ब्रह्मसूत्रभाष्यम्/C01/S01/A004: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:10, 2 March 2026
समन्वयाधिकरणम्
अज्ञानां प्रतीयमानमपि नेतरेषां शास्त्रयोनित्वम् , कुतः ? ।
ॐ तत्तु समन्वयात् ॐ ॥ 04-04 ॥
अन्वय उपपत्यादि लिङ्गम् ।
उक्तं च बृहत्संहितायाम् –
‘उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इति ॥
‘उपक्रमादितात्पर्यलिङ्गैः सम्यङ् निरूप्यमाणे तदेव शास्त्रगम्यम् ।
इति भागवते ॥ 04 ॥‘मां विधत्तेऽभिदत्ते मां विकल्प्योऽपोह्य इत्यहम् ।
इत्यस्या हृदयं साक्षान्नान्यो मद्वेद कश्चन’
॥ इति समन्वयाधिकरणम् ॥ 04 ॥