Jump to content

Bhagavatatatparyanirnaya/C11/S9: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN
| chapter_id  = BTN_C11
| chapter_num  = 11
| chapter_num  = 11
| chapter_name = एकादशस्कन्धः
| section_id  = BTN_C11_S09
| section_num  = 9
| title        = नवमोऽध्यायः
| title        = नवमोऽध्यायः
}}
}}
Line 14: Line 10:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।
| verse_line1  = वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।
Line 34: Line 28:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
| verse_line1  = यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥
Line 44: Line 36:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
| verse_line1  = तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥
Line 63: Line 53:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
| verse_line1  = एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
Line 74: Line 62:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
| verse_line1  = एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।
Line 85: Line 71:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।
| verse_line1  = सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।
Line 105: Line 89:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यत्र यत्र मनो देही धारयेत् सकलं धिया ।
| verse_line1  = यत्र यत्र मनो देही धारयेत् सकलं धिया ।
Line 116: Line 98:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
| verse_line1  = कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
Line 136: Line 116:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
| verse_line1  = देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥
Line 155: Line 133:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥
| verse_line1  = जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥
Line 174: Line 150:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C11
| chapter_id    = BTN_C11
| section_id    = BTN_C11_S09
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
| verse_line1  = न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
Line 181: Line 155:
}}
}}


{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥}}
{{Commentary
| verse_id = BTN_C11_S09_V31
| id      = BTN_C11_S09_V31_author-note
| name    = Bhashyam
| text     =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥
}}


{{Commentary
{{Commentary

Revision as of 04:43, 9 April 2026

नवमोऽध्यायः

वासो बहूनां कलहो भवेद् वार्ता द्वयोरपि ।एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः ॥ १० ॥


'असज्जनैस्तु संवासो न कर्तव्यः कथञ्चन ।यावद्यावच्च बहुभिः सज्जनैः स तु मुक्तिदः॥ इति षाड्गुण्ये ॥ १० ॥
यस्मिन् मनो लब्धपदं यदेत- च्छनैः शनैर्मुञ्चति कर्मरेणून् । सत्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम् ॥ १२ ॥


तदेवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा । यथेषुकारो नृपतिं व््राजन्त- मिषौ गतात्मा न ददर्श पार्श्वे ॥ १३ ॥


'बाह्यं मनो विलीनं स्यान्मुक्तौ चिन्मात्रकं मनः ।तेनैवानुभवेत्सर्वं स्वात्माभिन्नेन मुक्तिगः॥ इति मुक्तितत्त्वे ॥ १२,१३ ॥
एको नारायणो देवः पूर्वसृष्टं स्वमायया ।संहृत्य कालकलया कल्पान्त इदमीश्वरः ॥ १६ ॥


एक एवाद्वितीयोऽभूदात्माधारोऽखिलाश्रयः ।कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ॥ १७ ॥


सत्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः ।परावराणां परम आस्ते कैवल्यसंज्ञितः ॥ १८ ॥


'कालप्रकृतिजीवादौ लयेऽसत्यप्रवर्तनात् ।तन्निमित्तस्य कार्यस्य विष्णुरेक इतीर्यते ॥स हि कालादिकं सर्वं वर्तयत्यमितद्युतिः॥ इति तत्त्वलये ॥'प्रकृतिश्च गुणाश्चैव शक्यत्वाच्छक्तयः स्मृताः ।विष्णोः स्वरूपभूता तु शकनाच्छक्तिरुच्यते॥ इति शक्तिविवेके ॥ १६-१८ ॥
यत्र यत्र मनो देही धारयेत् सकलं धिया ।स्नेहाद् द्वेषाद् भयाद् वापि याति तत्तत्सरूपताम् ॥ २२ ॥


कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।याति तत्साम्यतां राजन् पूर्वरूपमसंत्यजन् ॥ २३ ॥


'भयादपि हरिं भक्तया चिन्तयंस्तत्स्वरूपताम् ।पेशस्कारिवदायाति द्विषन् द्वेषसरूपताम् ॥सुखरूपस्य हि द्वेषो दुःखरूप इतीर्यते ।तस्माद्दुःखं सदा याति द्वेषवान्पुरुषोत्तमे ॥नृसिंहद्वेषतो दुःखं रक्षोरूपेण रावणः ।अगाच्च रामविद्वेषाच्छिशुपालस्तथैव च ॥ततो भक्त्या परं यातो द्वेषरूपस्त्वधोगतिम् ।तस्मात्सर्वगुणोद्रेकिविद्वेषात्सर्वदोषवान् ॥भवेदिति सरूपत्वं द्वेषादेः पुरुषस्य हि॥ इति भागवततन्त्रे ॥'तं यथा यथोपासते तदेव भवति।'तं भूतिरिति देवा उपासाञ्चक्रिरे ते बभूवुस्तस्माद्धाप्येतर्हि सुप्तो भूर्भूरित्येव प्रश्वसित्यभूरित्यसुरास्ते ह पराबभूवुः॥ इत्यादि च ॥'सत्यप्यत्यल्पविद्वेषे भोजनं दास्यतीति तु ।स्नेहबाहुल्यतः कीटः पेशस्कारिसमो भवेत् ॥द्वेषे सर्वात्मना नष्टे स्नेहे चैव विवर्धति ।सरूपता तदैव स्यात्कीटस्यैवं हरेरपि ॥अत्यल्पोऽपि हरेर्द्वेषः स्नेहस्यानुदयङ्करः ।सोऽयं विशेषो नान्यस्य फलदाता च केशवः ॥न हि पेशस्कृतः किञ्चित्फलदातृत्वमिष्यते ।स्वातन्त्र्याद्विद्विषां चैव केशवो न सुखप्रदः॥ इति स्वातन्त्र्यविवेके ॥ २२,२३ ॥
देहो गुरुर्मम विरक्तिविवेकहेतु- र्बिभ््रात् स्म सत्वनिधनं सततात्युदर्कम् । तत्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः ॥ २५ ॥


सत्त्वनिधनः सत्वं निधीयतेऽस्मिन्परमेश्वर इति । 'सततमतिशये-नोच्चैरर्करूपःइति सततात्युदर्को भगवान् ॥ २५ ॥
जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षया वितन्वन् । सोऽन्ते सुकृच्छ्रमवरुद्धमनाः स्वदेहं सृष्ट्वा स्वबीजमवसीदति वृक्षधर्मा ॥ २६ ॥


बीजार्थमारोपहणादिकं कुर्वन्निति ॥ २६ ॥
न ह्येकस्माद् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।ब््राह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः ॥ ३१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये एकादशस्कन्धे नवमोऽध्यायः ॥
'एकस्मात्तु गुरोर्ज्ञानं जायते नैव कस्यचित् ।एकस्मादेव जायेत योग्याद्ब्रह्मपदस्य तु ॥स्वयं चोपदिशेज्ज्ञानं वैरिञ्चिपदयोगिनि ।अनुग््राहात्तेन चापि ज्ञानं दत्वा विमुक्तिदः ॥ज्ञानं प्राप्य बहुभ्योऽपि नर्ते मुक्तिश्चतुर्मुखात् ।ज्ञानमप्राप्य तेषां तु ज्ञानदो विष्णुरेव हि॥ इति गुरुविवेके ॥३१॥