Brahmasutra/C4/S3: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 23: | Line 23: | ||
| verse_line1 = ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ 01-526 ॥ | | verse_line1 = ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ 01-526 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति अर्चिराद्यधिकरणम् ॥ 01 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 63: | Line 65: | ||
| verse_line1 = ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ 02-527 ॥ | | verse_line1 = ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ 02-527 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति वायुगत्यधिकरणम् ॥ 02 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 84: | Line 88: | ||
| verse_line1 = ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ 03-528 ॥ | | verse_line1 = ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ 03-528 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥इति तटिदधिकरणम् ॥ 03 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 142: | Line 148: | ||
| verse_line1 = ॐ उभयव्यामोहत् तत्सिद्धेः ॐ॥ 05-530 ॥ | | verse_line1 = ॐ उभयव्यामोहत् तत्सिद्धेः ॐ॥ 05-530 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C04_S03_V05| text = कुतः ? –}} | |||
{{AuthorNote| text = ॥ इति अतिवाहिकाधिकरणम् ॥ 04 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 204: | Line 214: | ||
| verse_line1 = ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ 06-531 ॥ | | verse_line1 = ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ 06-531 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति वैद्युताधिकरणम् ॥ 05 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 301: | Line 313: | ||
| verse_line1 = ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ॥ 10-535 ॥ | | verse_line1 = ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ॥ 10-535 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C04_S03_V10| text = कदा ? –}} | |||
{{Commentary | {{Commentary | ||
| Line 475: | Line 489: | ||
| verse_line1 = ॐ विशेषं च दर्शयति ॐ ॥ 16-541 ॥ | | verse_line1 = ॐ विशेषं च दर्शयति ॐ ॥ 16-541 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति कार्याधिकरणम् ॥ 06 ॥}} | |||
{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रभाष्ये चतुर्थाध्यायस्य तृतीयः पादः ॥ 04-03 ॥}} | |||
{{Commentary | {{Commentary | ||
Revision as of 05:32, 8 April 2026
तृतीयः पादः
मार्गो गम्यं चास्मिन् पाद उच्यते –
अर्चिराद्यधिकरणम्
ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ 01-526 ॥
‘तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहरह्ण आपूर्यमाणपक्षम्’ इत्यर्चिषः प्राथम्यं श्रूयते । ‘यदा ह वै पुरुषोऽस्माल्लोकात् प्रैति स वायुमागच्छति’ इति वायोः । तत्रार्चिषः प्राप्तिरेव प्रथमा ।
‘द्वावेव मार्गौ प्रतिथावर्चिरादिर्विपश्चिताम् ।
धूमादिः कर्मिणां चैव सर्ववेदविनिर्णयात् ॥
‘अग्निर्ज्योतिरिति द्वेधैर्वार्चिषः सम्प्रतिष्ठतिः ।अग्निं गत्वा ज्योतिरेति प्रथमं ब्रह्म संव्रजन् ।एकस्मिन्स्तुपुरे संस्थो द्विरूपोऽग्नेः सुतो महान्’इति च ब्रह्मतर्के॥
वायुगत्यधिकरणम्
ॐ वायुशब्दादविशेषविशेषाभ्याम् ॐ ॥ 02-527 ॥
अर्चिषो वायुं गच्छति ।‘स वायुमागच्छति’ इति सामान्यवचनात् ।‘स इतो गतो द्वितीयां गतिं वायुमागच्छति वायोरहरह्न आपूर्यमाणपक्षम्’ इति विशेषवचनाच्च ॥ 02 ॥
तटिदधिकरणम्
ॐ तटितोऽधिवरुणः सम्बन्धात् ॐ ॥ 03-528 ॥
‘मासेभ्यः सन्त्सरं संवत्सराद्वरुणलोकं वरुणलोकात् प्रजापति लोकम्’इति कौण्डिन्यश्रुतिः ।
‘संवत्सरात् तटितमागच्छति तटितः प्रजापतिलोकम्’इति च गौपवनश्रुतिः ॥
‘तत्र तटितो वरुणं गच्छति । तटिता ह्यूह्यते वरुणलोकस्तटिदुपरि मुक्तामयो राजते तत्रासौ वरुणो राजा सत्यानृते विविञ्चति’ इत्युपरिसम्बबन्धश्रुतेः ॥ 03 ॥
अतिवाहिकाधिकरणम्
ॐ आतिवाहिकस्तल्लिङ्गात् ॐ ॥ 04-529 ॥
पूर्वोक्तस्त्वातिवाहिको वायुः । पूर्वगमनलिङ्गात् ॥ 04 ॥
ॐ उभयव्यामोहत् तत्सिद्धेः ॐ॥ 05-530 ॥
‘स वायुमागच्छति’ इति प्रथममुच्यते ।
‘उत्क्रान्तो विद्वान् परमभिगच्छन् विद्युतमेवान्तत उपगच्छति द्यौर्वाव विद्युत् तत्पतिं वायुमुपगम्य तेनैव ब्रह्म गच्छति’ इत्यन्तेऽपि वायुगमनश्रुतेः ।पूर्वोक्त आतिवाहिकः परो वेति व्यामोहे उत्तरे दिवस्पतिरिति विशेषणात् पूर्वत्रातिवाहिकस्यैव सिद्धेः
ब्रह्मतर्के च –
‘उत्क्रान्तस्तु शरीरात् स्वाद्गच्छत्यर्चिषमेव तु ।
ततो हि वायोः पुत्रं च योऽसौनाम्नाऽऽतिवाहिकः ॥
ततोऽहः पूर्वपक्षं चाप्युदक्संवत्सरं तथा ।
तटितं वरुणं चैव प्रजापं सूर्यमेव च ॥
सोमं वैश्वानरं चेन्द्रं ध्रुवं देवीं दिवं तथा ।
ततो वायुं परं प्राप्य तेनैति पुरुषोत्तमम्’ इति ॥ 05 ॥
वैद्युताधिकरणम्
ॐ वैद्युतेनैव ततस्तच्छ्रुतेः ॐ ॥ 06-531 ॥
प्रकारान्तरेण तत्र तत्रोच्यमानत्वाद्वायोरपि परतो ब्रह्मणोऽर्वाग्गन्तव्योऽस्तीति नाशङ्कनीयम् । विद्युत्पतिना वायुनैव ‘स एनान् ब्रह्म गमयति’ इति ब्रह्मगमनश्रुतेः ।
‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरः । कुतोऽन्यस्य भवेच्छक्तिस्तमृते प्राणनायकम्’ इति बृहत्तन्त्रे ॥ 06 ॥
कार्याधिकरणम्
ॐ कार्यं बादरिरस्यगत्युपपत्तेः ॐ ॥ 07-532 ॥
‘स एनान् ब्रह्म गमयति’ इति कार्यं गमयतीति बादरिर्मन्यते ।
‘ऋते देवान् परं ब्रह्म कः पुमान् प्राप्नुयात् क्वचित् ।
यद्यपि ब्रह्मदृष्टिः स्याद्ब्रह्मलोकमवाप्नुयात्’ इत्यध्यात्मवचनात् तस्यैव गत्युपपत्तेः ॥ 07 ॥
ॐ विशेषितत्वाच्च ॐ ॥ 08-533 ॥
‘यदि ह वाव परमभिपश्यति प्राप्नोति ब्रह्माणं चतुर्मुखं प्राप्नोति ब्रह्माणं चतुर्मुखम्’ इति कौषारवश्रुतौ ॥ 08 ॥
ॐ सामीप्यात्तुतद्व्यपदेशः ॐ ॥ 09-534 ॥
‘ब्रह्मविदाप्नोति परम्’ इति तद्व्यपदेशस्तु समीप एव परमपि प्राप्नोतीत्येतदर्थमेव ॥ 09 ॥
ॐ कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॐ॥ 10-535 ॥
‘ते ह ब्रह्माणमभिसम्पद्य यदैतद्विलीयतेऽथ सह ब्रह्मणा परमभिगच्छन्ति’ इति सौपर्णश्रुतेर्महाप्रलये तदध्यक्षेण ब्रह्मणा सह गच्छन्ति ॥ 10 ॥
ॐ स्मृतेश्च ॐ ॥ 11-536 ॥
‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे ।
परस्यान्ते परात्मानः प्रविशन्ति परं पदम्’ इति ॥ 11 ॥
ॐ परं जैमिनिर्मुख्यत्वात् ॐ ॥ 12-537 ॥
ब्रह्मशब्दस्य तत्रैव मुख्यत्वात् परमेव ब्रह्म गमयतीति जैमिनिर्मन्यते ॥ 12 ॥
ॐ दर्शनाच्च ॐ ॥ 13-538 ॥
दृष्टत्वाच्छ परब्रह्मणः ॥ 13 ॥
ॐ न च कार्ये प्रतिपत्त्यभिसन्धिः ॐ ॥ 14-539 ॥
न हि कार्ये प्रतिपत्तिः प्राप्नवानीत्यभिसन्धिश्च ।
‘यदुपास्ते पुमान् जीवन् यत् प्राप्तुमभिवाञ्छति ।यच्च पश्यति तृप्तः संस्तत् प्राप्नोति मृतेरनु’ इति पाद्मे ॥ 14 ॥
ॐ अप्रतीकालम्बनान् नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च ॐ ॥ 15-540 ॥
‘प्रतीकं देह उद्दिष्टो येषां तत्रैव दर्शनम् ।
न तु व्याप्ततया क्वापि प्रतीकालम्बनास्तुते ॥
अप्रतीका देवतास्तु ऋषीणां शतमेव च ।
राज्ञां च शतमुद्दिष्टं गन्धर्वादि शतं तथा ॥
एतेऽधिकारिणो व्याप्तदर्शनेऽन्ये न तु क्वचित् ।
अयोग्यदर्शने यत्नाद्ब्रंशः पूर्वस्य चापि तु ॥
अप्रतीकाश्रया ये हि ते यान्ति परमेव तु ।
स्वेदेहे ब्रह्म दृष्ट्यैव गच्छेद्ब्रह्मसलोकताम् ।ब्रह्मणा सह सम्प्राप्ते संहारे परमं पदम् ॥
इति गारुडवचनात् उभयत्रोक्तदोषाच्चाप्रतीकालम्बनान् परं नयति ।
‘स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते’ इति श्रुतेश्च । अत्र कर्मोपासनमेव । अन्यान् कार्यं नयतीति भगवन्मतम् ॥ 15 ॥
ॐ विशेषं च दर्शयति ॐ ॥ 16-541 ॥
‘अन्तःप्रकाशा बहिःप्रकाशाः सर्वप्रकाशाः । देवा वाव सर्वप्रकाशाः ऋषयोऽन्तःप्रकाशाः मानुषा एव बहिःप्रकाशाः’ इति चतुर्वेदशिखायाम् ॥ 16 ॥