Bhagavatatatparyanirnaya/C5/S12: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = द्वादशोऽध्यायः | | title = द्वादशोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C05_S12_V05 | | verse_id = BTN_C05_S12_V05 | ||
| Line 27: | Line 25: | ||
| verse_line3 = यस्मिन् भवान् रूढनिजाभिमानो | | verse_line3 = यस्मिन् भवान् रूढनिजाभिमानो | ||
| verse_line4 = राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥ ६ ॥ | | verse_line4 = राजाऽस्मि सिन्धुष्विति दुर्मदान्धः ॥ ६ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 47: | Line 46: | ||
| verse_line3 = जनस्य गोप्तेति विकत्थमानो | | verse_line3 = जनस्य गोप्तेति विकत्थमानो | ||
| verse_line4 = न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥ | | verse_line4 = न शोभसे वृद्धसभासु दुष्टः ॥ ७ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 78: | Line 78: | ||
| verse_line3 = अविद्यया मनसा कल्पितास्ते | | verse_line3 = अविद्यया मनसा कल्पितास्ते | ||
| verse_line4 = येषां समूहेन कृतो विशेषः ॥ ९ ॥ | | verse_line4 = येषां समूहेन कृतो विशेषः ॥ ९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 109: | Line 110: | ||
| verse_line3 = प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं | | verse_line3 = प्रत्यक् प्रशान्तं भगवच्छब्दवाच्यं | ||
| verse_line4 = यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥ | | verse_line4 = यद्वासुदेवं कवयो वदन्ति ॥ ११ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 06:56, 9 April 2026
ब्राह्मण उवाच–अयं जनो नाम चलन्पृथिव्यां
अंसे च दार्वी शिबिका च यस्यांसौवीरराजेत्यपदेश आस्ते ।
यस्मान्मूलकारणभूतो विष्णुरेव । अतो मुख्यं सर्वकारणत्वं तस्यैव । मूलाश्रयविवक्षा यदि न स्यात्कुतः पृथिव्यां चलतीति व्यवहारः ? यतोऽवान्तराश्रया बहवः सन्त्यङ्घ्र्याद्याः ॥ ५-६ ॥
शोच्यानिमांस्तानधिकस्तवाधि-र्विष्ट्या निगृह्णन्निरनुग्रहोऽसि ।
एवं मूलगोप्तृत्वं च विष्णोरेव ॥ ७ ॥
यदि क्षितावेव चराचरस्यविदाम निष्ठां प्रभवं च नित्यम् ।
एवं निरुक्तं क्षितिशब्दवृत्त-मसन्निधानं परमाणवो ये ।
आश्रयत्वात्क्षितिरिति निर्वचने क्षितिशब्दोऽपि तस्मिन्नेव ॥ परमाणु-मात्रायाः पृथिव्या अयुक्तत्वात्परमाणवोऽप्यस्याविद्ययैवाधारत्वेन कल्पिताः॥ ८-९ ॥
एवं कृशं स्थूलमणुर्बृहद्य-दसच्च सज्जीवमजीवमन्यत् ।
ज्ञानं विशुद्धं परमार्थमेक-मनन्तरं न बहिर्ब्रह्म सत्यम् ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये पञ्चमस्कन्धे द्वादशोऽध्यायः ॥
एवं सर्वं तथा प्रकृत्यैव कल्पितं विष्णोरन्यत् । एवं प्रकृत्याधारः स्वयमनन्याधारो विष्णुरेव । अतः सर्वशब्दाश्च तस्मिन्नेव ।'राजा गोप्ताऽऽश्रयो भूमिः शरणं चेति लौकिकः ।व्यवहारो न तत्सत्यं तयोर्ब्रह्माश्रयो विभुः ॥गोप्ता च तस्य प्रकृतिस्तस्या विष्णुः स्वयं प्रभुः ।तव गोप्त्री तु पृथिवी न त्वं गोप्ता क्षितेः स्मृतः ॥अतः सर्वाश्रयश्चैव गोप्ता च हरिरीश्वरः ।सर्वशब्दाभिधेयश्च शब्दवृत्तेर्हि कारणम् ॥सर्वान्तरः सर्वबहिरेक एव जनार्दनः ।शिर आधारता यद्वद्ग्रीवायास्तद्वदेव तु ॥आश्रयत्वं च गोप्तृत्वमन्येषामुपचारतःइति च ॥ १०,११ ॥