Bruhadaranyaka/C1/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== प्रजापतिब्राह्मणम् == | == प्रजापतिब्राह्मणम् == | ||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V01 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहं नामाऽभवत् तस्मादप्येतर्ह्यामंत्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुष ओषति ह वै स तं योऽस्मात् पूर्वो बुभूषति य एवं वेद ॥ १ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V01 | |||
| id = BR_C01_S04_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
इदमग्रे एतस्याग्रे परमात्मैवासीत् । ततः पुरुषविधो ब्रह्माऽऽसीत् । पुरुषो विष्णुस्तद्विधत्वात् पुरुषविधः । | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V01 | |||
| id = BR_C01_S04_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
एतस्य जगतो ह्यग्र आसीन्नारायणः परः । | |||
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥ | |||
आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवद्विभोः । | |||
ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः ॥ | |||
यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः । | |||
एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥ | |||
स तु सर्वा दिशो दृष्ट्वा नान्यद् दृष्ट्वा पितामहः । | |||
अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन् ॥ | |||
हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः । | |||
ओयत्वं स्वरूपस्य स एवं समचिन्तयत् ॥ | |||
ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः । | |||
ओषणात् सर्वपापानां पूर्वं पुरुष उच्यते ॥ | |||
नारायणप्रसादेन य एवं पुरुषाभिधम् । | |||
वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति ॥ | |||
ओषेत् स्वयमनुष्टः सन् ब्रह्मविष्णुप्रसादतः ॥ १ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V02 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = सोऽबिभेत् तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभैष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V02 | |||
| id = BR_C01_S04_V02_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
तस्य त्वेकस्य सहसा यतो भीः समजायत । | |||
तस्मादद्यापि चैकस्य निर्विवेकं भयं भवेत् ॥ | |||
विममर्श ततो ब्रह्मा यस्मान्मद्बाधको न हि । | |||
मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥ | |||
अतः कस्माद्बिभेमीति तस्य भीतिरपोहिता । | |||
विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥ | |||
कस्माद्भयं भवेत् तस्य समानाद्धि भयं भवेत् । | |||
विरोधिनोऽधिकाद्वापि हीनाद्वा पारवश्यतः ॥ | |||
हीनमेव यतस्तस्य सर्वमेव जगद्वशे । | |||
न च जातं तदा सर्वं हरिरेव यतः परः ॥ २ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V03 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V03 | |||
| id = BR_C01_S04_V03_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः । | |||
अथापि पत्नीमैच्छच्च स स्थूलत्वमुपागतः ॥ | |||
दम्पती सहितौ यावद्ब्रह्मा चैव सरस्वती । | |||
तावद्देहोऽभवद्ब्रह्मा तदा देहं द्विधाऽकरोत् ॥ | |||
पातनात् पतिपत्नीत्वशब्द एनोरजायत । | |||
तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत् ॥ | |||
ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि । | |||
जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥ ३ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V04 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = सोहेयमीक्षाञ्चक्रे कथं नु माऽऽत्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत् । ततो गावो अजायन्त बडवेतराऽभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत् तत एकशफमजायताऽजेतराभवद् वस्त इतरोऽविरितरा मेष इतरस्तां समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४ ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V05 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = सोऽवेदहं वाच सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत् सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V05 | |||
| id = BR_C01_S03_V05_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
सर्वज्ञाऽपि तु सा देवी विरिञ्चे भक्तिमत्यपि । | |||
तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती ॥ | |||
अनाद्यनन्तसम्बन्धमुभयोरपि जानती । | |||
स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत ॥ | |||
नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत् । | |||
वृषादिरूपतां सोऽपि प्राप्य सृष्ट्वेदमञ्जसा ॥ | |||
सर्जनात् सृष्टिनामाऽभूत् तद्वित्तत्पुत्रतां व्रजेत् । | |||
पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः ॥ | |||
}} | |||
{{VerseBlock | |||
| verse_id = BR_C01_S04_V06 | |||
| document_id = BR | |||
| chapter_id = BR_C01 | |||
| section_id = BR_C01_S04 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥ | |||
}} | |||
{{Commentary | |||
| verse_id = BR_C01_S04_V06 | |||
| id = BR_C01_S03_V06_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
अथान्नादमथाप्यन्नं स्रक्ष्यामीति विचिन्तयन् । | |||
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥ | |||
तन्मुखाच्चैव हस्ताभ्यामन्तरग्निरजायत । | |||
एवं सर्वस्य हेतुत्वात् सर्वस्यापि पतित्वतः ॥ | |||
सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः । | |||
स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥ | |||
स रेतसः पुनः सोममसृजद्ब्रह्मविद्धरः । | |||
सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा ॥ | |||
अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् । | |||
यतोऽस्रागतिसृष्टिस्तं देवं यो वेद पूरुषः ॥ | |||
विष्णोः प्रसादतः सृष्टिं देवलोके स जायते । | |||
आत्मयोग्यानुसारेण सुखज्ञानादियुक्तता ॥ इति ब्रह्मतर्के । | |||
}} | |||
[[Category:Bruhadaranyaka]] | [[Category:Bruhadaranyaka]] | ||
Revision as of 05:36, 8 April 2026
प्रजापतिब्राह्मणम्
आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहं नामाऽभवत् तस्मादप्येतर्ह्यामंत्रितोऽहमयमित्येवाग्र उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति स यत्पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मन औषत् तस्मात् पुरुष ओषति ह वै स तं योऽस्मात् पूर्वो बुभूषति य एवं वेद ॥ १ ॥
इदमग्रे एतस्याग्रे परमात्मैवासीत् । ततः पुरुषविधो ब्रह्माऽऽसीत् । पुरुषो विष्णुस्तद्विधत्वात् पुरुषविधः ।
एतस्य जगतो ह्यग्र आसीन्नारायणः परः ।
एक एव श्रिया सार्धं तमात्मा पुरुषेत्यपि ॥
आहुस्तस्मात् पुरुषविधो ब्रह्मा समभवद्विभोः ।
ब्रह्मादेश्च श्रियश्चैव नित्यं विष्णुर्गुणाधिकः ॥
यथा तथैव रुद्रादेर्ब्रह्मा यस्माद् गुणाधिकः ।
एतस्मात् पुरुषविधता ब्रह्मणः सम्प्रकीर्तिता ॥
स तु सर्वा दिशो दृष्ट्वा नान्यद् दृष्ट्वा पितामहः ।
अब्रवीदहमस्मीति स्वाहेयत्वमनुस्मरन् ॥
हातुं शक्यमिदं सर्वमासीदेकोऽभवं यतः ।
ओयत्वं स्वरूपस्य स एवं समचिन्तयत् ॥
ततोऽभवदहंनामा स चाभूत् पुरुषाभिधः ।
ओषणात् सर्वपापानां पूर्वं पुरुष उच्यते ॥
नारायणप्रसादेन य एवं पुरुषाभिधम् ।
वेद स्वाभिमतं यस्तु पूर्वं प्राप्तुमभीप्सति ॥
ओषेत् स्वयमनुष्टः सन् ब्रह्मविष्णुप्रसादतः ॥ १ ॥सोऽबिभेत् तस्मादेकाकी बिभेति सहायमीक्षाञ्चक्रे यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभैष्यत् द्वितीयाद्वै भयं भवति ॥ २ ॥
तस्य त्वेकस्य सहसा यतो भीः समजायत ।
तस्मादद्यापि चैकस्य निर्विवेकं भयं भवेत् ॥
विममर्श ततो ब्रह्मा यस्मान्मद्बाधको न हि ।
मया सृज्या यतः सर्वे इतः पश्चात्तनो हरः ॥
अतः कस्माद्बिभेमीति तस्य भीतिरपोहिता ।
विष्णोरतिप्रियत्वात्तु तदन्येषां पितृत्वतः ॥
कस्माद्भयं भवेत् तस्य समानाद्धि भयं भवेत् ।
विरोधिनोऽधिकाद्वापि हीनाद्वा पारवश्यतः ॥
हीनमेव यतस्तस्य सर्वमेव जगद्वशे ।
न च जातं तदा सर्वं हरिरेव यतः परः ॥ २ ॥स वै नैव रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छत् स हैतावानास यथा स्त्रीपुमांसौ सम्परिष्वक्तौ स इममेवात्मानं द्वेधाऽपातयत् ततः पतिश्च पत्नी चाभवतां तस्मादिदमर्धबृगलमिव स्व इति ह स्माह याज्ञवल्क्यस्तस्मादयमाकाशः स्त्रिया पूर्यत एव तां समभवत् ततो मनुष्या अजायन्त ॥ ३ ॥
न रेमे स ततो ब्रह्मा तस्मादेकस्य नो रतिः ।
अथापि पत्नीमैच्छच्च स स्थूलत्वमुपागतः ॥
दम्पती सहितौ यावद्ब्रह्मा चैव सरस्वती ।
तावद्देहोऽभवद्ब्रह्मा तदा देहं द्विधाऽकरोत् ॥
पातनात् पतिपत्नीत्वशब्द एनोरजायत ।
तस्मात् तयोरेकसुखं भवत्येवार्धपात्रवत् ॥
ततस्तस्यामुमेशादीन् देवान् सर्वान् मनूनपि ।
जनयामास बोधस्य प्राधान्यं हि मनुष्यता ॥ ३ ॥सोहेयमीक्षाञ्चक्रे कथं नु माऽऽत्मन एव जनयित्वा सम्भवति हन्त तिरोऽसानीति सा गौरभवदृषभ इतरस्तां समेवाभवत् । ततो गावो अजायन्त बडवेतराऽभवदश्ववृष इतरो गर्दभीतरा गर्दभ इतरस्तां समेवाभवत् तत एकशफमजायताऽजेतराभवद् वस्त इतरोऽविरितरा मेष इतरस्तां समेवाभवत् ततोऽजावयोऽजायन्तैवमेव यदिदं किञ्च मिथुनमा पिपीलिकाभ्यस्तत्सर्वमसृजत ॥ ४ ॥
सोऽवेदहं वाच सृष्टिरस्म्यहं हीदं सर्वमसृक्षीति ततः सृष्टिरभवत् सृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ५ ॥
सर्वज्ञाऽपि तु सा देवी विरिञ्चे भक्तिमत्यपि ।
तद्भार्यतामात्मनश्च नितरां धर्ममीक्षती ॥
अनाद्यनन्तसम्बन्धमुभयोरपि जानती ।
स्त्रीस्वभावं दर्शयन्ती साऽधर्ममिव चैक्षत ॥
नानासृष्टिप्रसिद्ध्यर्थं सा गोत्वादिकमाव्रजत् ।
वृषादिरूपतां सोऽपि प्राप्य सृष्ट्वेदमञ्जसा ॥
सर्जनात् सृष्टिनामाऽभूत् तद्वित्तत्पुत्रतां व्रजेत् ।
पिपीलिकान्तरुद्रादौ यथायोग्यत्वमात्मनः ॥अथेत्यभ्यमन्थत् स मुखाच्च योनेर्हस्ताभ्यां चाग्निमसृजत । तस्मादेतदुभयमलोमकमन्तरतोऽलोमका हि योनिरन्तरतस्तद्यदिदमाहुरमुं यजामुं यजेत्येकैकं देवमेतस्यैव सा विसृष्टिरेष उ ह्येव सर्वे देवा अथ यत्किञ्चेदमार्द्रं तद्रेतसोऽसृजत तदु सोम एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नादः सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवानसृजताथ यन्मर्त्यः सन्नमृतानसृजत तस्मादतिसृष्टिरतिसृष्ट्यां हास्यैतस्यां भवति य एवं वेद ॥ ६ ॥
अथान्नादमथाप्यन्नं स्रक्ष्यामीति विचिन्तयन् ।
ओष्ठद्वयं ममन्थान्तर्हस्तौ चैव परस्परम् ॥
तन्मुखाच्चैव हस्ताभ्यामन्तरग्निरजायत ।
एवं सर्वस्य हेतुत्वात् सर्वस्यापि पतित्वतः ॥
सर्वे देवा एष एवेत्याहुर्वेदविदो जनाः ।
स्वतन्त्रेषु यतः शब्दा वर्तेयुः सर्व एव च ॥
स रेतसः पुनः सोममसृजद्ब्रह्मविद्धरः ।
सर्वाधिकोऽपि योग्यत्वान्मर्त्यधर्मतया पुरा ॥
अवमो योग्यताहीनानप्यायुर्मात्रतोऽधिकान् ।
यतोऽस्रागतिसृष्टिस्तं देवं यो वेद पूरुषः ॥
विष्णोः प्रसादतः सृष्टिं देवलोके स जायते ।
आत्मयोग्यानुसारेण सुखज्ञानादियुक्तता ॥ इति ब्रह्मतर्के ।