगवान् पुरुषोत्तमः ॥
             सर्वविद्या ददौ ताश्च श्रोत्रेण जगृहे विभुः ।
             आत्मना सर्वकर्माणि चकार भगवत्परः ॥
             पुराऽऽसीन्मन एवास्य तेनेदं पञ्चकं विभुः ।
             अवाप कर्मपर्यन्तं देहान्तात् पञ्चकात् स्वयम् ॥
             तस्मादद्यापि यो विद्वानुपास्ते पञ्चकं तथा ।
             विष्णूपकरणत्वेन स इदं सर्वमाप्स्यति ॥
             मुक्तिश्चान्ते भवत्यस्य पञ्चानां देवतां हरिम् ।
             नारायणं वासुदेवं तथा सङ्कर्षणं विभुम् ॥
             प्रद्युम्नं चानिरुद्धं च स्मरतो नित्यमेव तु ।
             सवनत्रयं तथा पूर्वमुत्तरं चेति पञ्चकम् ॥
             यज्ञे मध्यं शिरः पक्षौ पुच्छं पशुषु पूरुषे ।
चतुर्दिशं तथा मध्यमिति सर्वत्र पञ्चकम् ॥ इति च ॥