Jump to content

Bhagavatatatparyanirnaya/C6/S4: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN
| chapter_id  = BTN_C06
| chapter_num  = 6
| chapter_num  = 6
| chapter_name = षष्ठस्कन्धः
| section_id  = BTN_C06_S04
| section_num  = 4
| title        = चतुर्थोऽध्यायः
| title        = चतुर्थोऽध्यायः
}}
}}
Line 14: Line 10:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = न यस्य सख्यं पुरुषो वेत्ति सख्युः
| verse_line1  = न यस्य सख्यं पुरुषो वेत्ति सख्युः
Line 36: Line 30:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = देहोऽसवोऽक्षा मनवो भूतमात्रा
| verse_line1  = देहोऽसवोऽक्षा मनवो भूतमात्रा
Line 58: Line 50:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यदोपरामो मनसो नामरूप-
| verse_line1  = यदोपरामो मनसो नामरूप-
Line 80: Line 70:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = मनीषिणोऽन्तर्हृदि सन्निवेशितं
| verse_line1  = मनीषिणोऽन्तर्हृदि सन्निवेशितं
Line 102: Line 90:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = स वै ममाशेषविशेषमाया-
| verse_line1  = स वै ममाशेषविशेषमाया-
Line 125: Line 111:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यद्यन्निरुक्तं वचसा निरूपितं
| verse_line1  = यद्यन्निरुक्तं वचसा निरूपितं
Line 147: Line 131:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यस्मिन् यतो येन च यस्य यस्मै
| verse_line1  = यस्मिन् यतो येन च यस्य यस्मै
Line 169: Line 151:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अस्तीति नास्तीति च वस्तुनिष्ठयो-
| verse_line1  = अस्तीति नास्तीति च वस्तुनिष्ठयो-
Line 191: Line 171:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = योऽनुग्रहार्थं भजतां पादमूल-
| verse_line1  = योऽनुग्रहार्थं भजतां पादमूल-
Line 213: Line 191:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = यः प्राकृतैर्ज्ञानपथैर्जनानां
| verse_line1  = यः प्राकृतैर्ज्ञानपथैर्जनानां
Line 235: Line 211:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
| verse_line1  = ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।
Line 255: Line 229:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।
| verse_line1  = तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।
Line 275: Line 247:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।
| verse_line1  = अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।
Line 295: Line 265:
| document_id  = BTN
| document_id  = BTN
| chapter_id    = BTN_C06
| chapter_id    = BTN_C06
| section_id    = BTN_C06_S04
| adhikarana    =
| verse_type    = shloka
| verse_type    = shloka
| verse_line1  = मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
| verse_line1  = मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।
Line 302: Line 270:
}}
}}


{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥}}
{{Commentary
| verse_id = BTN_C06_S04_V48
| id      = BTN_C06_S04_V48_author-note
| name    = Bhashyam
| text     =
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
}}


{{Commentary
{{Commentary

Revision as of 04:42, 9 April 2026

चतुर्थोऽध्यायः

न यस्य सख्यं पुरुषो वेत्ति सख्युःसखा वसन् संवसतः पुरेऽस्मिन् ।


गुणो यथा गुणिनः । कश्चित्पुरस्थितो गुणभूतः प्रधानभूतस्य राज्ञः ममासौ सखेति राज्ञा चिन्तितमपि न जानाति ।'यथा राज्ञः प्रियत्वं तु भृत्यो वेद न चात्मनः ।तथा जीवो न यत्सख्यं वेत्ति तस्मै नमोस्तु ते॥ इति स्कान्दे ॥ २४ ॥
देहोऽसवोऽक्षा मनवो भूतमात्रानात्मानमन्यं च विदुः परं यत् ।


'देहमानी वैश्रवणो मरुतः प्राणमानिनः ।इन्द्राद्या इन्द्रियात्मानो रुद्रोऽन्तःकरणात्मकः ॥नैते विदन्ति स्वात्मानं परं वापि विमोहिताः ।जीवाभिमानी ब्रह्मा तु सर्वं वेद प्रजापतिः ॥सोऽपि वेद हरिं नैव सम्यक्सैव हि सर्ववित्॥ इति च ॥ २५ ॥
यदोपरामो मनसो नामरूप-रूपस्य दृष्टिस्मृतिसंप्रमोषात् ।


केवलया स्वसंस्थया । स्वप्नसुषुप्त्यादौ मनस उपरमाज्जीवस्यास्वातन्त्र्य-दर्शनेऽपि स्वप्नप्रबोधादिदर्शनादन्य ईश्वरस्तन्नियामकोऽस्तीति ज्ञायते । जीवेच्छाभावात्केवलत्वम् ।'यदोपरामो मनसः स्वप्नसुप्तिलयादिषु ।तदावस्थाप्रबोधादिकारणत्वेन केशवः ॥अस्वातन्त्र्यात्तु जीवस्य विद्यतेऽन्यो नियामकः ।जीवप्रवृत्त्यानुकूल्याज्ज्ञायतेऽसौ तदा विभुः॥ इति हरिवंशेषु ॥२६॥
मनीषिणोऽन्तर्हृदि सन्निवेशितंस्वशक्तिभिर्नवभिश्च त्रिवृद्भिः ।


इच्छादिरूपेण त्रिवृद्भिः ।'इच्छादित्वेन त्रिविधा विमलाद्यास्तु शक्तयः ।विष्णोः स्वरूपभूता यास्ताभ्यस्तन्नामिकाः पराः ॥जायन्ते तत्प्रसादेव ताश्च पीठे प्रपूजयेत् ।तद्भिन्नजीवास्तस्यैव प्रसादात्तत्समीपगाः॥ इति तन्त्रनिर्णये ।'दशेन्द्रियाणि च मनो बुद्धिप्राणप्रधानकाः ।चतुर्दशैषां परमः पाञ्चदश्यो हरिः स्मृतः ॥बुद्धेर्भेदेन वैतेषु पाञ्चदश्योऽथ संस्थितेः॥ इति च ॥ २७ ॥
स वै ममाशेषविशेषमाया-निषेधनिर्वाणसुखानुभूतिः ।


'इयत्ता तु विशेषः स्यादानन्दादौ तदुज्झितेः । सर्वैर्विशेषै रहित उच्यते हरिरव्ययः । अप्राकृतस्वरूपत्वान्निर्मायश्चेति कथ्यते॥ इति च । 'तद्रूपसदृशं रूपं यतः सर्वस्य सर्वदा । सर्वरूपो यतः शब्दमुख्यार्थः सर्वनामकः॥ इति च ॥ २८ ॥
यद्यन्निरुक्तं वचसा निरूपितंधियाऽक्षिभिर्वा मनसा वोत यस्य ।


अलौकिकत्वान्नो विष्णुर्निरुक्तो नो निरूपितः ।तथापि वेदेषूक्तत्वादुक्तो रूपित एव च॥ इति व्योमसंहितायाम् ॥ २९ ॥
यस्मिन् यतो येन च यस्य यस्मैयं यो यथा कुरुते कार्यते वा ।


सप्तविभक्त्यर्थस्य कालस्य प्रकारस्य च हेतुर्ब्रह्मैव ।'विभक्त्यर्थस्य कालस्य प्रकाराणां च कारणम् ।एक एव परो विष्णुः सर्वसत्ताप्रदत्वतः॥ इति भविष्यत्पर्वणि ॥'अनन्यः सदृशाभावादेको रूपाद्यभेदतः॥ इति च ॥ ३० ॥
अस्तीति नास्तीति च वस्तुनिष्ठयो-रेकस्थयोर्भिन्नविरुद्धधर्मयोः ।


'मदन्यो नास्ति सर्वेश इति विध्द्यासुरं मतम् ।अस्तीति दैवमुभयोर्हरिरेव ह्यपेक्षितः ॥निषेधविध्योर्विषयः फलदाता च केशवः ।तादृग्बुद्धेः कारणं च स्थानयोश्चोच्चनीचयोः॥ इति च ॥ ३२ ॥
योऽनुग्रहार्थं भजतां पादमूल-मनामरूपो भगवाननन्तः ।


'तत्कर्मणामदृष्टत्वादनामा चाप्यदर्शनात् ।अरूपस्त्ववतारेण रूपकर्माणि दर्शयेत् ॥नित्यरूपो नित्यकर्माऽप्यव्यक्तत्वमपेक्ष्य तु ।अरूपकर्मेत्युदितो रूपकर्मोज्झितेर्न तु॥ इति प्रकाशसंहितायाम् ।'अनामा सोऽधिकार्थत्वादव्यक्तत्वादरूपकः ।कंसारित्वादिसामर्थ्यो व्यक्तरूपोऽवतारगः॥ इति च ।'लोकदृष्ट्याधिकार्थानि मूलनामानि केशवे ।अथ दामोदरादीनि लोकदृष्ट्या समानि तु ॥आनन्दोऽव्यक्तरूपस्तु मूलरूपमुदाहृतम् ।स एव व्यक्तिमापन्नः प्रादुर्भाव उदीरितःइति च ॥ ३३ ॥
यः प्राकृतैर्ज्ञानपथैर्जनानांयथाशयं देहगतो विभाति ।


'स्वदेहस्थं हरिं प्राहुरधमा जीवमेव तु ।मध्यमाश्चाप्यनिर्णीतं जीवाद्भिन्नं जनार्दनम् ॥पूर्णानन्दादिगुणकं सर्वजीवविलक्षणम् ।उत्तमास्तु हरिं प्राहुस्तारतम्येन तेषु च ॥बुद्धिशुध्द्यनुसारेण यथाप्राणं शरीरगम् ।श्वासमात्रं जनाः प्राहुरनिर्णीतं च मध्यमाः ॥देवदेवेश्वरं सूत्रमानन्दं प्राणवेदिनःइति च ॥ ३४ ॥
ब्रह्मा भवो भवन्तश्च मनवो विबुधेश्वराः ।विभूतयो मम ह्येता भूतानां भूतिहेतवः ॥ ४५ ॥


'विशेषव्यक्तिपात्रत्वात् ब्रह्माद्यास्तु विभूतयः ।तदन्तर्यामिणश्चैव मत्स्याद्या विभवाः स्मृताः ॥ इति तन्त्रनिर्णये ॥ ४५ ॥
तपो मे हृदयं ब्रह्म तनुर्विद्या क्रियाऽऽकृतिः ।अङ्गानि क्रतवो जाता धर्म आत्माऽसवः सुराः ॥ ४६ ॥


'तपोऽभिमानी रुद्रस्तु विष्णोर्हृदयमाश्रितः ।विद्यारूपा तथैवोमा विष्णोस्तनुमुपाश्रिता ॥शृृङ्गाराद्याकृतिगतः क्रियात्मा पाकशासनः ।ओषु क्रतवः सर्वे मध्यदेहे च धर्मराट् ॥प्राणे वायुश्चित्तगतो ब्रह्मान्याः खेषु देवताः॥ इति च ॥'यदाश्रितं यद्भवति तत्तन्नामकमीरितम्॥ इति शब्दनिर्णये ॥ ४६ ॥
अहमेवेदमासाग्रे नान्यत् किञ्चान्तरं बहिः ।संज्ञानमात्रमव्यक्तं प्रसुप्तमिव विश्वतः ॥ ४७ ॥


सञ्ज्ञानमात्रं यदिदं त्वया तपसा दृष्टं मम रूपं तदेवाग्र आसीत् ।'नानावर्णो हरिस्त्वेको बहुशीर्षभुजोरुपात् ।आसील्लये तदन्यत्तु सूक्ष्मरूपं श्रियं विना ॥असुप्तः सुप्त इव च मीलिताक्षोऽभवद्धरिः ।अन्यत्रानादराद्विष्णौ श्रीश्च लीनेव कथ्यते ॥सूक्ष्मत्वेन हरौ स्थानाल्लीनमन्यदपीष्यते॥ इति मात्स्ये ॥ ४७ ॥
मय्यनन्तगुणेऽनन्ते गुणतोऽनन्तविग्रहे ।यदासीत् तत एवाद्यः स्वयम्भूः समभूदजः ॥ ४८ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये षष्ठस्कन्धे चतुर्थोऽध्यायः ॥
गुणतोऽनन्ते ।'प्रत्येकशो गुणानां तु निःसीमत्वमुदीर्यते ।तदानन्त्यं तु गुणतस्ते चानन्ता हि सङ्ख्यया ।अतोऽनन्तगुणो विष्णुर्गुणतोऽनन्त एव च॥ इति तन्त्रभागवते ॥ ४८ ॥