Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S04: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
(No difference)

Revision as of 10:10, 2 March 2026

चतुर्थः पादः

प्रास्ताविकम्

युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।


‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।


‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥


‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च ।


अत उच्यते –


प्राणाधिकरणम्

ॐ तथा प्राणाः ॐ ॥ 01-272 ॥


यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥


ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥


अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।



ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥


‘इदं सर्वमसृजत’ इति ॥ 03 ॥


मनोधिकरणम्

‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह-


ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥


‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते।


‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः ।

तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥

इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥


वागधिकरणम्

‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युत्तम्’ इति ।


ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥


‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।



सप्तगत्यधिकरणम्

‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः।


ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥


ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।


‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः । एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।


इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥


ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥


हस्तादीनां कर्मविषयत्वान्न सहपाठः।



अण्व(णुत्वा)धिकरणम्

‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते ।दूरश्रवणदर्शनादियुक्तिश्च।


ॐ अणवश्च ॐ ॥ 08-279 ॥


‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥


मुख्यप्राणाधिकरणम्

‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते ।


ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥


‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’ इति गौपवनश्रुतेः ॥ 09 ॥


ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥


‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते । प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’


इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् । ‘स प्राणमसृजत’ …‘खं वायुर्ज्योतिरापः..’, ‘तपो मन्त्राः कर्म’ इति पृथगुपदेशात् ।


‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् ।

मुख्यप्राणः परस्माच्च न परः कारणान्वितः’

इति वायुप्रोक्ते ॥ 10 ॥


चक्षुराद्यधिकरणम्

‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ ।


ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥


चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव ।


‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’


इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।


‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः । कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।


अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् । अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।


अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् । यतो विशेषवाक्येन ह्रियते समतावचः’ ।


‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’ इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥


ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥


इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते ।


माण्डव्यश्रुतिश्च ‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥


पञ्चवृत्त्यधिकरणम्

‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति । ‘अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः ।


ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥


‘अथ पञ्चवृत्तैतत्प्रवर्तते प्राणा वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वाव प्राणेऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्छित्तं चेतनाया एव चेतनैवमिति’ इति


प्राणाणुत्वाधिकरणम्

‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते ।


ॐ अणुश्च ॐ ॥ 14-285 ॥


स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥


ज्योतिराद्यधिकरणम्

करणत्वं प्राणानामुक्तम् ।


ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥


यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति। ‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ॥ 15 ॥


कथं जीवकरणत्वश्रुतिरित्यतो वक्ति –


ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥


जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।


‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् । श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।



ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥


अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्करणत्वश्रुतिः ।’अथावियोगीनि । करणैर्र्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः ।


चशब्दः करणसम्बन्धग्राही ॥ 17 ॥


इन्द्रियाधिकरणम्

‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति ।


ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥


मुख्यप्राणमृते त एवेन्द्रियाणि ।



‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् । मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।



ॐ भेदश्रुतेः ॐ ॥ 19-290 ॥


‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥


ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥


पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ॥ 20 ॥


सङ्ज्ञाधिकरणम्

‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामानी’ इति गौपवनश्रुतिः ॥


ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥


नामरूपक्लृप्तिः परादेव।


‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य आस्ते’ इति श्रुतेः।


त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥



‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया । रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥



मांसा(ध्य)धिकरणम्

‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः ।


ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥


‘यत् कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत् तेजः’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम्। अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥


‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’ इति हि काषायणश्रुतिः ।


‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया । एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।



कथं तर्हि विशेषवचनमित्यत आह-


ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥


भूतानां विशेषसंयोगादेव विशेषव्यवहारः ।


‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृताः । इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥



सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः।


गारुडे च-


‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा । विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥


अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् । विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति ॥ 23 ॥