Bruhadaranyaka/C5/S1: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== प्रथमं ब्राह्मणम् == | == प्रथमं ब्राह्मणम् == | ||
{{VerseBlock | |||
| verse_id = BR_C05_S01_V01 | |||
| document_id = BR | |||
| chapter_id = BR_C05 | |||
| section_id = BR_C05_S01 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । | |||
| verse_line2 = पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C05_S01_V01 | |||
| id = BR_C05_S01_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः । | |||
पूर्णं च तत्परं रूपं पूर्णात् पूर्णाः समुद्गताः ॥ | |||
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः । | |||
न देशकालसामथ्यैः पारावर्यं कथञ्चन ॥ | |||
पूर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् । | |||
रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ॥ | |||
लौकिकव्यवहारो यो भूभारक्षपणादिकः । | |||
तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C05_S01_V02 | |||
| document_id = BR | |||
| chapter_id = BR_C05 | |||
| section_id = BR_C05_S01 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥ | |||
}} | |||
{{AuthorNote| text = ॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये प्रथमं ब्राह्मणम् ॥}} | |||
{{AuthorNote| text = ॥ इति बृहद्भाष्ये प्रथमं ब्राह्मणम् ॥ १ ॥}} | |||
{{Commentary | |||
| verse_id = BR_C05_S01_V02 | |||
| id = BR_C05_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
ओताः सर्वगुणाः यस्मादस्मिन्नों विष्णुरुच्यते । | |||
खं प्रकाशस्वरूपत्वात् ब्रह्मतद्व्याप्तरूपतः ॥ | |||
पुनः खं सुखरूपत्वम् पुराणं तदनादितः ॥ | |||
वायोश्च रतिदं यस्माद्वायुरं ब्रह्म तत्परम् । | |||
ख्यातत्वाच्चापि तत्खं स्याद्रौहिणेयस्तथाऽवदत् ॥ | |||
वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः । | |||
निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम् ॥ इति च । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C05_S01_V02 | |||
| id = BR_C05_S01_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
बाह्लीकसुता हि रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्रः ॥ | |||
}} | |||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 05:36, 8 April 2026
प्रथमं ब्राह्मणम्
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः ।
पूर्णं च तत्परं रूपं पूर्णात् पूर्णाः समुद्गताः ॥
परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः ।
न देशकालसामथ्यैः पारावर्यं कथञ्चन ॥
पूर्वरूपस्य पूर्णस्य पूर्णं यदवतारगम् ।
रूपं तदात्मन्यादाय पूर्णमेवावतिष्ठते ॥
लौकिकव्यवहारो यो भूभारक्षपणादिकः ।
तददृष्टिं विना नान्यो लयः कृष्णादिनां क्वचित् ॥ॐ खं ब्रह्म खं पुराणं वायुरं खमिति ह स्माह कौरव्यायणीपुत्रो वेदोऽयं ब्राह्मणा विदुर्वेदेनैन यद्वेदितव्यम् ॥
ओताः सर्वगुणाः यस्मादस्मिन्नों विष्णुरुच्यते ।
खं प्रकाशस्वरूपत्वात् ब्रह्मतद्व्याप्तरूपतः ॥
पुनः खं सुखरूपत्वम् पुराणं तदनादितः ॥
वायोश्च रतिदं यस्माद्वायुरं ब्रह्म तत्परम् ।
ख्यातत्वाच्चापि तत्खं स्याद्रौहिणेयस्तथाऽवदत् ॥
वेदोऽयं ज्ञानरूपत्वादिति यं ब्राह्मणा विदुः ।
निर्दोषत्वाद इत्युक्तस्तेन वेद्यं सदाऽखिलम् ॥ इति च ।बाह्लीकसुता हि रोहिणी । अतो बलभद्रः कौरव्यायणीपुत्रः ॥