Jump to content

Bhagavatatatparyanirnaya/C10/S96: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = षण्णवतितमोऽध्यायः
| title        = षण्णवतितमोऽध्यायः
}}
}}
== षण्णवतितमोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C10_S96_V09
| verse_id      = BTN_C10_S96_V09
Line 37: Line 35:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥
| verse_line1  = अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 70: Line 69:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥
| verse_line1  = श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 87: Line 87:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥
| verse_line1  = बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 104: Line 105:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥
| verse_line1  = इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 121: Line 123:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥
| verse_line1  = दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 138: Line 141:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥
| verse_line1  = उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 155: Line 159:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥
| verse_line1  = स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 173: Line 178:
| verse_line1  = प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।
| verse_line1  = प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।
| verse_line2  = तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥
| verse_line2  = तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 190: Line 196:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥
| verse_line1  = इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 208: Line 215:
| verse_line1  = न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।
| verse_line1  = न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।
| verse_line2  = त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥
| verse_line2  = त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 225: Line 233:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥
| verse_line1  = न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 242: Line 251:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥
| verse_line1  = स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 259: Line 269:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥
| verse_line1  = तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 276: Line 287:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥
| verse_line1  = त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 293: Line 305:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥
| verse_line1  = न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 310: Line 323:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥
| verse_line1  = परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 327: Line 341:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥
| verse_line1  = वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 344: Line 359:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥
| verse_line1  = न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 361: Line 377:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥
| verse_line1  = अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 378: Line 395:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥
| verse_line1  = त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 403: Line 421:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥
| verse_line1  = वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 420: Line 439:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥
| verse_line1  = इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 445: Line 465:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥
| verse_line1  = न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 462: Line 483:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥
| verse_line1  = उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 479: Line 501:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥
| verse_line1  = यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 496: Line 519:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥
| verse_line1  = तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 514: Line 538:
| verse_line1  = इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।
| verse_line1  = इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।
| verse_line2  = समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥
| verse_line2  = समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 557: Line 582:
| verse_line1  = सभाजितो भगवता कृतासनपरिग्रहः ।
| verse_line1  = सभाजितो भगवता कृतासनपरिग्रहः ।
| verse_line2  = तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
| verse_line2  = तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}


Line 574: Line 600:
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
| verse_line1  = यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}



Revision as of 07:04, 9 April 2026

श्रीभगवानुवाच– स्वायम्भुवं ब्रह्मसत्रं जनलोकेऽभवत् पुरा । तत्रत्यानां मानसानां मुनीनामूर्ध्वरेतसाम् ॥ ९ ॥


श्वेतद्वीपं गतवति त्वयि द्रष्टुं तमीश्वरम् । ब्रह्मवादः सुसंवृत्तः श्रुतयो यत्र शेरते ॥ १० ॥


तत्राप्ययमभूत् प्रश्नस्त्वं मां यदनुपृच्छसि ।तुल्यश्रुततपःशीलास्तुल्यस्वीयारिमध्यमाः ॥ ११ ॥


अपि चक्रुः प्रवचनमेकं शुश्रूषवोऽपरे ॥ १२ ॥


'सनकाद्याः समाः सर्वे तत्र श्रेष्ठः कुमारकः ।मरुतश्च समाः सर्वे सप्त तेषु प्रधानकाः॥इति ऋक्संहितायाम् ॥ ९-१२ ॥
सनन्दन उवाच— स्वसृष्टमिदमापीय शयानं सह शक्तिभिः । तदन्ते बोधयाञ्चक्रुस्तल्लिङ्गैः श्रुतयः परम् ॥ १३ ॥


यथा शयानं सम्राजं बन्दिनस्तत्पराक्रमैः । प्रत्यूषेऽभ्येत्य सुश्लोकैर्बोधयन्त्यनुजीविनः ॥ १४ ॥


श्रुतय ऊचुः– जय जय जह्यजामजित दोषगृहीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभगः । अज जगदोकसामखिलशक्त्यबोधक ते क्वचिदजयाऽऽत्मनाऽनुचरतोऽनुचरेन्निगमः ॥ १५ ॥


'श्रीर्भूमिरितिरूपाभ्यां प्रकृतिर्विष्णुना सह ।शेते श्रुतिस्वरूपेण स्तौति ब्रह्मलये हरिम् ॥एकाऽप्यनन्तरूपा सा वाक्यभेदात्सरस्वती ।अनादिनिधना नित्या स्तौति नारायणं प्रभुम् ॥ इति ज्योतिःसंहितायाम् ॥'सर्वदा जयतो विष्णोः जयस्तस्य प्रकाशनम् ।श्रवणं दृष्टिरित्यादि प्रार्थ्यं तज्ज्ञापनं स्मृतम् ॥श्रुणोति पश्यति ह्येषः जयतीत्यादिकं स्वतः ॥जय पश्य श्रुणष्वेति तत्तज्ज्ञापनमेव, तु ॥ "इति विमलसंहितायाम् ।'श्रीर्भूर्दुर्गेति या भिन्ना प्रकृतिः शक्तिरुच्यते ।विष्णोः स्वरूपशक्तेः सा शक्यत्वाच्छक्तिरुच्यते ॥नित्याव्यवहितत्वात् तु विशेषाच्छक्तिनामिका ।यथैव पङ्कजं ब्रह्म रुद्र इत्यादिकं पदम् ॥ताभिः शयानं पुरुषं सैव तु श्रुतिरूपिणी ॥अस्तौत् प्रकाशयात्मानं प्रकृतिं जीवबन्धनम् ।जहि दोषैर्यया सर्वे गुणा जीवस्य संवृताः ॥इति तन्त्रभागवते ॥'श्रीः परा प्रकृतिः प्रोक्ता ब्रह्माणी त्ववरा ततः ।उमाशचीमुखास्तस्या अवराः सम्प्रकीर्तिताः ॥अथान्ये प्रकृती दुष्टे नृषु प्रातिस्विकं स्थिते ।स्वगुणाच्छादिका त्वेका परमाच्छादिकाऽपरा ।स्वगुणाच्छादिकां हत्वा परमाच्छादिकां परः ।व्याघुट्य मोक्षपदवीं ददाति पुरुषोत्तमः ॥अजे द्वे अपि ते प्रोक्ते अनन्ताच्छादिनी हरेः ।न विष्णुं छादयत्येषा तज्ज्ञानं छादयेत्परम् ।जीवस्यैव न तत्रापि ब्रह्मादेरस्ति सा क्वचित् ॥सर्वावरे ते प्रकृती सततं दुःखितेऽपि च ।पिशाचवत्समुद्दिष्टे पुरुषस्याधिकारिणः ।प्रेरकास्तु तयोर्देव्यः इन्दिराद्याः सुखात्मिकाः ॥इति महातत्त्वविवेके ।'राजवज्जयशब्दाद्याः नित्यबुद्धस्य बोधनम् ।विडम्बमात्रं क्वैवास्य निद्रा विद्यापतेर्हरेः ॥ "इति कापिलेये ॥दोषैर्दुःखाद्यैर्जीवगुणाः आनन्दाद्याः आवृताः यया सा दोषगृहीतगुणा ॥ त्वमसि यदात्मना समवरुद्धसमस्तभगः । यस्मात्त्वं स्वत एवानपगत-पूर्णैश्वर्यादिगुणोऽसि । अतस्त्वदाभासस्य जीवस्य प्रकृतिगृहीतत्वादेव नैश्वर्याद्याः गुणाः अवभासन्ते ॥ जगदोकसां श्रीब्रह्मादिनामप्यखिल-शक्त्यवबोधक । क्वचित्सृष्टिकाले आत्मना जीवेन प्रकृत्या च प्रवर्ततस्ते अनुचरेद्वेदो विधिनिषेधरूपेण । अन्यदा स्तुतिमात्रो न तु जीवानां प्रयोजकः ॥ तस्मात्सृष्टिं कृत्वा वेदैर्जीवान् बोधयित्वा तत्स्थामजां जहि ॥'जय जय हन हन प्रकृतिं द्रावय द्रावय भिन्धि भिन्धि दुःखं तमोऽरतिम् । अजित परम रमेशान वासुदेव वैकुण्ठ नारायण हृषिकेशानया हि जीवगुणा विसंवृताः अधिसंवृताः ॥ एष ह्यानन्दोऽजरोऽमरोऽधि-शक्ति-मांस्त्वदाभासस्त्वया तथाऽधिसम्भाव्यो यतः परः परमेश्वरः परज्ञानः परानन्दः परशक्तिः परश्रीः परयशाः परप्रवृत्तिः नित्यमेव । त्वं स्वतोऽसि त्वं रमायाः त्वं विरिञ्चिस्य रुद्रेन्द्रसूर्यसोममुखानामदभ्रशक्तिदोऽसि प्रवत-कोऽसि निवर्तकोऽसि अनोऽस्यनन्तोऽसि सृजतो हि ते श्रुतयोऽनु-वर्तन्ते नैवासृजतः । कं वा विदधते कं वा निषेधन्ति स्तुतिमात्रा एव ते स्युः प्रभो विभो समास्व व्यास्वोत्तिष्ठ प्रचर विचर सन्धिनु सन्धिनु मा ते क्षणो त्यागान्मते क्षणोत्यृगादिति "शाण्डिल्यश्रुतिः ॥'लयस्य त्वष्टमो भाग सृष्टिकाल उदाहृतः ।तत्रैव वेदसंचारो ह्यन्यदा स्तुतिमात्रकाः। इति नारदीये ॥'सृष्टिकाल एव गुणवृत्तयः । सर्वदा निर्गुणे परमेश्वर एव वर्तन्ते श्रुतयःइति 'कथं चरन्ति श्रुतयःइत्यस्य परिहारः ॥यत्प्राप्त्यर्थं यन्नियमाद्विधिनिषेधा वर्तन्ते । स त्वमित्यादिविधिनिषेधानां स्तुतिपरत्वम् ।'विध्यादीनां नियन्ताऽयं पूज्यः प्राप्यश्च तद्वताम् ।इत्यादिस्तुतिरूपेण विध्यादिश्रुतयोऽपि तु ।हरिं वदन्ति सर्वेषां तन्नामत्वादथापि च॥ इति श्रुतिनिर्णये ॥पृथक्श्रुतित्वान्न पूर्वापरमसम्बन्धः । उपलक्षणत्वादनन्तत्वात् श्रुतीनां सर्वश्रुत्यर्थाेपबंृहितत्वाच्चैतेषां श्लोकानां न सर्वश्रुतीनां पृथगुक्तिः ॥'सर्वश्रुत्यर्थसंपन्नान् श्लोकान् सत्यवतीसुतः ।एकैकशाखास्तुत्यर्थान् जगौ सर्वोपलक्षणान् ।बबन्ध तान् भागवते प्रतिश्लोकं पृथक् श्रुतीः॥ इति तन्त्रभागवते ॥ १३-१५.१ ॥
बृहदुपलब्धमेतदवशेषतया यत उदगास्तमस्यविकृतेऽविकृतः । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भवन्ति भुवि दत्तपदानि नृणाम् ॥ १६ ॥


अविकृततमोविषये त्वमुदगाः । मूलप्रकृतेरपि त्वमधिको यतः । अतो बृहत्त्वेन ते स्वरूपमुपलब्धम् । इत इदमधिकमितोऽपीदमधिकमिति सर्वाधिकत्वेन ततोऽधिकाभावेनावशेषितत्वेन ॥'द्वितीयार्थे तृतीयार्थे चतुर्र्थ्यर्थे च सप्तमी ।पञ्चम्यर्थे च प्रोक्ता या विषयेति च तां विदुः॥ इति महाव्याकरणे ॥तमसोऽधिको अभवः इत्यर्थः ॥ अतस्त्वं सर्वोत्तम इत्येवम्पराणि त्वयि मनोवचनाचरितानि दधतां नायथा तानि भवति ॥ यथा भूमौ पदं निक्षिपामीति प्रवर्ततो भूमेर्नान्यत्र भवन्ति । उदकवृक्षादेर्भूम्यन्तर्भावात् ।'आधारशक्तियुक्तत्वाद्भूरुदं च प्रकीर्ततम् ।साऽपि वाय्वन्तरङ्गैव स ह्याधारोऽखिलस्य च॥ इति महासंहितायाम् ॥अत इति हेत्वर्थे तथेत्यर्थे च । तस्माद्बृहत्वेनादधुरिति ।'अतः शब्दस्तु हेत्वर्थे तथेत्यर्थे च वर्तते ।उभयार्थे च भवति यथा शब्दविदो विदुः॥ इति शब्दनिर्णये ॥उपलब्धं वेदेेषु ॥बृहद्धि दृष्टमवशेषितं यत्स्वरूपमीशस्य तमोधिकस्य ।'सर्वाधिकत्वेन तमो हि दुर्गा ततस्तथैनं विबुधाः यथाऽगुः॥ इत्यौद्दालकायनश्रुतिः ॥अनिर्देश्यमप्येकदेशेन निर्दिष्टं भवतीत्युक्तं कथमयथाभवन्तीत्यनेन । यथा सर्वां भूमिमसञ्चरन्नप्येकदेशसञ्चारेण भूसञ्चारी भवति तथेति ।'निरपेक्षबृहत्त्वस्य ज्ञानाज्ज्ञातं भवेत्परम् ।बृहत्वमेव तु गुणैः सर्वैरुद्दिश्यते यतः॥ इति मान्यसंहितायाम् ॥ १६ ॥ २ ॥
इति सूरयस्त्र्यधिपतेऽखिललोकमल- क्षपणं तव कथामृताब्धिमवगाह्य तपांसि जहुः । किमुत पुनः स्वधामविधुताशयकालगुणाः परम भजन्ति ये पदमजस्रसुखानुभवम् ॥ १७ ॥


अनन्याश्रयत्वात्स्वधामा परमः । तेन विधुताः दुःखाद्याः आशयगुणाः उत्पत्त्याद्याः कालगुणाश्च येषां ते मुक्तास्तापान् जहुरिति किं पुनः । कथामृताब्धिमवगाह्यापि जहुरिति यदिति हेत्वर्थे इति शब्दः ॥'त्यजन्ति तापं य उक्ते भवत्कथा इति स्म मुक्ताः किमु ते स्वरूपगाः ।परावरेशेश पदं भजन्तः परं परानन्दमनारतं ते॥ इति इन्द्रद्युम्नश्रुतिः ॥ १७.३ ॥
दृतय इवोच्छ्वसन्त्यसुहृदो यदि ते महदहमादयोऽण्डमसृजन् यदनुग्रहतः । पुरुषविधान्वयोऽत्र चरमोत्तममध्यमादिषु यस्तव सदसतः परं प्रथयेदविशेषमृतम् ॥ १८ ॥


चरमोत्तममध्यमादिषु पुरुषेषु यस्तव स्वरूपं प्रथयेत् । स पुरुषविधं त्वामन्वेति ॥'ब्रह्मैव मुक्तिगेष्वादिः सुरास्तदवरोत्तमाः ।मध्यमा ऋषिगन्धर्वाश्चरमा मानुषोत्तमाः॥ इति प्राभावल्याम् ॥'असक्तो देहपुर्येष जीववद्देहगोऽपि यत् ।अथवा पुंविधातृत्वात् पुंविधः पुरुषोत्तमः॥ इति पुरुषोत्तमतन्त्रे ॥अनिशमुच्छ्वसन्त्यसुखोद्भरितास्तव रिपवो दृतिवत्तमसि प्रविष्टाः ।'तव गुणप्रथनाः परिहाय तमः परियाति ।ते पदमजस्रमनन्तसुखम् ॥इति पैङ्गिश्रुतिः ॥ १८-४ ॥
उदरमुपासते यर्हि वर्त्मनि सूक्ष्मदृशः परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगाच्च नन्दनपथाऽथ शिरः परमं पुनरिह यत् समेत्य न पतन्ति कृतान्तमुखे ॥ १९ ॥


यर्हि यस्मात् ब्रह्मवर्त्मनि । सूक्ष्मदृक्त्वाच्छार्कराक्ष्यनामानः । प्राणं प्रत्युरुगृणीहीति वचनादुदरनामकं ब्रह्मोपासते । यस्माच्चारुणयो हृद्ययना-द्धृदयनामकं तस्मादेव तत्समुपेत्य कृतान्तमुखे न पतन्ति । इतरेऽपि । परिसरः प्राणः पद्धतिः मार्गो यस्य सः परिसरपद्धतिः ।'कस्मिन्न्वहमुत्क्रान्ते उत्क्रान्तो भविष्यामि । कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति । स प्राणमसृजत। इति श्रुतिः ॥प्राण एवैनमनुप्रविशति प्राणमितरा देवताः न प्राणादपरः परमनु प्रविशति प्राण एवैनमनुभुङ्क्ते प्राणमितरा देवताः न प्राणादपरः परमनुभुङ्क्ते प्राण एवैनमन्वानन्दी भवति । प्राणमितरा देवताः न प्राणादपरः परमन्वानन्दी भवति तस्मादाहुः प्राणः पद्धतिः । इति हिरण्यनाभश्रुतिः ।अतः परिसरस्य पद्धतिरिति वा । ततो हृदः । नन्दनपथा ब्रह्मनाडीद्वारा शिर उदगात् यत् परमं ब्रह्म तत्समुपेत्य । पुनरिहैव हृदादिषु स्थितं यत् ॥'तं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं यत्प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषं तस्मा-त्प्रपदे तस्मात्प्रपदे इत्याचक्षते । शफाः खुरा इत्यन्येषां पशूनाम् । तदूर्ध्व-मुदसर्पत्ता ऊरू अभवतामुरु गृणीहीत्यब्रवीत्तदुदरमभवदुर्वेव मे कुर्वित्य-ब्रवीत्तदुरोऽभवदुदरं ब्रह्मेति शार्कराक्ष्या उपासते । हृदयं ब्रह्मेत्यारुणयो ब्रह्मा हैव ता ई । ऊर्ध्वं त्वेवोदसर्पत्तच्छिरोऽश्रयत यच्छिरोऽश्रयत तच्छिरोऽभवत्तच्छिरसः शिरस्त्वं ता एता शिर्षञ्च्छ्रियः श्रिताः चक्षुः श्रोत्रं मनो वाक् प्राणः श्रयन्तेऽस्मिन् श्रियो य एवमे-तच्छिरसः शिरस्त्वं वेद। इत्याद्या श्रुतिः ॥ १९-५ ॥
स्वकृतविचित्रयोनिषु विशन्निव हेतुतया भरतमतश्चकास्स्यनलवत् स्वकृतानुकृतिः । अपि वितथास्वमूष्ववितथोरुविधं मनसि निकटधियो नयन्त्यभिविपत्य तव ॥ २० ॥


विचित्रयोनिषु विशन् जीवः तद्वदज्ञानां चकास्सि ॥ अनलो यथा स्वकृतं दार्वादि तदपनयने गच्छन् तत्स्थापने तिष्ठन्ननुवर्तते ॥ एवमेव स्वकृत-शरीराद्यनुवर्तसे तद्गतः सन् ॥भरतमतो वायुज्ञातः । अन्यथाभवन्तीष्वपि योनिषु अनन्यथाभूत्वैव बहुविथं तिष्ठन्तं भवन्तं त्वत्समीपस्थबुद्धयो महान्तस्तवाभिपत्य मनसाऽधिगम्य मनसि त्वां नयन्ति ॥'रतत्वाद्भात्मके विष्णावथवाऽपि जगद्भृतेः ।भरतो वायुरुद्दिष्टो भारती तत्सरस्वती॥ इति नामसंहितायाम् ॥'योनिवेश्याह्वयो जीवस्त्वज्ञानां तद्वदेव तु ।प्रकाशते परो देवस्तेन यान्त्यधरं तमः ॥सर्वहेतुतयैवेशं प्राणो जानाति तत्त्वतः ।तेन चासौ परो देवस्तत्परं याति केशवम् ॥इन्धनानयने त्वग्निर्यथैवानीयते सह ।एवं देहगतो विष्णुः सह गच्छेन्निजेच्छया ॥अशाश्वतेषु देहेषु शाश्वतं बहुधा स्थितम् ।निचाय्य मनसा सन्तो जानन्ति निकटेच्छवः॥ इति तन्त्रभागवते ॥'यो जीववद्योनिषु भात्यनन्तो मूढैस्तमोगैर्भरताधिगम्यः ।निचाय्य तं शाश्वतमात्मसंस्थं तदिच्छवो त्मन् न्यदधुर्महान्तम्॥इति कमठश्रुतिः ॥ २०-६ ॥
प्रक्रमवत् स्वसत्कृतं पुरुषेषु धीषु तु बहिरन्तरसच्चरणे ।तव पुरुष वदन्त्यखिलशक्तिधृतः स्वकृतम् ॥ २१ ॥


सर्वपुरुषेषु सर्वधीषु च स्थित्वा श्रीब्रह्मादिषु प्रकर्षेण क्रमेण स्वात्मनैव सत्कृतम् ॥ अण्डाद्यन्तर्बहिश्च । असच्चरणे पापाचारे स्थित्वा पापाचारमपि स्वात्मनः पूजात्वेनैव कारयन्तं त्वां वदन्ति ॥ तस्याधोगत्यर्थम् । तस्मात्सर्वं तव स्वकृतमेव वदन्ति ॥'निषुसीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनाम् ।न ऋते त्वत् क्रियते किं च नारे महामर्कं मघवन् चित्रमर्च॥इत्याद्या श्रुतिः ॥'श्रीब्रह्मरुद्रपूर्वेषु क्रमात्स्थित्वा जनार्दनः ।स्वात्मानमर्चयत्यद्धा बहिरन्तरसत्सु च ॥असतामधमाचारो हरिदृष्ट्याऽऽत्मपूजनम् ।तस्याधोगमनायेति श्रुतिराहाखिलक्रियम्॥ इति तन्त्रभागवते ॥स्वकृतमित्यनन्यापेक्षया ॥ २१-७ ॥
इति विमृशन्ति कवयो निगमावपनं यजन्त उपासते भवमध्यविनिश्वसिताः । दुरवगमात्मतत्वनिगमायतवाङ्मनसश्चरित- महामृताब्धिपरिवर्तपरिश्रमणाः॥ २२ ॥


भवमध्यविनिश्वसिताः इति यतः । अतो विमृशन्ति कवयो निगमावपनं त्वाम् ॥ चरितमहामृताब्धिपरिवर्तपरिश्रमणाः इति यत् । अतो भवमध्य-विनिश्वसिताः । मुक्ताः निगमानामावपनं स्थानं त्वां विमृश्य यज्ञादिभि-र्भजन्त उपासते ॥ निगमविषये आयतवाङ्मनसः । निगमानां ततो व्यक्तेस्तत एव फलप्रदत्वात्तद्विषयत्वाच्च निगमावपनम् । परिवर्तो मथनम् ॥'विमथ्य वेदाब्दिमतिश्रमेण ज्ञात्वा परेशं मुनयो विमुक्ताः ।मृशन्ति यज्ञैश्च यजन्ति नित्यं उपासते वेदफलप्रदं तम्॥ इति कुशिकश्रुतिः ॥ २२-८ ॥
न परिलषन्ति केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्गविसृष्टगृहाः ।त्वदनुपथं कुलायमिदमात्मसुहृत् प्रियवच्चरन्ति तथोन्मुखास्त्वयि हि ते प्रिय आत्मनि च ॥ २३ ॥


त्वत्प्राप्त्यनुसारित्वाच्छरीरं प्रियवत् पश्यन्ति । सर्वप्रियतमे सर्वादानादि-कर्तरि च त्वयि । तथा हि तेऽभिमुखाः ॥'न किञ्चिदभिवाञ्छन्ति यतयः सुसदाश्रयाः ।प्रेष्ठस्य परमस्याप्त्यै प्रियवद्देहदृष्टयः॥ इति विमदश्रुतिः ॥ २३-९ ॥
न च रमन्त्यहो असदुपासनयाऽऽत्महनो यदनुशया भ्रमन्त्यभवाः कुशरीरभृतः । निभृतमोक्षहृदययोगयुजो हृदयं मुनय उपासते तदरयोऽपि ययुः ॥ २४ ॥


अन्यथोपासनयाऽऽत्महनोऽसुर्यान्नाम लोकान्नित्यनिरतिशयदुःखान्निरस्त-समस्तसुखान् प्राप्नुवन्ति । तदेतन्न च रमन्ति अनुभवन्ति च । नित्यदुःख-मिति चशब्देनोक्तम् । असुर्यशब्देन च श्रुतौ । सुष्ट्वरमणरूपत्वादसुर-प्राप्यत्वाच्च । यत्रानुशयनं कुर्वन्तस्तमस्येव भ्रमन्ति । अभवा जन्म-वर्र्जिताः ॥आत्महन इत्येषशब्दो भगवद्भक्तद्वेषिणामपि सम इति दर्शयति ॥ निभृत-मोक्षहृदययोगयुज इत्यादिना । ये मुनयो हृद्ययनं भगवन्तं निभृतमोक्ष-हृदयेन वायुना योगेन युक्ताः नियमिताः सन्तः उपासते तेषामरयोऽपि तदेव तमो ययुः । परिपूर्णमोक्षार्थं ज्ञानं यस्य सः निभृतमोक्षहृदयः ।'असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः ।तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः॥ इति श्रुतिः ।'नित्यदुःखसुसम्पूर्णं निरस्तानन्दमव्ययम् ।तमो यान्त्यन्यथाज्ञानाद्द्वेषाद्वा हरिसंश्रये॥ इति प्राणसंहितायाम् ॥'निभृतो मोक्षवित्प्राणस्तद्योगात्तत्प्रसादतः ।जानन्ति परमं देवं नान्यथा तु कथञ्चन॥ इति भागवतसंहितायाम् ॥ २४-१० ॥
स्मरणात् स्वनुराग तद् भवान् उरगेन्द्रभोगदण्डविषक्तधियो वयमपि ते समासमदृशोऽङ्घ्रिसरोजसुधाम् । क इह नु वेद वक्तुमपेतजन्मलयो यत उदगाद् ऋषिरनु देवगणा उभये ॥ २५ ॥


हे स्मरणादेव स्वनुरक्त तत्ते स्वरूपं भवानेव वेद । उरगेन्द्रभोगदण्डे विषक्तबुद्धेस्तेऽङ्घ्रिसरोजसुधां वयमपि समासमदृशः । सर्वमाहात्म्यस्य वेदैरपि वक्तुमशक्यत्वादसमदृशः वेदागम्यमाहात्म्यस्यापि वेदैरेव गम्यत्वा-त्समदृशः ॥ अतः कोऽन्यो वक्तुं वेद । को ह्यस्मांस्त्वां चर्तेऽपेतजन्मलयः यतः उदगादुत्पत्तिमानेव ऋषिर्ब्रह्मा । प्राप्तपदा अप्राप्तपदाश्च देवगणाः ।'त्वं वेत्थ नापरस्ते स्वरूपं ननित्यवाङ्नागभोगप्रियस्य ।कुतो ब्रह्मा प्राप्तलोकाश्च देवास्तथाऽप्राप्ताजनिमन्तो यतोऽस्मात् ॥ इति सङ्कृतिश्रुतिः ।'महिम्नः सर्वशोऽनुक्तेर्वेदाश्चासमदर्शिनः ।तस्यापि वेदगम्यत्वात्तथैव समदर्शिनः॥ इति तन्त्रभागवते ॥ २५-११ ॥
तर्हि न सन्न चासदुभयं न च कालजवः किमपि न तत्र शास्त्रमपकृष्य शयीत यदा । जनिमसतः सतो मृतिमजात्मनि ये च भिदां विपणमृते स्मरन्त्युपविश ध्वनिमारुवतः ॥ २६ ॥


शास्त्रमपकृष्य प्रलये शास्त्रस्य प्रवृत्त्यभावात् । असतः सूक्ष्मरूपात्सतः स्थूलरूपस्य परमेश्वरपर्यन्तं यथाक्रमं जन्म मृतिं च सर्वस्मात्परमात्मनि भेदं च विपणं फलापेक्षामृते ये स्मरन्ति तेषां ध्वनिमुपविश । आरुवतो वायोः प्रसादात्तथा स्मरन्ति ॥'नासदासीन्नो सदासीत्तदानीं नासीद्रजो नो व्योमा परो यत् ।किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद्गहनं गभीरम्॥ इत्यादिश्रुतिः ॥'सूक्ष्माणि महदादीनि स्थूलान्यण्डादिकानि च ।उभयं त्वग्निरापश्च न किञ्चित्प्रलयेऽभवत्॥ इति प्रकाशसंहितायाम् ॥'सर्ववेदादिरूपेण प्राणस्यारुवतः सदा ।प्रसादाद्ये विजानन्ति सूक्ष्मात् स्थूलजनिं क्रमात् ।मृतिं च सर्वजीवादेरीशस्य व्यतिरिक्तताम् ।जानन्ति ये निराकाङ्क्षाः तेषां वाचि जनार्दनः॥ इति तन्त्रभागवते ॥ २६-१२ ॥
त्रिगुणमयः पुमानिति यदबोधकृता त्वयि न तु भवेत् तदवबोधरसे । सदिव मनस्त्रिवृत् त्वयि भवत्यसतां मनुजा- दयो विमृशन्त्यशेषमिदमार्ततयाऽऽत्मविदः ॥ २७ ॥


अबोधकृता त्रिगुणबद्धता । यस्माज्जीवस्यापि तस्मात्तदवबोधरसे त्वयि सा न विद्यते । त्रिगुणात्मकं मनस्तवापि विद्यते इत्यसतां पक्षः । मनुजा-नामादयो देवास्त्रिगुणातीतत्वाद्भवतो भवानेव परमानन्दः । त्वदन्यत्सर्वं जीवजातमार्तमित्येव विमृशन्ति ।'सत्वादिजं देहमथो मनश्च सत्वादिबद्धं च वदन्त्यसन्तः ।परं पुमांसं न सुरास्तु तैर्हि जीवाः सुदृष्टा परमार्तरूपाः॥ इति सूकरायणश्रुतिः ॥'त्रैगुण्यदेहेन्द्रियकमासुरा जानते हरिम् ।त्रिगुणातीतमीशेशमतः पूर्णसुखं सुराः ॥जानन्ति गुणबद्धत्वाज्जीवानार्तांश्च कृत्स्नशः ।अनार्तस्य प्रसादेन तेषामार्तिविनाशनम्॥ इति चैतन्यविवेके ॥ २७-१३ ॥
न हि विकृतं त्यजन्ति कनकस्य तदात्मतया स्वकृतमनुप्रविष्ट इदमात्मतया रसितम् । तव ये परिचरन्त्यखिलतत्वनिकेततया ननु ते पदाऽऽक्रमन्त्यविगणय्य शिरो निर्ऋतेः ॥ २८ ॥


यथा कनकस्य विविधकृतं कुण्डलादिकं कनकं विना परित्यक्तुं न शक्यते तथा स्वकृतं जगदनुप्रविष्टो भगवान् मूलरूपं विना परित्यक्तुं न शक्यः । आत्मतया एकरूपत्वात् । रसितं आत्मना प्रकाशितं जगत्प्रविष्टस्तस्मा-त्सर्वगतो विष्णुरिति ज्ञातव्य इत्यर्थः । इत्थं ये ज्ञात्वा परिचरन्ति तव स्वरूपं ते ऋतात्मकब्रह्मप्राप्तिविरुद्धत्वान्निर्ऋत्याख्यसंसारस्य शिरः स्फुटं पदाऽऽक्रमन्ति ।'सर्वगं ये प्रपश्यन्ति ब्रह्मानन्दमजाक्षरम् ।एकमेवाद्वयं नित्यं निर्ऋतेस्ते शिरो गताः॥इति सौकरायणश्रुतिः ॥'यथैव कुण्डलं त्यक्त्वा नादातुं कनकं शकम् ।तस्यैव तदवस्थत्वात्केवलाभेदतः स्पुटम् ॥एवं सुरासुरनरेष्वास्थितो भगवान् हरिः ।नैव भेदेन मन्तव्यो जीवभेदे तु सत्यपि ॥ये तथाऽभिन्नमीशेशं पश्यन्ति परमर्षयः ।ऋतप्राप्तिविरुद्धत्वात्संसारनिर्ऋतेः शिरः ॥अगणय्य पदाक्रम्य वैष्णवं निलयं ययुः॥ इति गारुडे ॥ २८-१४ ॥
परिवयसे पशूनिव गिरा विबुधानपि तां- स्त्वयि दृढसौहृदा ननु पुनन्ति न ते विमुखाः । त्वमेकः स्वराडखिलकारकशक्तिधर- स्तव बलिमुद्वहन्ति समदन्ति च येऽनिमिषाः ॥ २९ ॥


वयति गा इव यः सुरादिकांस्तन्मनसो जगदपुनन् शुचयो न परे ।'स एकः ईशः परिपूर्णशक्तिर्बलिं हरा इतरे स्युः सुराः सुखिनः॥ इत्यारुणिश्रुतिः ॥'विष्णुना देवता बद्धाः विष्णवे च बलिप्रदाः ।विष्णुरासां पतिर्नित्यं न विष्णोर्बन्धकः क्वचित्॥ इति वामने ॥ २९-१५ ॥
वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिताः । स्थिरचरजातयः स्युरज ये त्वनिमित्तयुजो विरह उदीक्षयेत् यदि परस्य विमुक्तसतः ॥ ३० ॥


स्थिरचरजातयो ये तेऽनिमित्तयुजः स्युः । भगवन्नियमादेव संसारयुजः स्युः । विरहे मुक्तौ । यदि परस्य सकाशान्मुक्तिरेवेत्युदीक्षयेत्स परः । विमुक्ताः सन्तो येन परेण तस्य विमुक्तसतः । 'नान्यः पन्था अयनाय विद्यतेइति श्रुतिः । मुक्तिस्तस्मादेवेत्यङ्गीकर्तव्यम् । अतो बन्धोऽपि तत एवेत्यर्थः ।'सतां विमुक्तिदाद्विष्णोर्मुक्तिर्यद्यभ्युपेयते ।बन्धोऽपि तत एव स्याद्यस्मादेकस्तयोः पतिः॥ इति स्कान्दे ॥'आत्मानं मुक्तिदं विष्णुः यदि पुंस उदीक्षयेत् ।सुप्रसन्नस्तदा बन्धस्तत एवेति सेत्स्यति॥ इति ब्राह्मे ॥खण्डाधीशाः सार्वभौमस्य यद्वद्ब्रह्मेशाद्याः कुर्वते तेऽनुशास्तिम् ।त्वं मुक्तिदो बन्धदोऽतो मतो नस्त्वं ज्ञानदोऽज्ञानदश्चासि विष्णो ॥ इत्युदारशाण्डिल्यश्रुतिः ॥ ३०-१६ ॥
न हि परमस्य कश्चिदपरोऽनपरस्य भवेत् व्ययत इवात्र यस्य च शून्यतुल सन्दधतः । अपरिमिता ध्रुवास्तनुभृतो यदि सर्व ततो न हि न शास्यतेति नियमो ब्रुवते च तथा ॥ ३१ ॥


यस्य परमस्य ते कश्चिदपरः स्वतन्त्रो नास्ति । अनपरस्य प्राणोत्तमस्य । अत्र जीवसमुदाये । व्ययतः विशेषेणायतः सर्वज्ञस्य यथा प्राणस्य नापरः स्वतन्त्रः तद्वत्प्राणः श्रीरन्योेेे वा त्वां विना स्वतन्त्रो नास्ति ॥ हे शून्यतुल समानवर्जित । सर्वं संदधतस्ते ॥ यदि त्वत्तः प्राणात्तनुभृतो जीवा ध्रुवास्तर्ह्यपरिमिताः सन्ति । हे सर्व पूर्ण । 'एकमेवाद्वितीयम्। 'एकं परंज्योतिरन्यन्यमद्वयम्इत्यादिनियमो जीवानां शास्यता नेत्यत्र नहि । किन्तु स्वगतभेदस्य ईश्वरान्तरस्य अतत्तन्त्रस्य निषेधे । 'अतोऽन्य-दार्तम्॥ 'नेह नानास्ति किञ्चन। 'न तत्समश्चाभ्यधिकश्च दृश्यतेइत्यादि तथा ब्रुवते च ॥'तव स्वतन्त्रो नापरो तद्वदत्र प्राणान्नान्यस्तुल्यशून्यस्य सन्धिन् ।प्राणाधीना अमिता जीवसङ्घाः प्राणो वशे ते प्रकृतिश्च भूमन् ॥"-इति महाशालीनश्रुतिः ।'स्वतन्त्रो नापरः कश्चिद्विष्णोः प्राणपतेः प्रभोः ।यथा प्राणात् परो नास्ति स्वतन्त्रो जगति क्वचित् ॥तथा प्राणो रमा चैव न विष्णोः पृथगीश्वरौ ।यद्युच्यन्ते प्राणतन्त्राः बहवः पुरुषा इति ॥सत्यमेव ह्मसङ्ख्याताः न नियम्यनिषेधकाः ।एकाद्वितीयश्रुतयः किन्त्वीशान्तरवारकाः ॥तथा स्वगतभेदस्य तदतन्त्रनिषेधकाः ॥ इति ब्रह्माण्डे ॥'स्वरूपमस्मरत्कृष्ण एकं स्वस्मिन्नभेदतः ।अतत्तन्त्रस्य राहित्यादनन्यं सदृशोज्झितेः ॥अद्वयं नित्यनिर्वृत्या भावनिर्वृतिमीश्वरम्॥ इति तन्त्रभागवते ॥'अधिकस्य समस्यापि स्वतन्त्रस्य च वर्जनात् ।एक एवाद्वितीयोऽसौ न शास्यजनवर्जनात् ॥ इति कौर्मे ॥ ३१-१७ ॥
अजन परिमुच्यतेऽत्र भवात् सततात् सममनुजानता ततमनन्तमदुष्टतया । न घटत उद्भवः प्रकृतिपूरुषयोरजयो- रुभययुजोर्भवन्त्यसुभृतो जलबुद्बुदवत् ॥ ३२ ॥


अनन्तमदुष्टतयाऽनुजानताऽऽचार्येण सन्तताद्भवात्परिमुच्यते ॥ अबद्धश्च प्रकृतिपरेशौ विनाऽन्यो न विद्यते । यतस्तयोरेवोद्भवो न घटते । ततस्तयोरजयोरसुभृत उद्भवन्ति ॥ देशतः कालतश्च यत्र परमस्तत्र प्रकृतिर्यत्र प्रकृतिस्तत्र परम इत्युभययुजोः ।'मुच्यते तत्वसंबुद्धादाचार्यात्पुरुषो भवात् ।एतावेव स्वतोऽबद्धौ परमः प्रकृतिस्तथा ॥इति कलापश्रुतिः ॥'सम्यग्ज्ञानवदाचार्यान्मुच्यते पुरुषो भवात् ।द्वावेव नित्यमुक्तौ तु प्रकृतिः परमस्तथा॥ इति वामने ॥'देशतः कालतश्चैव समव्याप्तावुभावजौ ।ताभ्यामुभययोगाभ्यां जायन्ते पुरुषाः परे॥ इति कौण्ठरव्यश्रुतिः ॥ ३२-१८ ॥
त्वयि त इमे ततो विबुधनामगुणाः परमे अमृत इवार्णवे मधु निलिल्युरशेषरसाः । नृषु तव मायया स्वगतया कुशलं त्वयि सुधियोऽङ्ग भेदमनुविधातुमनु प्रभवः । कथमनुवर्तिनां भवभयं तव भ्रुकुटी सृजति मुहुर्नृणाम् ॥३३॥


हे तत ओ । त इमे विबुधनामार्थभूता गुणास्त्वयि निलिल्युः । परमेऽ-मृतार्णवे मधुन्यशेषरसा इव । अतः पूर्णगुणत्वाद्भवतो नृणां मध्ये सुधियः । तव मायया त्वदिच्छयैव । त्वयि कुशलं विधातुं प्रभवः । तत्र कुशलं भेद एव । सर्वस्मादन्यो विशिष्टगुणः पर इति दर्शनम् ॥ स्वगतया सुष्ठु अन्यैरनवगतया । तथा त्वत्प्रसादादनुवर्तिनां कथं मुहुर्भवभयं तव भ्रुकुटी सृजति ॥'यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।यो देवानां नामधा एक एव तं सम्प्रश्नं भुवना यन्त्यन्या॥'त आऽयजन्त द्रविणं समस्मा ऋषयः पूर्व जरितारो न भूना ।असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि। इत्यादिश्रुतिः ॥'ब्रह्मेशेन्द्रादिसन्नाम्नां येऽर्थभूता गुणा मताः ।पूर्तीशीतृत्वद्रष्टृत्वप्रमुखास्ते हरेः सदा ।अतस्तु सर्वनामाऽसौ सर्वकर्ता च केशवः॥ इति पाद्मे ॥'आनन्दत्वादनामासावुत्कृष्टत्वादुनामकः ।एतन्नामद्वयं विष्णोर्ज्ञात्वा पापैः प्रमुच्यते॥ इति स्कान्दे ॥'अन्याविज्ञातया विष्णोः शक्त्यैव कुशलं जनाः ।कुर्वन्ति कुशलेषूच्चं भेददर्शनमेव च ॥पूर्णानन्दादिसम्पत्तिं विष्णोर्ज्ञात्वेतरेषु च ।तदपेक्ष्य विप्लुण्मात्रत्वज्ञानं तद्भेददर्शनम् ॥अनाद्यनन्तभेदोऽयं स्वभावः परजीवयोः ।स्वतो वा परतो वापि न कदाचित्प्रणश्यति ॥एवं ज्ञानवतां विष्णुर्बहुजन्म न दास्यति ।अनुवृत्तिर्यद्यनल्पा स हि सर्वेश्वर प्रभुः॥ इति प्रमाणसंहितायाम् ॥'यः पिता जनिता चैव कल्पको नित्यपोषकः ।प्रापकः सर्वदेवानां पदानां पुरुषोत्तमः ॥सर्वदेवाभिधावाच्यो भूतभव्यभवत्प्रभुः ।विचार्य सर्ववेदैश्च ब्रह्माद्याश्च यजन्ति च ॥त्रिगुणात्मकस्य स्रष्टारः तथाऽपि न यजन्ति तम् ।यतः पूर्णेशशक्त्यैव तेषां यजनमिष्यते ॥अतः सर्वेश्वरो विष्णुरेक एव महागुणः॥ इति महासंहितायाम् ॥ ३३-१९ ॥
इह भवच्चरणेषु सुजातभुवो जितहृषीकवायुभिरुदात्तमहत्तुरगैः । य इह यतन्त्यमतिलोलमुपायविदो व्यसनशताब्धितारमपहाय गुरोश्चरणम् ॥ ३४ ॥


वणिज इवोच्छ्वसन्त्यकृतकर्णधरा जलधौ स्वजनसुतात्मदारधनधामधराः । सुखशान्तिमति त्वयि हि सन्ति न तानि नृणां विभव उद्यति श्रयत आत्मनि सर्वरसे ॥ ३५ ॥


भवच्चरणेषु सुष्ठु जातस्थानाः उत्तमयोग्यतायुक्ताः । हृषीकाण्येव महत्तुरगाः । वायुरेवोदात्तः ।'रथोपरि स्वीकरणादुदात्तः सारथिर्मतः॥ इति व्यासनिरुक्ते ॥'जयो विष्णोश्च वायोश्च भक्त्या तत्प्रीतिसाधनम् ।जगदीशयोः कुतो ह्येनोः सर्वशक्त्योर्बलाज्जयः॥ इति पवनविजये ॥तेषां तानि साधनानि सुखस्यापि शान्तिमति पूर्णसुखे त्वयि न सन्ति ॥ गुर्वभावात् ॥विभवे जीवन्मुक्ते गुरावुद्यति उपदिशति सति सर्वरसे परमात्मनि श्रयत एव ॥'यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः। इति श्वेताश्वतरश्रुतिः ॥'देवा अपि सुयोगाढ्याः यतन्तः सर्वसाधनैः ।पुत्रदारादिभिस्सार्धं नोच्छ्वसंतीह संसृतौ ॥गुरोरनुग्रहमृते साधनं न हरेः प्रियम् ।गुरूपदेशात्तु परं प्राप्नोत्येव न संशयः ॥षण्णवत्यङ्गुलो यस्तु तालास्यो दशतालकः ।दशप्रादेशकः सप्तपादो हस्तचतुष्टयः ॥कलमत्रयाङ्गुलश्चैव वाग्मी सन्देहवर्जितः ।वासुदेवैकशरणो गुरुरित्युच्यते बुधैः ॥गुरुलक्षणसम्पूर्णः साक्षादेव चतुर्मुखः ।ततः शेषेन्द्रवह्न्याद्याः क्रमेणैव प्रकीर्तिताः। इत्यादि गुरुविवेके ॥'देवा योग्यतया जाताः विष्णुपादाम्बुजाश्रयाः ।तथाऽपि साधनैस्तेषां तत्प्राप्तिर्गुर्वनुग्रहात् ॥"इति तत्वोद्योगे ॥ ३४,३५ २०-२१ ॥
इति सदजानतां मिथुनतो रतये चरतां सुखयति को न्विहाद्य विजने स्वनिरस्तभगे । भुुवि पुण्यतीर्थसदना ह्यृषयो निविशन्त्यतस्तु भवतः पदाम्बुजं हृदाऽघभिदम् । दधति सकृन्मनस्त्वयि चिदात्मनि नित्यसुखे न पुनरुपासते पुरुषसार हरावसथम् ॥ ३६ ॥


इति लोके परिदृश्यमानप्रकारेण । चरतां, विजने मोक्षविषये कः सुखयति । सुष्ठ्वनिरस्तभगे । अतस्त्वामेव सन्तं ज्ञात्वा भवतः पदांबुजं हृदा निविशन्ति । हरावसथमहङ्कारं न कुर्वन्ति ॥'ब्रह्माज्ञात्वेति लोकप्रवृत्तिं प्रवर्ततां को नु मोक्षं ददाति ।अतो ब्रह्मोपासतेे साधु धीरा नाहम्भावस्तेषु रुद्राधिवासः॥ इति महारवश्रुतिः ॥'महाभाग्यं तु कैवल्यमज्ञानां कः प्रदास्यति ।अतः सन्तो विजानन्ति हरिं ते त्वनहङ्कृताः ॥इति स्कान्दे ॥ ३६-२२ ॥
इदमप्यथो वदन्ति चे- न्ननु तर्का व्यभिचरन्ति क्वचित् क्वचिन्मृषा च । ततो भयदृग्व्यवहितये विकल्प उषितोऽन्वहमन्धपरम्परया भ्रमति भारती च तवोरुवृत्तिभिरूढजवा ॥ ३७ ॥


न यदिदमग्र आस न भविष्यदतो निधना- दनिमित्तकमन्तरा त्वयि विभाति मृषैकरसे । अत उपगीयते द्रविणजातिविकल्पपथै- र्वितथमनोविलासमिदमित्यवयन्ति बुधाः ॥ ३८ ॥


इदं अपि अपालकं ईश्वरवर्जितम् । न मत्तोऽन्य ईश्वरश्चेतनत्वादित्यादितर्कैः वदन्ति चेत् । अथो इत्यनेन तदपि वचनं भगवत्प्रेरणयैव इत्युक्तम् ।'तस्मादथो अथेत्येतद्धेत्वर्थं समुदीरितम्इति शब्दनिर्णये ।'असत्य-मप्रतिष्ठं ते जगदाहुरनीश्वरम्इति च ।वेदोक्तो जीवव्यतिरिक्तेश्वरो न तर्कैरपनेतुं शक्यः । यतस्तर्का व्यभिचारिणः । मृषैव क्वचित्तर्कः । इष्ट-साधनादितर्कस्तु व्यभिचारी । शरीरसम्मित आत्मा इत्यादि दर्शन-परिकल्पितस्तु मृषैव ।ततो भयबुद्धीनां बुद्धिव्यवहितये भवन्ति । न तु धीराणाम् । विकल्पः वेदविरुद्धकल्पना । अन्धपरम्परयैवान्वहमुषितः । यस्माद्भारत्यपि भ्रमति बहुधा वदति ॥'बहूक्तिरन्यथाज्ञप्तिः परिवृत्तिश्च कथ्यते ।भ्रम इत्येव विद्वद्भिः तथा चङ्क्रमणं क्वचित्॥ इति शब्दनिर्णये ॥उरुवृत्तिभिरूढजवा अनन्तगुणकर्मत्वाद्भगवतः बहुगुणकर्माणि वक्तुं वेगवती वेदवाक् । अतो वेदेऽपि बहुधा वचनात्तदर्थनिर्णयाभावाद्विरुद्ध-कल्पना युक्ताऽसुराणाम् ।यस्माद्गर्भस्थस्य जीवस्येश्वरत्वं नास्ति । अतो निधनानन्तरं च नरकादि-गमनान्न विद्यते । अनिमित्तकं भगवन्निमित्तमेव तस्यान्तरा भाति मृषा त्वयि जीवे । न तु वस्तुतस्त्वं जीवः । एकरसे प्रधानसारे । न च जीवो वस्तुतः सर्वोत्तमसारः । मृषैव तथा मन्यन्ते ।अतो भ्रान्त्या द्रविणवानभिजन्मवानित्यादिविरुद्धकल्पनापथैरुपगीयते । यतो भवानेव द्रविणवान्यतश्च तपोदमाद्या अभिजन्मकारणभूता गुणाश्च भवत एव । अतो मिथ्यामनोविलासं जीवेश्वरत्वं बुधा अवयन्ति ॥'गुणा एवाभिजात्याख्यास्तद्वानेवाभिजातिमान् ।अतोऽभिजात्यवान् विष्णुस्तदन्ये तूपचारतः॥ इति शब्दनिर्णये ॥'ये जीवमीशं प्रवदन्ति तर्कैस्तच्चेश्वरो वचनं सन्दधाति ।नासीदादौ मरणे नोऽभविष्यन्मृषा ततो हीशितृत्वं स्वपेषु॥ इति विपरीतश्रुतिः ॥'ये जगत्प्रवदन्त्यज्ञाः जीवादन्येशवर्जितम् ।तेषामपि तु तां वाचमीश एव ददात्यजः ॥न च तर्कैर्भवेदीशो जीवो वेदविरोधतः ।व्यभिचारिणो यतस्तर्का इष्टसाधनगा अपि ॥क्वचित् क्वचिन्मृषा तर्काः कणादादिप्रदर्शिताः ।तत्वनिर्णयभीरूणां व्यवधानकरास्ततः ॥नै व तु स्थिरबद्धीनां कुर्युस्ते बुद्धिचालनम् ।पारम्पर्येण चाज्ञानामुक्त्या लोकेषु विस्तृतम् ॥पठ्यते चाप्यहरहर्न तु विद्वन्मुखोद्गतम् ।अनन्तगुणकर्मत्वादीशस्योक्तौ सुवेगिता ॥वक्त्यभेदमिवाज्ञानां नाभेदं कुत्रचिच्छ्रुतिः ।एक आत्माद्वयेत्यादिपदानामर्थनिर्णये ॥न वर्तते श्रुतिर्यस्माद्गुणान्तरकुतूहलात् ।अथवा मोहनार्थाय सुरारीणामनर्हतः ॥कुत्रचिन्निर्णयवचः सुराणामर्थसिद्धये ।न हीशितृत्वं गर्भस्थे नाप्यसौ निरयोपगे ॥मृषा तदीश्वराभेदः सर्वोत्कर्षश्च जीवगः ।धनवत्वं च कर्तृत्वं बलवत्त्वं च विष्णवि ॥अतो जीवेश्वराभेदं मिथ्येति कवयो विदुः॥ इति तन्त्रभागवते ।'जीवस्य जगतश्चैव यदीशाभेदतो वचः ।अतात्विकं जगच्चेति विष्ण्वधीनत्ववाचकम् ॥अभेदस्तु कुतस्तस्य परमस्यावरेण तु ।मिथ्यात्वं च कुतस्तस्य जगतो नित्यवर्तनात्॥ इति वाराहे ॥ ३७,३८ ॥ २३,२४ ॥
उदगात् पुमाननुगीतगुणांश्च जुषन् भजति सरूपतां तदनु त्वमुत जहासि जिहासि ताम् । अहिरिव त्वचं त्वमुत परमात्तभगां महसि महीयसेऽष्टगुणोऽपरिमेयभगः ॥ ३९ ॥


श्रुतिषु तवानुगीतान् गुणान् जुषन् पुमानुदगादस्मत्संसारात्तव सरूपतां च भजति । तदनु गुणस्मरणमनु गुणांश्च जुषन्निति, चशब्दः कर्माणि चेत्यस्मिन्नर्थे ॥ यच्चायं पुमानात्तभगां त्वयाऽपहृतभगां प्रातिस्विकीं पूर्वोक्तां द्विविधां कष्टां प्रकृतिं जहाति जिहाति हन्ति च तदपि त्वमेव जहासि जिहासि च । उतेति त्यागवधयोः समुच्चयार्थे ॥'जिहाति रावणं सङ्ख्ये राघवः परमास्त्रवित्॥ इति स्कान्दे ॥'स्वातन्त्र्यात्प्रकृतित्यागकर्ता नारायणः परः ।यद्यप्यैषा जीवसंस्था हन्ता च भगवान्प्रभुः॥ इति गारुडे ॥महसि महीयसे पूजयसि पूज्यसे चात्मनैव ॥'स्मरन् ब्रह्मगुणान्नित्यं मुक्तो ब्रह्मस्वरूपताम् ।दुर्भगां प्रकृतिं त्यक्त्वा हत्वा चान्यां दुरन्वयाम् ॥याति तच्च परेशानात्स हि पूज्योऽथ पूजकः ।तस्यैकस्य स्वतन्त्रत्वात्स चानन्तगुणो विभुः॥ इति कौशिकश्रुतिः ॥ ३९-२५ ॥
यदि न समुच्चरन्ति यतयोऽपि हृदि कामजडाः दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणिः । अनुतृप्तयोगिनामभयो भगवन् अनवगतान्तकादनधिरूढपदाद् भवतः ॥ ४० ॥


अज्ञानामनवगतान्तकादनधिरूढब्रह्मपदात् ॥'स यथाकामो भवति । तत्क्रतुर्भवति । यत्क्रतुर्भवति तत्कर्म कुरुते । यत्कर्म कुरुते तदभिसम्पद्यते इति नु कामयमानोऽथाकामयमानो योऽकामो निष्काम आप्तकामः आत्मकामो न तस्य प्राणा उत्क्रामन्ति ब्रह्मैव सन् ब्रह्माप्येतिइति श्रुतिः ॥'निषिद्धकामयुक्तानामसतां तु विशेषतः ।दुर्ज्ञेयो भगवान्विष्णुः हृदिस्थोऽस्मृतहारवत् ॥अकामत्वेन भजतां ददात्यभयमन्तकात् ।पूर्णानन्दादि तेऽश्नन्ति पूर्णानन्दादिकाः स्वतः ॥ब्रह्मणो ब्रह्मसम्पत्तिमत आह श्रुतिः स्फुटम् ।न परब्रह्मतावाप्तिर्न ते विष्णविति श्रुतेः ॥परमब्रह्मता चैषां ब्रह्मलोकात्परा गतिः ।न परब्रह्मरूपत्वमेतमेवेति च श्रुतेः ॥अन्येषां म्रियमाणानां प्राणा भागत एव तु ।देवतास्वेकतां यान्ति भागतोऽनुव्रजन्ति तम् ॥ज्ञानिनां मुच्यमानानां नैव यान्ति स्वदेवताः ।तेनैव सह संयान्ति ततोऽनुत्क्रमणश्रुतिः॥ इति ब्रह्मतर्के ॥'देवाश्च ऋषयश्चैव सुभक्त्या कामिनोऽपि तु ।मुच्यन्ते नियामादेव पश्यन्ति च हरिं न न॥ इति स्कान्दे ॥ ४० ॥ २६ ॥
तदवगमार्थसितासितयो- र्गुणविगुणयोर्न हि देहभृतां सगिरः । अनुययुरत्र हंसकुलगीतपरम्परया । न तुषावरणा इव रजांसि वान्ति वयसा सह यच्छ्रुतय- स्त्वयि सफलं पतन्ति न पतन्ति बन्धनाः ॥ ४१ ॥


परमेश्वरस्यावगमात्तदवगमा श्रीः । तया च गम्यत्वादर्थः परमस्तेन बद्धत्वात्सिता श्रीर्गुणात्मिका च ॥ सगिरः वाक्पूर्वकाणीन्द्रियाणि श्रियो विष्णोश्च नानुकूल्येन ययुः । अनुययुश्च हंसकुलगीतपरम्परया ।यथा तुषावृतानां तण्डुलानां रजस्पृष्टिर्नास्ति । एवं रजोरूपान्मनुष्यान्न वान्ति श्रुतयः । वयसा सह महता कालेनापि । अतस्त्वयि सफलं पतन्ति न पतन्ति च विधिनिषेधरूपेण बन्धनात्मिकाः ॥'जानाति प्रकृतिर्विष्णुं ज्ञेयो विष्णुस्तु निर्गुणः ॥तावुभौ न विजानन्ति ऋते ब्रह्मपरम्पराम्॥ इति महोपनिषदि ॥'अन्ये सर्वे श्रिया बद्धाः श्रीर्बद्धा विष्णुनैव तु ।बन्धश्च विष्णुतन्त्रत्वं मुक्तानां च श्रियस्तथा ॥अमुक्तानां तु बद्धत्वं जन्ममृत्यादिदुःखिता ।हेयो बन्धश्च सैव स्यान्न तु स्वोच्चवशे स्थितिः ॥गुणात्मिका च सा देवी निर्गुणः पुरुषोत्तमः ।सैव विष्णुं विजानाति ज्ञेयो ज्ञाता च केशवः ॥न तावन्ये विजानन्ति विना हंसपरम्पराम् ।तथाऽपि नैव जानन्ति मानुषा असुरास्तथा ॥निष्फलैवासुरे तस्माच्छ्रुतिर्बन्धाय केवला ।निष्फला सफला चैव मानुषाणान्तु मध्यतः ॥सफलैव तु देवानां नियतं मुक्तिदायिनी॥श्रीगरुड उवाच–के हंसाः कः परो हंसः के च पारावताः गणाः ।के च तित्तिरयस्तत्र के शुकाः के च वायसाः ॥श्रीभगवानुवाच–परो हंसोऽहमेवैको हंसाः ब्रह्माण एव तु ।पारावता देवतास्तु मुनयस्तित्तिराः स्मृताः ॥मानुषास्तु शुकाः प्रोक्ताः आसुराश्चैव वायसाः ।प्राप्यं प्राप्तं यतो नित्यं पूर्णं सर्वोत्तमं मया ॥अतः परमहंसोऽहं मदनन्तरमेव तु ।यतः प्राप्तमिवाशेषं सर्वजीवोत्तमं शुभम् ॥अतो ब्रह्मपदे योग्याः जीवाः हंसाः प्रकीर्तताः ।तेषां परम्पराप्राप्तं यैर्ज्ञानं नियमेन तु ॥ते मुच्यन्ते नैव चान्ये गुरुर्ब्रह्मा यतो नृणाम् ।दैवतं त्वहमेवैको मामवित्त्वा न मुच्यते ॥परं प्रति यतो नीचाः ब्रह्माणः सर्वदेवताः ।पारावतास्ततः प्रोक्ताः तैस्तीर्णा संसृतिर्यतः ॥तित्तिरा मुनयस्तस्मात्कासुखत्वात्तु मानुषाः ।शुका इति समुदिष्टा वयोमात्रसुखत्वतः ॥वयसोऽन्ते तु दुःखित्वादसुराः वायसाः स्मृताः ।एवं पञ्चविधा जीवा षष्ठोऽहं परमेश्वरः ॥न मत्समोऽधिको वापि कश्चिदस्ति द्विजोत्तमः॥ इति गारुडे ॥ ४१ ॥ २७ ॥
इत्यशेषसमाम्नायपुराणोपनिषद्रसः ।समुद्धृतः पूर्वजैस्तैर्व्योमायनमहात्मभिः ॥ ४३ ॥


व्योमायनमहात्मभिः ब्रह्माश्रयेषूत्तमैः ॥ ४३ ॥
एवं स गुरुणाऽऽदिष्टो गृहीत्वा श्रद्धयाऽऽत्मवान् ।पूूर्णः सद्यस्ततो राजन् प्राह वीरव्रतो गुरुम् ॥ ४५ ॥


नारद उवाच– नमस्तस्मै भगवते कृष्णायामलमूर्तये । यो धाता सर्वभूूतानामभयो यस्य ते कलाः ॥ ४६ ॥


श्रीशुक उवाच– इत्याद्यमृषिमामन्त्र्य तच्छिष्यांश्चामलात्मकान् । ततोऽगादाश्रमं साक्षात् पितुर्द्वैपायनस्य मे ॥ ४७ ॥


सभाजितो भगवता कृतासनपरिग्रहः ।तस्मै तद् वर्णयामास नारायणमुखाच्छ्रुतम् ॥ ४८ ॥


'कथाः कथयतीशस्य व्यासस्यान्ते स नारदः ।स्तुत्यर्थं तस्य देवस्य ज्ञापनाय न तु क्वचित् ॥पूर्णज्ञानामृतस्यास्य न तु ज्ञप्तिः पराद्भवेत् ।ऋषिरूपी यतो विष्णुः स्वयमेव जनैः श्रुतः॥ इति ब्राह्मे ॥ ४५-४८ ॥
यो ह्यात्मा जगदादिमध्यनिधनो योऽव्यक्तजीवेश्वरो यः सृष्ट्वेदमनुप्रविष्ट ऋषिणा चक्रे पुनः संहिताम् । यं सम्पद्य जहात्यजामनुशयी सुप्तः कुलायं यथा तं कैवल्यनिरस्तयोनिमभयं ध्यायेदजस्रं हरिम् ॥ ५० ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे षण्णवतितमोऽध्यायः ॥
॥ दशमः स्कन्धः समाप्तः ॥
ऋषिणा ऋषिरूपेण ॥ ५० ॥