Bhagavatatatparyanirnaya/C3/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 4: | Line 4: | ||
| title = चतुर्थोऽध्यायः | | title = चतुर्थोऽध्यायः | ||
}} | }} | ||
{{VerseBlock | {{VerseBlock | ||
| verse_id = BTN_C03_S04_V03 | | verse_id = BTN_C03_S04_V03 | ||
| Line 32: | Line 30: | ||
| verse_line1 = अथापि तदभिप््रोतं जानन्नहमरिंदम । | | verse_line1 = अथापि तदभिप््रोतं जानन्नहमरिंदम । | ||
| verse_line2 = पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥ | | verse_line2 = पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 63: | Line 62: | ||
| verse_line2 = ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । | | verse_line2 = ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । | ||
| verse_line3 = संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥ | | verse_line3 = संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
| Line 81: | Line 81: | ||
| verse_line1 = नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः । | | verse_line1 = नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः । | ||
| verse_line2 = अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ | | verse_line2 = अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥ | ||
| commentary1 = bhagavatatatparyanirnaya | |||
}} | }} | ||
Revision as of 06:55, 9 April 2026
उद्धव उवाच–भगवानात्ममायाया गतिं तामवलोक्य सः ।
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
अथापि तदभिप््रोतं जानन्नहमरिंदम ।पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
आत्ममायायाः आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य ।'ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः ।मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् ॥स ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीं ययौ ।पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः ॥स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् ।पुनः श्रुत्वा बदर्यां तु वर्षत्रयमुवास ह ॥ज्ञानं संस्थाप्य पश्चाच्च स्वेच्छया स्वर्गतः प्रभुः॥ इति गारुडे ॥५॥
राजोवाच–निधनमुपगतेषु वृष्णिभोजे-
शुक उवाच–ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।
आकृतिं पृथिवीम् ।'शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा॥ इत्यभिधानम् ।'पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः ।नित्यानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते ॥दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् ।नटवद्भगवान्विष्णुः परज्ञानाकृतिस्स्वयम्॥ इति स्कान्धे ।'राजन् परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवैहि यथा नटस्य।इति च ॥ २९ ॥
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः ।अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे चतुर्थोऽध्यायः ॥
'उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा ।उच्यतेऽपि तु नीचानां मोहार्थं वाप्युपेक्षया ।मूढदृष्ट्यनुसाराद्वा किञ्चित्साम्येन वा क्वचित्॥इति ब्रह्मतर्के ॥ ३१ ॥