Bruhadaranyaka/C5/S19: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
| chapter_num = 5 | | chapter_num = 5 | ||
| title = एकोनविंशं ब्राह्मणम् | | title = एकोनविंशं ब्राह्मणम् | ||
}} | }} | ||
| Line 14: | Line 10: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥ | | verse_line1 = भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥ | ||
| Line 24: | Line 18: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥ | | verse_line1 = ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥ | ||
| Line 34: | Line 26: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥ | | verse_line1 = प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥ | ||
| Line 55: | Line 45: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = अथास्या एतदेव तुरीयं दर्शतं पदं परो रजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ४ ॥ | | verse_line1 = अथास्या एतदेव तुरीयं दर्शतं पदं परो रजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ४ ॥ | ||
| Line 122: | Line 110: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्धैतत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादो जीय इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्मात् गायत्रीनाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५ ॥ | | verse_line1 = सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्धैतत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादो जीय इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्मात् गायत्रीनाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५ ॥ | ||
| Line 167: | Line 153: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वाग् अनुष्टुबेतद्वाचमनुब्रूम इति तन्न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न ह वै तद्गायत्र्या एकञ्च न पदं प्रति ॥६॥ | | verse_line1 = तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वाग् अनुष्टुबेतद्वाचमनुब्रूम इति तन्न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न ह वै तद्गायत्र्या एकञ्च न पदं प्रति ॥६॥ | ||
| Line 190: | Line 174: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात् । सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ७ ॥ | | verse_line1 = स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात् । सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ७ ॥ | ||
| Line 233: | Line 215: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स काम ऋद्ध्यते यस्मा एवमुपतिष्ठते अहमदः प्रापमिति वा ॥ ८ ॥ | | verse_line1 = तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स काम ऋद्ध्यते यस्मा एवमुपतिष्ठते अहमदः प्रापमिति वा ॥ ८ ॥ | ||
| Line 266: | Line 246: | ||
| document_id = BR | | document_id = BR | ||
| chapter_id = BR_C05 | | chapter_id = BR_C05 | ||
| verse_type = mantra | | verse_type = mantra | ||
| verse_line1 = एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्याग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥९॥ | | verse_line1 = एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्याग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥९॥ | ||
}} | }} | ||
{{ | {{Commentary | ||
| verse_id = BR_C05_S19_V09 | |||
| id = BR_C05_S19_V09_author-note | |||
| name = Bhashyam | |||
| text = | |||
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥ | |||
}} | |||
{{ | {{Commentary | ||
| verse_id = BR_C05_S19_V09 | |||
| id = BR_C05_S19_V09_author-note | |||
| name = Bhashyam | |||
| text = | |||
॥ इति बृहद्भाष्ये सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥ | |||
}} | |||
{{Commentary | {{Commentary | ||
Revision as of 04:44, 9 April 2026
एकोनविंशं ब्राह्मणम्
भूमिरन्तरिक्षं द्यौरित्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदेषु त्रिषु लोकेषु तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ १ ॥
ऋचो यजूंषि सामानीत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥
प्राणोऽपानो व्यान इत्यष्टावक्षराण्यष्टाक्षरं ह वा एकं गायत्र्यै पदमेतदु हैवास्या एतत् स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ ३ ॥
ऋग्यजुःसामसंस्थो यो भगवान् पुरुषोत्तमः ।
स द्वितीयपदेनोक्तो गायत्र्याः प्रथमेन तु ॥भूम्यन्तरिक्षस्वर्गस्थतृतीयेन समीरगः ।
अथास्या एतदेव तुरीयं दर्शतं पदं परो रजा य एष तपति यद्वै चतुर्थं तत्तुरीयं दर्शतं पदमिति ददृश इव ह्येष परोरजा इति सर्वमु ह्येवैष रज उपर्युपरि तपति एवं हैव श्रिया यशसा तपति योऽस्या एतदेवं पदं वेद ॥ ४ ॥
चतुर्थपादो गायत्र्याः प्रणवः समुदीरितः ॥
तद्वाच्यो भगवान् सूर्यमंडलस्था तु या रमा ।
सत्वात्मिक्येव तत्संस्थो रज आख्यप्रधानतः ॥
परः परोरजस्तस्माद्य एवं वेद तं प्रभुम् ।
लोकानां चैव वेदानां सर्वेषां प्राणिनामपि ॥
सदैवाधिपतिर्भूत्वा यशःश्रीमांश्च जायते ।
गायत्र्युपासने योग्यो ब्रह्मैव हि चतुर्मुखः ॥
तस्मादुक्तफलं सर्वं सर्वोपासा च तस्य हि ।
अंशेनोपासनान्येषां फलमल्पं च योग्यतः ॥
गायत्र्या न ह्ययोग्योऽपि द्विजो योग्योऽपि न क्वचित् ।
ऋते विरिञ्चं तस्मात् तु तस्यैव ह्यखिलं फलम् ॥यः परोरजास्तपति स तुरीयपदेन प्रणवेन पद्यते । तुरीयं पदं ददृश इव दृष्ट इव । तदधीनतेजःपुंजस्य सूर्यमंडलस्य दृष्टत्वात् ।
सूर्यमंडलगो विष्णुः सर्वेषां दृष्टवत् स्थितः ।
यस्मात् तदुत्थितं तेजोमंडलं दृश्यतेऽखिलैः ॥ इति त्रैविद्ये ।
सर्वं रजः सर्वां प्रकृतिम् ।
रंजनात् प्रकृतिः प्रोक्ता रज इत्येव वैदिकैः ।
तस्या अप्युत्तमो विष्णुर्यतोऽतः स परोरजाः ॥
सैषा गायत्र्येतस्मिंस्तुरीये दर्शते पदे परोरजसि प्रतिष्ठिता तद्धैतत्सत्ये प्रतिष्ठितं चक्षुर्वै सत्यं चक्षुर्हि वै सत्यं तस्माद्यदिदानीं द्वौ विवदमानावेयातामहमदर्शमहमश्रौषमिति य एवं ब्रूयादहमदर्श मिति तस्मा एव श्रद्दध्याम तद्वै तत्सत्यं बले प्रतिष्ठितं प्राणो वै बलं तत्प्राणे प्रतिष्ठितं तस्मादाहुर्बलं सत्यादो जीय इत्येवमेषा गायत्र्यध्यात्मं प्रतिष्ठिता सा हैषा गयांस्तत्रे प्राणा वै गयास्तत्प्राणांस्तत्रे तद्यद्गयांस्तत्रे तस्मात् गायत्रीनाम स यामेवामूं सावित्रीमन्वाहैषैव सा स यस्मा अन्वाह तस्य प्राणांस्त्रायते ॥ ५ ॥
अभिमानिनी तु गायत्र्या मुख्या श्रीः परिकीर्तिता ।
ब्रह्माण्यमुख्याऽतो ज्ञेया सा तु ब्रह्माणमाश्रिता ॥ब्रह्मा तु मुख्यगायत्री सा परोरज आश्रयेत् ॥ इति च ।
तद्वा एतज्जगत्सत्ये प्रतिष्ठितम् । भूमिरन्तरिक्षं द्यौरित्यादिना प्रस्तुतत्वात् ।
तद्वा एतज्जगत्सर्वं चक्षुः सूर्याभिमानिनी ।
विराण्नामविशेषाख्ये सर्वदा सम्प्रतिष्ठितम् ॥
शेषः प्रतिष्ठितो वायौ स ह्यस्माद्बलवत्तरः ।
स सत्य इति सम्प्रोक्तः सन्नस्मिन् याति यद्धरिः ॥
वायुः समाश्रितो देवीं मुख्यां गायत्रिनामिकाम् ।
सा चात्मनामधिपतिमेवं परममाश्रिता ॥
प्राणानां रक्षणादेव गायत्री सा प्रकीर्तिता ।
सावित्रीति च यामाह स विष्णुः परतोरजाः ॥
एषैव सा हि गायत्री सविता हि जनार्दनः ।
तस्माद्धि सूयते सर्वं सावित्री च तदाश्रिता ॥
आदित्यस्तत्प्रतीकत्वात् सवितेति प्रकीर्तितः ।
प्रतिमायां च तच्छब्दः प्रयोज्यो ह्युपचारतः ॥
यस्मा आह स विष्णुस्तां गायत्रीं जगदीश्वरः ।
ब्रह्मणे तस्य सा प्राणान् सर्वदा पाति पुत्रवत् ॥
ब्रह्मा हि पुत्रस्तस्यास्तु तत्पुत्रा इतरेऽखिलाः ॥तां हैतामेके सावित्रीमनुष्टुभमन्वाहुर्वाग् अनुष्टुबेतद्वाचमनुब्रूम इति तन्न तथा कुर्याद्गायत्रीमेव सावित्रीमनुब्रूयाद्यदि ह वा अप्येवंविद्बह्विव प्रतिगृह्णाति न ह वै तद्गायत्र्या एकञ्च न पदं प्रति ॥६॥
तामाहुः परमां देवीं वृणीमह ऋगात्मिकाम् ॥
नैव सा प्रतिमा मुख्या गायत्री परमा स्मृता ।
गायत्रीमुख्यवेत्तारो योग्या ब्रह्मपदस्य ये ॥
तेषां प्रतिग्रहाद्दोषो न कश्चन भविष्यति ।
न चैकपदविज्ञानफलायालं सुखानि च ॥स य इमांस्त्रींल्लोकान् पूर्णान् प्रतिगृह्णीयात् । सोऽस्या एतत्प्रथमं पदमाप्नुयादथ यावतीयं त्रयी विद्या यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतद्द्वितीयं पदमाप्नुयादथ यावदिदं प्राणि यस्तावत् प्रतिगृह्णीयात् सोऽस्या एतत्तृतीयं पदमाप्नुयादथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति नैव केनचनाप्यं कुत उ एतावत्प्रतिगृह्णीयात् ॥ ७ ॥
विष्णोर्यदा भगवतो लोकान् वेदांश्च चेतनान् ।
विरिञ्चिजन्मन्यखिलान् प्रतिगृह्णन्ति कृत्स्नशः ॥
गायत्रीपदविज्ञानफलमात्रं तदा भवेत् ।
प्रणवप्रतिपाद्यं यत् तुरीयं भगवत्पदम् ॥
सर्वगं वासुदेवाख्यं न तत्केनचिदाप्यते ।
गायत्रीत्रिपदज्ञेयमनिरुद्धादिकं त्रयम् ॥
ब्रह्मा व्याप्नोति मुक्तः सन् वासुदेवं न कश्चन ।
लोकस्थमनिरुद्धं च प्रद्युम्नं वेदगं तथा ॥
संकर्षणं वायुसंस्थं व्याप्य ब्रह्मा विमुक्तिगः ।
गायत्रीज्ञानसामर्थ्यात् प्रणवज्ञानशक्तितः ॥
वासुदेवं च सम्पश्येन्न व्याप्नोति कथञ्चन ।
अनन्तत्वाद्वासुदेवः कथं व्याप्यो भवेत् प्रभुः ॥
वर्णत्रयात्मप्रकृतिमतीतः सूर्यमंडले ।
गुणत्रयात्मिकां बाह्ये यतोऽतः स परोरजाः ॥
यतो न व्याप्यते सोऽसौ ब्रह्मणाऽपि कथञ्चन ।
अतः प्रतिग्रहो नास्य वासुदेवस्य विद्यते ॥ इति प्रकाशिकायाम् ।तावदेतावत् प्रतिगृह्णीयादिति तस्यैव सामस्त्येन ग्रहणार्थम् । एतावदेव मम हस्ते विद्यते इतिवत् । न ह्यन्यदेवतावत् प्रतिग्राह्यमस्ति ।
तस्या उपस्थानं गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि न हि पद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसेऽसावदो मा प्रापदिति यं द्विष्यादसावस्मै कामो मा समृद्धीति वा न हैवास्मै स काम ऋद्ध्यते यस्मा एवमुपतिष्ठते अहमदः प्रापमिति वा ॥ ८ ॥
अष्टाक्षरत्वाद् गायत्र्याः प्रोक्ता सैकपदीति च ।
प्रणवेन सहैतास्तु गायत्र्याश्चतुरस्तदा ॥
अकाराद्यतिशान्तान्तः प्रणवोऽष्टाक्षरो यतः ।
पादः प्रणवसंयुक्तो गायत्री सा पृथग्यदा ॥
द्विपदीति तदा प्रोक्ता त्रिपदी स्वपदैस्त्रिभिः ।
चतुष्पदी सप्रणवा ब्रह्मणोऽन्यैर्न गम्यते ॥
अपदी च ततः प्रोक्ता गायत्र्येवमुपस्थिता ।
कामाप्राप्तिमपूर्तिं वा शत्रवे सा करिष्यति ॥
असावदो मैव प्रापन्नास्मै कामः समृध्यताम् ।
उपस्थिता चेदित्थं सा यद्यदोऽहं समाप्नुयाम् ॥
इति सा कामपूर्तिं च स्वस्य सम्यक् करिष्यति ।
सम्यग्ब्रह्मपदावाप्तिं तद्योग्यां मुक्तिमेव च ॥
ब्रह्मणोपासितो दद्याद् गायत्र्याः पुरुषोत्तमः ।
अलेपं सर्वपापेभ्यो विशेषेण प्रतिग्रहात् ॥
तद्योग्यां मुक्तिमन्येषां यथायोग्यमुपासितः ।एतद्ध वै तज्जनको वैदेहो बुडिलमाश्वतराश्विमुवाच यन्नु हो तद्गायत्रीविदब्रूथा अथ कथं हस्तीभूतो वहसीति मुखं ह्यस्याः सम्राण्न विदाञ्चकारेति होवाच तस्याग्निरेव मुखं यदि ह वा अपि बह्विवाग्नावभ्यादधति सर्वमेव तत्सन्दहत्येवं हैवैवंविद्यद्यपि बह्विव पापं कुरुते सर्वमेव तत्संप्साय शुद्धः पूतोऽजरोऽमृतः सम्भवति ॥९॥
॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये सप्तमाध्याये एकोनविंशं ब्राह्मणम् ॥
वक्तव्यो भगवान् विष्णुर्गायत्र्या मुखसंस्थितः ॥
अग्निमंडलगो नित्यमग्निनामाऽग्रणीत्वतः ।
गायत्र्यास्तु परिज्ञानं ज्ञाते मुख्यगते हरौ ॥
सफलं भवेदन्यथा तु न सम्यक्फलदं भवेत् ।
गायत्रीमुखगो विष्णुर्ज्ञेयः सर्वात्मना ततः ॥
संहर्ता सर्वदोषाणामग्निस्थः सर्वदाहकः ।
नित्यानन्दोऽग्निवर्णश्च रामः परशुभृत् सदा ॥ इति गायत्रीसंहितायाम् ॥