Bhagavatatatparyanirnaya/C10/S38: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = अष्टत्रिंशोऽध्यायः | | title = अष्टत्रिंशोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C10_S38_V03 | | verse_id = BTN_C10_S38_V03 | ||
| Line 12: | Line 10: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥ | | verse_line1 = भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 29: | Line 28: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥ | | verse_line1 = नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 47: | Line 47: | ||
| verse_line1 = त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । | | verse_line1 = त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । | ||
| verse_line2 = साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥ | | verse_line2 = साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 65: | Line 66: | ||
| verse_line1 = त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । | | verse_line1 = त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः । | ||
| verse_line2 = यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥ | | verse_line2 = यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 82: | Line 84: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥ | | verse_line1 = तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 115: | Line 118: | ||
| verse_type = shloka | | verse_type = shloka | ||
| verse_line1 = त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥ | | verse_line1 = त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 133: | Line 137: | ||
| verse_line1 = यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि । | | verse_line1 = यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि । | ||
| verse_line2 = तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥ | | verse_line2 = तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 151: | Line 156: | ||
| verse_line1 = नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । | | verse_line1 = नमस्ते वासुदेवाय नमः सङ्कर्षणाय च । | ||
| verse_line2 = प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥ | | verse_line2 = प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 07:04, 9 April 2026
भूस्तोयमग्निः पवनः खमादि- र्महानजादिर्मन इन्द्रियाणि । सर्वेन्द्रियार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूताः ॥ ३ ॥
तवाङ्गेभ्यो भूताः ॥ ३ ॥
नैते स्वरूपं विदुरात्मनस्ते अजादयोऽन्यात्मतया गृहीताः । अजोऽनुबद्धः स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ ४ ॥
अन्यात्मतया गृहीताः । मत्तोऽन्ये जीवात्मानः एत इति भगवता गृहीताः ।'अहं परो हि मद्भिन्ना जीवात्मानोऽल्पबुद्धयः ।मद्वशाः सर्व एवेति ब्रह्मादीन्मन्यते हरिः॥ इति स्कान्दे ॥'यथा हरिः स्वमात्मानं वेद तद्वद्रमापि न ।ब्रह्मा च कुत एवान्ये विदन्त्येव तथापि तु॥ इति माहात्म्ये ॥४॥
त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् ।साध्यात्मं साधिभूतं च साधिदैवं च साधवः ॥ ५ ॥
'स्थितो ब्रह्मादिदेवेषु खादिभूतेषु चेश्वरः ।आत्मशब्दोदितनरेष्वपि यस्माज्जनार्दनः ॥साध्यात्मः साधिभूतश्च साधिदैवेति चोच्यते॥ इति अध्यात्मे ॥५॥
त्रय्या च विद्यया केचित् त्वां वै वैतानिका द्विजाः ।यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ ६ ॥
'सर्वदेवेष्वपि हरिः सर्वदेवनियामकः ।नामवान् सर्वदेवानां सर्वपूजां तथाऽत्त्यसौ॥ इति च ॥ ६ ॥
तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविद्ययाऽसकृत् प्रवर्तते देवनृतिर्यगात्मसु ॥ १३ ॥
अविद्यया भगवदिच्छया ॥ १३ ॥
अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिशः श्रुतिः । द्यौः कं सुरेन्द्रास्तव बाहवोऽर्णवः कुक्षिर्मरुत् प्राणबलं प्रकल्पितम् ॥ १४ ॥
रोमाणि वृक्षौषधयः शिरोरुहा मेघाः परस्यास्थिनखानि तेऽद्रयः । निमेषणं रात्र्यहनी प्रजापति- र्मेढ्रं तु वृष्टिस्तव वीर्यमिष्यते ॥ १५ ॥
त्वय्यव्ययात्मन् पुरुषे प्रकल्पिता लोकाः सपाला बहुजीवसङ्कुलाः । यथा जले सञ्जिहते जलौकसोऽ- प्युदुम्बरे वा मशका मनोमये ॥ १६ ॥
त्वयैव प्रकल्पिताः ।'विष्णोरङ्गसमुद्भूता विष्णोरङ्गानि देवताः ।उच्यन्ते सर्ववेदेषु स्वरूपात् भेदिनोऽपि तु॥ इति च ॥१४-१६॥
यानि यानीह रूपाणि क्रीडनार्थं विभर्षि हि ।तैरामृष्टशुचो लोका मुदा गायन्ति ते यशः ॥ १७ ॥
'भृतामेव विभर्तीशो ह्यवतारतनुं सदा ।विभर्तीत्युच्यतेऽथापि मोहाय व्यक्त्यपेक्षया॥इति तत्त्वनिर्णये ॥ १७ ॥
नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ २२ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे अष्टत्रिंशोऽध्यायः ॥
'प्रद्युम्ने चानिरुद्धे च बलदेवे च केशवः ।सन्निधानं विशेषेण करोति जगतां पतिः ।तत्र कृष्णः स्वयं विष्णुः परमानन्दलक्षणः ।पाराशर्यश्च भगवान्स्वयमेव जनार्दनः॥ इति च ॥'तत्तद्गतस्यैव हरेस्तत्तन्नामानि चाञ्जसा ।औपचारिकनामानि तदन्येषामिति स्थितिः॥ इति शब्दनिर्णये ॥ २२ ॥