Jump to content

Bhagavatatatparyanirnaya/C1/S4: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 4: Line 4:
| title        = चतुर्थोऽध्यायः
| title        = चतुर्थोऽध्यायः
}}
}}
== चतुर्थोऽध्यायः ==
{{VerseBlock
{{VerseBlock
| verse_id      = BTN_C01_S04_V04
| verse_id      = BTN_C01_S04_V04
Line 13: Line 11:
| verse_line1  = तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।
| verse_line1  = तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।
| verse_line2  = एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
| verse_line2  = एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 32: Line 31:
| verse_line2  = द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
| verse_line2  = द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।
| verse_line3  = जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥
| verse_line3  = जातः पराशराद्योगी वासव्यां कलया हरेः ॥ १३ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 50: Line 50:
| verse_line1  = दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा ।
| verse_line1  = दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा ।
| verse_line2  = सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥
| verse_line2  = सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 69: Line 70:
| verse_line2  = कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
| verse_line2  = कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।
| verse_line3  = इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २४ ॥
| verse_line3  = इति भारतमाख्यानं कृपया मुनिना कृतम् ॥ २४ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 96: Line 98:
| verse_line1  = नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।
| verse_line1  = नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।
| verse_line2  = वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥
| verse_line2  = वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 114: Line 117:
| verse_line1  = धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।
| verse_line1  = धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।
| verse_line2  = मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥
| verse_line2  = मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 132: Line 136:
| verse_line1  = अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः ।
| verse_line1  = अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः ।
| verse_line2  = असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥
| verse_line2  = असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 150: Line 155:
| verse_line1  = किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
| verse_line1  = किं वा भागवता धर्मा न प्रायेण निरूपिताः ।
| verse_line2  = प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥
| verse_line2  = प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Line 168: Line 174:
| verse_line1  = तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।
| verse_line1  = तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।
| verse_line2  = कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥
| verse_line2  = कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥
| commentary1  = bhagavatatatparyanirnaya
}}
}}

Revision as of 06:54, 9 April 2026

तस्य पुत्रो महायोगी समदृक् निर्विकल्पकः ।एकान्तगतिरुन्निद्रो गूढो मूढ इवेयते ॥ ४ ॥

निर्विकल्पकः । मदीयं तदीयमिति भेदमपहाय सर्वमीश्वराधीनमिति विज्ञाय स्थितः ।'साम्यमीश्वररूपेषु सर्वत्र तदधीनताम् ।पश्यति ज्ञानसम्पत्त्या विनिद्रो यः स योगवित्। इति ब्राह्मे ॥ ४ ॥
सूत उवाच—द्वापरे समनुप्राप्ते तृतीये युगपर्यये ।

तृतीये द्वापरे युगे पर्यवसानं प्राप्ते सति ॥ १३ ॥
दुर्भगांश्च जनान् वीक्ष्य मुनिर्दिव्येन चक्षुसा ।सर्ववर्णाश्रमाणां यद् दध्यौ चिरममोघदृक् ॥ १७ ॥

नित्यज्ञानस्य चिद्दृष्टिर्लोकदृष्ट्यपेक्षया–'सर्वज्ञोऽप्यज्ञवद्देवः सर्वशक्तिरशक्तवत् ।प्रत्यापयति लोकानामज्ञानं मोहनाय च। इति कौर्मे ॥ १७ ॥
स्त्रीशूद्रब्रह्मबन्धूनां त्रयी न श्रुतिगोचरा ।कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह ।

'भारतं ब्राह्मणादीनां वेदार्थपरिवित्तये ।त एव वेदास्त्वन्येषां नर्ते तत्कस्यचित् सुखम्। इति स्कान्दे ॥२४॥
एवं प्रवृत्तस्य सदा भूतानां श्रेयसि द्विजाः ।सर्वात्मकेनाऽपि यदा नातुष्यद् हृदयं ततः ॥ २५ ॥

नातिप्रसन्नहृदयः सरस्वत्यास्तटे शुचौ ।वितर्कयन् विविक्तस्थ इदं चोवाच धर्मवित् ॥ २६ ॥

अतोषोऽनलम्बुद्धिः ।'श्रुत्वा कथां न तुष्यामि हरेरद्भुतकर्मणःइति मात्स्ये ।अप्रसादश्च स एव ।'कः प्रसन्नो भवेद् दिव्यां कथां शृण्वन् हरेः पराम्इति च ॥२५,२६॥
धृतव्रतेन हि मया छन्दांसि गुरवोऽग्नयः ।मानिता निर्व्यलीकेन गृहीतं चानुशासनम् ॥ २७ ॥

आचारापेक्षया धृतव्रतत्वादिपरिपूर्णस्य ॥ २७ ॥
अथापि बत मे दैह्यो ह्यात्मा चैवाऽत्मना विभुः ।असम्पन्न इवाऽभाति ब्रह्मवर्चस्विसत्तमः ॥ २९ ॥

दैह्यः देहरूपः । आत्मना विभुः स्वत एव व्याप्तः ।'तस्य सर्वावतारेषु न विशेषोऽस्ति कश्चन ।देहदेहिविभेदश्च न परे विद्यते क्वचित् ॥सर्वेऽवतारा व्याप्ताश्च सर्वे सूक्ष्माश्च तत्त्वतः ।ऐश्वर्ययोगाद् भगवान् क्रीडत्येवं जनार्दनः॥ इति महासंहितायाम् ।अवतारप्रयोजनासम्पत्त्याऽसम्पन्न इव । ब्रह्मवर्चसयुक्तानामुत्तमः ॥२९॥
किं वा भागवता धर्मा न प्रायेण निरूपिताः ।प्रियाः परमहंसानां त एव ह्यच्युतप्रियाः ॥ ३० ॥

पुनरपेक्षितत्वान्न प्रायेण निरूपिताः ।'यथा तु भारते देवो न तथाऽन्येषु केषुचित् ।उच्यते न तथाऽपीशं जानन्त्यज्ञा जनार्दनम्। इति स्कान्दे ॥ ३० ॥
तस्यैवं खिन्नमात्मानं मन्यमानस्य खिद्यतः ।कृष्णस्य नारदोऽभ्यागादाश्रमं प्रागुदाहृतम् ॥ ३१ ॥

खेदोऽनलम्बुद्धिः ।'अतुष्टिरप्रसादश्च खेदोऽतृप्तिस्तथैव च ।अनलत्वं वदन्त्येते सर्वे पर्यायवाचकाः। इति ब्राह्मे ।मन्यमानस्य स्वेच्छया ॥ ३१ ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे चतुर्थोऽध्यायः ॥