Jump to content

Bhagavatatatparyanirnaya/C11/S14: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = चतुर्दशोऽध्यायः
| title        = चतुर्दशोऽध्यायः
}}
}}
== चतुर्दशोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C11_S14_V04
| verse_id      = BTN_C11_S14_V04
Line 13: Line 11:
| verse_line1  = तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
| verse_line1  = तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।
| verse_line2  = ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥
| verse_line2  = ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 31: Line 30:
| verse_line1  = एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।
| verse_line1  = एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।
| verse_line2  = पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥
| verse_line2  = पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 67: Line 67:
| verse_line1  = आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।
| verse_line1  = आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।
| verse_line2  = दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥
| verse_line2  = दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 85: Line 86:
| verse_line1  = न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः ।
| verse_line1  = न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः ।
| verse_line2  = न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥
| verse_line2  = न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 103: Line 105:
| verse_line1  = निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
| verse_line1  = निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।
| verse_line2  = अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥
| verse_line2  = अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 129: Line 132:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
| verse_line1  = वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 156: Line 160:
| verse_line1  = न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।
| verse_line1  = न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।
| verse_line2  = योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥
| verse_line2  = योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 174: Line 179:
| verse_line1  = एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।
| verse_line1  = एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।
| verse_line2  = दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥
| verse_line2  = दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 192: Line 198:
| verse_line1  = तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।
| verse_line1  = तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।
| verse_line2  = तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
| verse_line2  = तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 210: Line 217:
| verse_line1  = एवं समाहितमतिर्मामेवात्मानमात्मनि ।
| verse_line1  = एवं समाहितमतिर्मामेवात्मानमात्मनि ।
| verse_line2  = विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
| verse_line2  = विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 228: Line 236:
| verse_line1  = ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः ।
| verse_line1  = ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः ।
| verse_line2  = संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥
| verse_line2  = संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Revision as of 07:04, 9 April 2026

तेन प्रोक्ता च पुत्राय मनवे पूर्वजाय सा ।ततो भृग्वादयोऽगृह्णन् सप्त ब््राह्म महर्षयः ॥ ४ ॥

'रुद्रमिन्द्रं कुमारं च विनैवान्याग््राजो मनुः ।ब््राह्मपुत्रेष्वादिसृष्टावन्यथात्वं पुनर्जनेः॥ इति स्कान्दे ॥'पूर्वसृष्टौ पूर्वजा ये तेऽधिकाः सर्वतो गुणैः ।अनाद्यनन्तकालेषु मुक्तावपि यथाक्रमम्॥ इति निबन्धे ॥ ४ ॥
एवं प्रकृतिवैचित्र्याद् भिद्यन्ते मतयो नृणाम् ।पारम्पर्येण केषाञ्चित् पाखण्डमतयोऽपरे ॥ ८ ॥

अनेन पारम्पर्येण केषाञ्चिदेव देवादीनाम् ॥ ८ ॥
मन्मायामोहितधियः पुरुषाः पुरुषर्षभ ।श्रेयो वदन्त्यनेकान्तं यथाकर्म यथारुचि ॥ ९ ॥

धर्ममेके यशश्चान्ये कामं सत्यं दमं शमम् ।अन्ये वदन्ति चार्थं वा ऐश्वर्यं त्यागभोजने । केचिद् यज्ञं तपो दानं व्रतानि नियमान् यमान् ॥ १० ॥

आद्यन्तवन्त एवैषां लोकाः कर्मविनिर्मिताः ।दुःखोदर्कास्तमोनिष्ठाः क्षुद्रानन्दाः शुचार्पिताः ॥ ११ ॥

'मद्भक्तिवर्जितं श्रेयो ये मन्यन्ते दुराशयाः ।तेषामन्ते तमो घोरमनन्तं प्राप्यते ध््राुवम्॥ इति मान्यसंहितायाम् ॥ ११ ॥
न तथा मे प््रिायतम आत्मयोनिर्न शङ्करः ।न च सङ्कर्षणो न श्रीर्नैवाऽत्मा च यथा भवान् ॥ १५ ॥

'कृपानिमित्ता या प्रीतिर्नीचभक्तेषु साऽधिका ।आन्तरैव तु या प्रीतिः सा तूच्चेषु यथाक्रमम् ॥यथा कश्चित्स्वमात्मानं प््रिायां पुत्रमथापि वा ।अतिहाय कृपायुक्तो भिक्षवेऽन्नं ददात्यपि ॥कदाचिदेव न पुनः स्वात्मादेः सार्वकालिकम् ।योगक्षेमवहत्वं च नित्यं स्वात्मादिषु स्फुटम् ॥एवमेव परेशस्य भक्तेषु श्रियजादिषु॥ इति प््रिायविवेके ॥'यादवेभ्यश्च सर्वेभ्य उद्धवो भगवत्प््रिायः ।उद्धवाच्च प््रिायतमः प्रद्युम्नस्तु महारथः ॥तस्मादपि प््रिायतमो रामः कृष्णस्य सर्वदा ।नैव तस्मात्प््रिायतमो विनैकं तु चतुर्मुखम् ॥सर्वेऽभ्योऽपि प््रिायतमा हरेः श्रीरेव वल्लभा ।नैव तस्याः प््रिायतमो विना स्वात्मानमेव तु॥ इति यादवाध्यात्मे ॥ १५ ॥
निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् ।अनुव््राजाम्यहं नित्यं पूयेय स्वाङ्घ्रिरेणुभिः ॥ १६ ॥

स्वाङ्घ्रिरेणुभिस्तं शोधयामीत्यनुव््राजामि ।'अनुगच्छति विष्णुस्तु स्वभक्तं तस्य शुद्धये ।तस्याङ्घ्रिरेणुभिर्वातनीतैरग््रोसरः शुचिः ॥अग््रातो गमने विष्णोः पादस्पृष्टं रजो भवेत् ।अतः स्वभक्तं पूयेयेत्यनुव््राजति केशवः॥ इति सङ्ख्याने ॥ १६ ॥
कथं विना रोमहर्षं द्रवता चेतसा विना ।विनाऽऽनन्दाश्रुकलया तुष्येत् भक्त्या विनेश्वरः ॥ २३ ॥

वाग्गद्गदा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च । विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥ २४ ॥

'चित्तद्रवस्तथा स्थैर्यं प्रसादो भक्तिलक्षणम् ।आधिक्येन तु तत्रापि स्थैर्यमेव विशेषतः ॥दम्भस्य चलभक्तेश्च यस्मादश्व्रादिकं भवेत् ।दम्भादिपरिहारार्थं निगृह्णीयाच्च धीरधीः ॥अत आध्यात्मिकैः क्लेशैराधिभूताधिदैविकैः ।वाक्यैश्च वेदतन्त्राद्यैरुपदेशैश्च तादृशैः ॥बलवच्छासनैर्वापि यस्य भक्तिर्न चाल्यते ।स एव परमो भक्तो विष्णोर्हृदयवल्लभः॥ इति भक्तिविवेके ॥ २३-२४ ॥
स्त्रीसङ्गसङ्गिनां सङ्गं त्यक्त्वा दूरत आत्मवान् ।क्षेमे विविक्त आसीनश्चिन्तयेन्मामतन्द्रितः ॥ २९ ॥

न तथाऽस्य भवेत् क्लेशो बन्धश्चान्यप्रसङ्गतः ।योषित्सङ्गाद् यथा पुंसो यथा तत्सङ्गिसङ्गतः ॥ ३० ॥

'केशवे त्वन्यथाबुद्धिः सैव स्त्री सम्प्रकीर्तिता ।त्रिकालदुःखदत्वेन पुंसा सह निवासनात्॥'जुष्टत्वाद्योषिदित्युक्ता वननाद्वनितेति च ।प्रमादकरणत्वात्तु प्रमदेति च गीयते ॥त्यजेत्तत्सङ्गिनां सङ्गं बुभूषुः पुरुषः सदा ।न तादृशः क्वचिद्दोषः पुरुषस्यासुखावहः ॥क्षुद्रपापानि पापानि चोपपातकपातके ।महापातकनामानि सुमहापातकान्यपि ॥तथा स्वतिमहान्तानि पातकानि विदो विदुः ।पिपीलिकावधादीनि क्षुद्रपापोदितानि च ॥पापमस्थिमतां हत्या फलचौर्यादिरेव वा ।परदारादिकं चापि ह्युपपातकसंज्ञितम् ॥पातकं शूद्रहत्यादि ब््राह्महत्यादिकं महत् ।देवस्वहरणादीनि सुमहान्ति विदो विदुः ॥देवावज्ञा सतां चैव ततोऽपि सुमहत्तरा ।महन्महत्तरा तस्या अवज्ञा केशवे तु या ॥केशवस्य समोऽस्तीति केशवोऽस्म्यहमित्यपि ।ब््राह्माद्याः केशवात्मानः श्रीर्वा निर्गुण इत्यपि ॥मुक्तस्य तद्भावमतिररूपत्वमतिस्तथा ।त्रिगुणात्मकदेहोऽस्याप्यस्तीत्यपि तु या मतिः ॥जन्ममृत्यादिबुद्धिर्वा दुःखाज्ञानादिबोधनम् ।तस्यापि परतन्त्रत्वविज्ञानं च तदुत्तमः ॥अस्तीति या मतिस्तस्य वशादन्यस्य कस्यचित् ।अस्तीति भावनेत्याद्या अवज्ञाः सम्प्रकीर्तिताः॥ इति धर्मविवेके ॥'अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्।'अपि चेत्सुदुराचारो भजते मामनन्यभाक्॥ इत्यादि च ॥'बाध्यमानोऽपि मद्भक्तः। इत्यादि च ।'परदारदृशिः प्रोक्ता क्षुद्रपातकसंज्ञिता ।उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् ॥महापातकसंज्ञं तु पित्रादेर्दारधर्षणम् ।दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः ॥सुमहापातकं प्रोक्तं तद्गतिः सुमहत् ततः ।ऋषिदारेषु मनसो गतिरेव ततोऽधिका ॥देवदाराभिकामानां सङ्गिसङ्गस्ततोऽधिकः ।किमु विष्णोस्ततो योषित्सङ्गस्य व्यत्ययस्थितेः ॥न समं पातकं क्वापि न हि स्वस्त्र्यभिकामतः ।अवज्ञाता माधवादेस्तस्मात्तं दूरतस्त्यजेत् ॥मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् ।पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा ॥सहस्रवर्षनरकं क्षुद्रपातकजं फलम् ।उपपातकतश्चापि नरकं युगमात्रकम् ॥चतुर्युगावसानं तु पातकस्य फलं स्मृतम् ।महापातकजन्यं च कल्पावधि समीरितम् ॥सुमहापातकाच्चापि यावद्ब्रह्मलयो भवेत् ।तत्पराणां पातकानां फलमन्धन्तमः स्मृतम् ॥अधोऽधो दुःखबहुलं विष्णुदाराभिमर्शनात् ।वधादपि हि दाराणां धर्षणं कोपकारणम् ॥तस्माद्देव्यः सदा वन्द्या अग्निवन्नाभिकामतः॥ इति धर्मतत्त्वे ॥ २९-३० ॥
एवं प्रणवसंयुक्तं प्राणसंयममभ्यसेत् ।दशकृत्वस्त्रिषवणं मासादर्वाग् जितानिलः ॥ ३५ ॥

'उपास्य प्राणतोऽनुज्ञां हृदिस्थात्प्राप्य सेवकः ।अनुज्ञानन्तरं मासाद्वशे प्राणो भविष्यति ।प्रसादभाक्तवं सम्प्रोक्तं प्राणविष्ण्वोर्जयस्त्विति ॥न हि सर्वविजेतारौ विजेयौ केनचित्क्वचित् ।अपेक्षितं फलं येन दीयते तज्जितं त्विति ।यथा जिता वसुमती यथा मोक्षपदं जितम्॥ इति प्रभञ्जने ॥ ३५ ॥
तत्र लब्धपदं चित्तमाकृष्य व्योमि्न धारयेत् ।तच्च त्यक्त्वा मदारोहो न किञ्चिदपि चिन्तयेत् ॥ ४४ ॥

'व्योमेति व्याप्तशब्दः स्याद्विशेषादोतता यतः॥ इति शब्दनिर्णये ।व्योमि्न धारयेत् सर्वाङ्गेषु धारयेदित्यर्थः । तच्च धारणं त्यक्त्वा स्वत एव मनसस्तत्रैव समाहितत्वादन्यत्किमपि न चिन्तयेत् ।'यावत्समग््रास्मरणमचलं केशवे भवेत् ।समग््रां चिन्तयेत्तावद्यदा तु विचलेत्ततः ॥प्रत्यङ्गं धारणं कुर्यान्मनो यावत्समग््रागम् ।प्रत्यङ्गाभ्यासतो यावत्समग््रो सुस्थिरं मनः ॥तदा पुनः समग््रां तु धारयेद्यत्नतो बुधः ।यदा तु धारणोऽत्साहं विना तत्राचलं मनः ॥तिष्ठेत् त्यक्त्वा तदुद्योगं शङ्खचक्राम्बुजाङ्किते ।आरूढचेताः परमे शृृङ्गाराद्येकधामनि ॥नैवान्यच्चिन्तयेत्तस्मात्पूर्णानन्दाच्चतुर्भुजात् ।यतोऽन्यस्मरणे तस्मान्मनश्चलति सुस्थिरम् ॥धारणार्थप्रयत्नेन तस्मात्तदुभयं त्यजेत् ।यावत्स्वारूढचेताः स्याद्विष्णो रूपे चतुर्भुजे॥ इति ध्यानयोगे ॥ ४४ ॥
एवं समाहितमतिर्मामेवात्मानमात्मनि ।विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषि संयुतम् ॥ ४५ ॥

परमात्मानं मां स्वदेहे पश्यति । जीवज्योतिर्मयि संयुतं प्रपश्यति ।'समाधियोगे सम्पूर्णे हृदि पश्यति केशवम् ।जीवं तत्प्रतिबिम्बं च तेनैव सह संस्थितम् ॥तदाधारं तदन्तस्थं तेनैव सदृशं तदा ।आनन्दज्ञानशक्त्याद्यैः सदा तदवरं गुणैः ॥जीवन्मुक्तौ च मुक्तौ वा सततं तद्वशे स्थितम्॥ इति ।'स्वयं प्रकाशरूपत्वाज्जीवोऽपि ज्योतिरुच्यते॥ इति च तत्त्वप्रतिपत्तौ ॥ ४५ ॥
ध्यानेनेत्थं सुतीव््रोण युञ्जतो योगिनो मनः ।संयास्यत्याशु निर्वाणं द्रव्यज्ञानक्रियाभ््रामः ॥ ४६ ॥

॥ इति श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे चतुर्दशोऽध्यायः ॥
द्रव्यज्ञानक्रियाविषये भ््रामरूपं मनो लयं याति ॥ ४६ ॥