Bhagavatatatparyanirnaya/C12/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = चतुर्थोऽध्यायः | | title = चतुर्थोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C12_S04_V20 | | verse_id = BTN_C12_S04_V20 | ||
| Line 12: | Line 10: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥ | | verse_line1 = न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 30: | Line 29: | ||
| verse_line1 = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते । | | verse_line1 = बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते । | ||
| verse_line2 = मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥ | | verse_line2 = मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 48: | Line 48: | ||
| verse_line1 = एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह । | | verse_line1 = एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह । | ||
| verse_line2 = विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥ | | verse_line2 = विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 66: | Line 67: | ||
| verse_line1 = न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । | | verse_line1 = न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते । | ||
| verse_line2 = नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥ | | verse_line2 = नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 07:05, 9 April 2026
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥ २० ॥
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते ।मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
'प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता ।जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु ॥यथाऽऽकाशघटौ नित्यं भिन्नावेव परस्परम् ।एवमीशो जगच्चैव भिन्नावेव परस्परम्॥ इति च ॥ २५ ॥
एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह ।विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥
'अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः ।सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते ॥अवयव्यवयवानां च कार्यकारणवस्तुनाम् ।एक एव नियन्ताऽसौ हरिर्नारायणः परः॥ इति च ॥ २७ ॥
न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे चतुर्थोऽध्यायः ॥
'महाकाशो बहिस्थश्च घटाद्यन्तःस्थ एव च ।द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ ॥घटरूपस्तदन्यश्च महाकाशात् परो लघुः ।महाकाशवदेवात्र परमात्मा सनातनः ॥घटान्तःस्थमहाकाशप्रतिमोऽन्तर्गतो हरिः ।घटस्यान्तर्गताकाशो महाकाशात् परो मतः ॥तद्वद्देवादयः सर्वे जीवा मुक्त्युपयोगिनः ।तमोगाश्चैव ये सर्वे घटरूपखवन्नराः॥ इति तत्त्वसंहितायाम् ॥३०॥