Brahmasutra/C2/S4: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 79: | Line 79: | ||
| verse_line1 = ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥ | | verse_line1 = ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति प्राणाधिकरणम् (प्राणोत्पत्त्यधिकरणम्)}} | |||
{{Commentary | {{Commentary | ||
| Line 100: | Line 102: | ||
| verse_line1 = ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥ | | verse_line1 = ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V04| text = ‘द्विधा हैवेन्द्रियाणि नित्यानि चानित्यानि च । तत्र नित्यं मनोऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठत्यनित्यान्यन्यानि’ इति गौपवनश्रुतौ मनसोऽनुत्पत्तिः सयुक्तिका श्रूयते । अत आह-}} | |||
{{AuthorNote| text = ॥ इति मनोधिकरणम् (तत्प्रागधिकरणम्)}} | |||
{{Commentary | {{Commentary | ||
| Line 132: | Line 138: | ||
| verse_line1 = ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥ | | verse_line1 = ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V05| text = ‘नित्ययाऽनित्यया स्तौमि परमात्मानमच्युत्तम्’ इति । | |||
‘वाग्वाव नित्या न ह्येषोत्पद्यतेऽस्यां हि श्रुतिरवतिष्ठते’ इति सयुक्तिकं पौष्यायणश्रुतौ वाचोऽनुत्पत्तिरुच्यते । अतो ब्रवीति –}} | |||
{{AuthorNote| text = ॥ इति वागधिकरणम् (तत्पूर्वकत्वाधिकरणम्)॥}} | |||
{{Commentary | {{Commentary | ||
| Line 162: | Line 173: | ||
| verse_line1 = ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥ | | verse_line1 = ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V06| text = ‘सप्तप्राणाः प्रभवन्ति तस्मात्’ इति श्रुतिः। | |||
‘सप्तैव मारुता बाह्ये प्राणाः सप्त तथाऽऽत्मनि । अधिदैवे तथाऽध्यात्मे सङ्ख्यासाम्यं विदो विदुः’ इति च स्कान्दे। | |||
‘द्वादश वा एते प्राणा द्वादश मासा द्वादशादित्या द्वादशराशयो द्वादशग्रहाः’ इति कौण्डिण्यश्रुतौ द्वादशप्राणादृष्यन्ते । अतो वक्ति-}} | |||
{{Commentary | {{Commentary | ||
| Line 200: | Line 215: | ||
| verse_line1 = ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥ | | verse_line1 = ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति सप्तगत्यधिकरणम् ॥ 04 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 230: | Line 247: | ||
| verse_line1 = ॐ अणवश्च ॐ ॥ 08-279 ॥ | | verse_line1 = ॐ अणवश्च ॐ ॥ 08-279 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V08| text = ‘दिवीव चक्षुराततम्’ इति व्याप्तिः प्रतीयते ।दूरश्रवणदर्शनादियुक्तिश्च। | |||
अणुभिः पश्यत्यणुभिः कृणोति प्राणा वा अणवः प्राणैर्ह्येतद्भवति’ इति च कौण्डिन्यश्रुतिः । | |||
अतो वक्ति-}} | |||
{{AuthorNote| text = ॥ इति अण्व(णुत्वा)धिकरणम् ॥ 05 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 251: | Line 274: | ||
| verse_line1 = ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥ | | verse_line1 = ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V09| text = ‘नैष प्राण उदेति नास्तमेत्येकल एव मध्ये स्थाता । अथैनमाहुर्मध्यम इति’ इति मुख्यप्राणस्यानुत्पत्तिः श्रूयते । | |||
‘यत्प्राप्तिर्यत्परित्याग उत्पत्तिर्मरणं तथा । तस्योत्पत्तिर्मृतिश्चैव कथं प्राणस्य युज्यते’ ॥ इति च युक्तिर्वायुप्रोक्ते । | |||
‘आत्मत एष प्राणो जायते’ इति च । | |||
अत आह}} | |||
{{Commentary | {{Commentary | ||
| Line 271: | Line 299: | ||
| verse_line1 = ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥ | | verse_line1 = ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति मुख्यप्राणाधिकरणम् (श्रेष्ठाधिकरणम्)}} | |||
{{Commentary | {{Commentary | ||
| Line 314: | Line 344: | ||
| verse_line1 = ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥ | | verse_line1 = ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V11| text = ‘प्राणादिदमाविरासीत् प्राणो धत्ते प्राणे लयमभ्युपैति न प्राणः किञ्चिदाश्रितः’ इत्याग्निवेश्यश्रुतौ । | |||
‘यदाश्रयादस्य चेष्टा सोऽन्यं कथमुपाश्रयेत् । यथा प्राणस्तथा राजा सर्वस्यैकाश्रयो भवेत्’ इति च युक्तिर्भारते। | |||
‘प्राणस्यैतद्वशे सर्वं प्राणः परवशे स्थितः । न परः कञ्चिदाश्रित्य वर्तते परमो यतः’ इति पैङ्गिश्रुतिः । | |||
अत आह-}} | |||
{{Commentary | {{Commentary | ||
| Line 391: | Line 426: | ||
| verse_line1 = ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥ | | verse_line1 = ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति चक्षुराद्यधिकरणम् ॥ 07 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 422: | Line 459: | ||
| verse_line1 = ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥ | | verse_line1 = ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V13| text = ‘सर्वे वा एते मुख्यदासाः प्राणोऽपानो व्यान उदानः समान इति । ‘अथ प्राणो वाव सम्राट्’ इति कौण्डिन्यश्रुतिः । | |||
‘प्राणापानादयः सर्वे मुख्यदासा यतेऽनिशम् ।अतस्तदाज्ञया नित्यं स्वानि कर्माणि कुर्वते’ इति युक्तिर्वायुप्रोक्ते । | |||
‘मुख्यस्यैव स्वरूपाणि प्राणाध्याः पञ्चवायवः ।स एव प्राणिनां देहे पञ्चधा वर्ततेऽनिशम्’ इति च गौपमश्रुतिः । | |||
अतो वक्ति-}} | |||
{{AuthorNote| text = ॥ इति पञ्चवृत्त्यधिकरणम् ॥ 08 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 443: | Line 487: | ||
| verse_line1 = ॐ अणुश्च ॐ ॥ 14-285 ॥ | | verse_line1 = ॐ अणुश्च ॐ ॥ 14-285 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V14| text = ‘प्राण एवाधस्तात् प्राण उपरिष्ठात् प्राणो मध्यतः प्राणः सर्वतः प्राण एवेदं सर्वम्’ इति प्राणस्य व्याप्तिः प्रतीयते । | |||
‘यतः सर्वं जगद्व्याप्य तिष्ठति प्राण एव तु । अतो धृतं जगत् सर्वमन्यथा केन धार्यते’ इति च युक्तिर्वायुप्रोक्ते । | |||
‘अणुनैतत्सृज्यतेऽणुनैतद्धार्यते अणौ लयमभ्युपैति प्राणो वा अणुः प्राणो ह्येतद्भवति’ इति च सौत्रायणश्रुतिः ॥ | |||
अत आह –}} | |||
{{AuthorNote| text = ॥ इति प्राणाणुत्वाधिकरणम् ॥ 09 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 464: | Line 515: | ||
| verse_line1 = ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥ | | verse_line1 = ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V15| text = करणत्वं प्राणानामुक्तम् । | |||
‘जीवस्य करणान्याहुः प्राणानेतांस्तु सर्वशः।यस्मात् तद्वशगा एते दृश्यन्ते सर्वदेहिषु’ इति सौत्रायणश्रुतौ सयुक्तिकं जीवकरणत्वं प्रतीयते। | |||
‘ब्रह्मणो वा एतानि करणानि चक्षुः श्रोत्रं मनो वागिति तद्ध्येतैः कारयति’ इति काषायणश्रुतौ । अत आह –}} | |||
{{Commentary | {{Commentary | ||
| Line 483: | Line 538: | ||
| verse_line1 = ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥ | | verse_line1 = ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V16| text = कथं जीवकरणत्वश्रुतिरित्यतो वक्ति –}} | |||
{{Commentary | {{Commentary | ||
| Line 521: | Line 578: | ||
| verse_line1 = ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥ | | verse_line1 = ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति ज्योतिराद्यधिकरणम् ॥ 10 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 551: | Line 610: | ||
| verse_line1 = ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥ | | verse_line1 = ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V18| text = ‘अथेन्द्रियाणि प्राणा वा इन्द्रियाणि प्राणा हीदं द्रवन्ति’ इति सयुक्तिकपौत्रायणश्रुतिः सामान्येन प्राणानामिन्द्रियत्वं वक्ति । | |||
‘द्वादशैवेन्द्रियाण्याहुर्मनोबुद्धी तु द्वादश’ इति च काषायणश्रुतिः ।अतः कस्येन्द्रियत्वं निवार्यत इत्यतो वक्ति-}} | |||
{{Commentary | {{Commentary | ||
| Line 617: | Line 679: | ||
| verse_line1 = ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥ | | verse_line1 = ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥ | ||
}} | }} | ||
{{AuthorNote| text = ॥ इति इन्द्रियाधिकरणम् ॥ 11 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 638: | Line 702: | ||
| verse_line1 = ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥ | | verse_line1 = ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V21| text = ‘विरिञ्चो वा इदं सर्वं विरेचयति विदधाति ब्रह्मा वाव विरिञ्च एतस्माद्धीमे रूपनामानी’ इति गौपवनश्रुतिः ॥ | |||
‘यस्माद्विरेचयेत् सर्वं विरिञ्चस्तेन भण्यते ।एको हि कर्ता जगतो ब्रह्मैव च चतुर्मुखः’ इति च युक्तिर्ब्राह्मे । | |||
अथ कस्मादुच्यते परम इति परमाद्ध्येते नामरूपे व्याक्रियेते तस्मादेनमाहुः परम इति । अथ कस्मादुच्यते ब्रह्मेति बृहत्त्वाद् बृंहणत्वाच्च’ इत्याग्निवेश्यश्रुतिः । | |||
अत आह-}} | |||
{{AuthorNote| text = ॥ इति सङ्ज्ञाधिकरणम् ॥ 12 ॥}} | |||
{{Commentary | {{Commentary | ||
| Line 705: | Line 776: | ||
| verse_line1 = ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥ | | verse_line1 = ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V22| text = ‘अद्ब्यो हीदमुत्पद्यते आपो वाव मांसमस्थि च भवन्त्यापः शरीरमाप एवेदं सर्वम्’ इति कौण्डिन्यश्रुतिः । | |||
‘अम्मयं तु यतो मांसमतस्तृप्तिश्च मांसतः’ इति च भारते । | |||
‘पृथिवी शरीरमाकाशमात्मा’ इति च अतो ब्रवीति –}} | |||
{{Commentary | {{Commentary | ||
| Line 753: | Line 828: | ||
| verse_line1 = ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥ | | verse_line1 = ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥ | ||
}} | }} | ||
{{VerseSummary| verse_id = BS_C02_S04_V23| text = कथं तर्हि विशेषवचनमित्यत आह-}} | |||
{{AuthorNote| text = इति मांसा(ध्य)धिकरणम् ॥ 13 ॥}} | |||
{{AuthorNote| text = ॥ इति श्रीमद्ब्रह्मसूत्रे द्वितीयाध्यायस्य चतुर्थः पादः॥ 02-04 ॥}} | |||
{{AuthorNote| text = ॥इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रभाष्ये द्वितीयाध्यायः (अविरोधाध्यायः) ॥ 02 ॥}} | |||
{{Commentary | {{Commentary | ||
Revision as of 05:32, 8 April 2026
चतुर्थः पादः
युक्तिसहितश्रुतिविरोधं श्रुतीनामपाकरोत्यनेन पादेन ।
‘प्राणा एवेदमग्र आसुस्तेभ्यो भूतानि जज्ञिरे । भूतेभ्योऽण्डमण्डस्यान्तस्त्विमे लोकाः । अथ प्राणा एवानादयः प्राणा नित्याः’ इति काषायणश्रुतौ प्राणानामनुत्पत्तिः श्रूयते ।
‘नोपादानं हीन्द्रियाणामतोऽनुत्पत्तिरिष्यते । उपादानकृता सृष्टिः सर्वलोकेषु दृष्यते’ इति भविष्यत्पर्वणि ॥
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति च ।
अत उच्यते –
प्राणाधिकरणम्
ॐ तथा प्राणाः ॐ ॥ 01-272 ॥
यथाऽऽकाशादयः परमात्मन उत्पद्यन्ते तथा प्राणा अपि ॥ 01 ॥
ॐ गौण्यसम्भवात् ॐ ॥ 02-273 ॥
अनादित्वश्रुतिर्गौणानादित्वापेक्षया । मुख्यासम्भवात् ।
‘नित्यान्येतानि सौक्ष्म्येण हीन्द्रियाणि तु सर्वशः ।तेषां भूतैरुपचयः सृष्टिकाले विधीयते ।>परेण साम्यसम्प्राप्तेः कस्य स्यान्मुख्यनित्यता’ इति भविष्यत्पर्वणि ॥ 02 ॥
ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ 03-274 ॥
‘इदं सर्वमसृजत’ इति ॥ 03 ॥
मनोधिकरणम्
ॐ तत् प्राक्ष्रुतेश्च ॐ ॥ 04-275 ॥
‘मनः सर्वेन्द्रियाणि च’ इति पूर्वोक्तत्वान्नानुत्पत्तिर्मनसो युज्यते।
‘पूर्वं मनः समुत्पन्नं ततोऽन्येषां समुद्भवः ।
तदनुत्पत्तिवचनमल्पोपचयकारणात्’॥इति वायुप्रोक्तवचनं चशब्देन गृहीतम् ॥ 04 ॥
वागधिकरणम्
ॐ तत्पूर्वकत्वाद्वाचः ॐ॥ 05-276 ॥
‘तस्मान्मन एव पूर्वरूपं वागुत्तररूपम्’ इति मनःपूर्वकत्वाद्वाचो नानुत्पत्तिः ।
‘वागिन्द्रियस्य नित्यत्वं श्रुतिसन्निधियोग्यता ।उत्पत्तिर्मनसो यस्मान्न नित्यत्वं कुतश्चन’ इति वायुप्रोक्ते ॥ 05 ॥
सप्तगत्यधिकरणम्
ॐ सप्तगतेर्विशेषितत्वाच्च ॐ ॥ 06-277 ॥
ज्ञानेन्द्रियापेक्षया सप्तत्वम् ।’गुहाशयां निहिताः सप्त सप्त’ इति विशेषणात्।
‘सप्तप्राणास्त्ववगतेः पञ्चप्राणाश्च कर्मणः ।
एवं प्राणद्वादशकं शरीरे नित्यसंस्थितम्’ ।
इति भविष्यत्पर्ववचनं चशब्दात् ॥ 06 ॥
ॐ हस्तादयस्तुस्थितेऽतो नैवम् ॐ ॥ 07-278 ॥
हस्तादीनां कर्मविषयत्वान्न सहपाठः।
‘संसारस्थितिहेतुत्वात् स्थितं कर्म विदो विदुः ।तस्मादुद्गतिहेतुत्वाज्ज्ञानं गतिरिहोच्यते’ इति वायुप्रोक्ते ॥ 07 ॥
अण्व(णुत्वा)धिकरणम्
ॐ अणवश्च ॐ ॥ 08-279 ॥
‘तद्यथा ह्यणुनश्चक्षसः प्रकाशो व्यातत एवमेवास्य पुरुषस्य प्रकाशो व्याततोऽणुर्ह्येवैष पुरुषो भवति’ इति शाण्डिल्यश्रुतिः॥ 08 ॥
मुख्यप्राणाधिकरणम्
ॐ श्रेष्ठश्च ॐ ॥ 09-280 ॥
‘सौक्ष्म्येण ह वा एषोऽवतिष्ठते स्थूलत्वेनोदेति सूक्ष्मश्चाथो स्थूलश्च प्रकृतितः सूक्ष्मोऽन्यतः स्थूलोऽथैनमाहुः सादिरनादिरिति’
इति गौपवनश्रुतेः ॥ 09 ॥
ॐ न वायुक्रिये पृथुगुपदेशात् ॐ ॥ 10-281 ॥
‘चेष्टायां बाह्यवायौ च मुख्यप्राणे च गीयते ।
प्राणशब्दस्त्रिषु ह्येषु मुखे मुख्यः प्रकीर्तितः’
इति वायुक्रिययोरपि व्यपदेशादुत्पत्तिश्रुतिस्तयोर्न स्यात् ।
‘स प्राणमसृजत’ …‘खं वायुर्ज्योतिरापः..’, ‘तपो मन्त्राः कर्म’ इति पृथगुपदेशात् ।
‘भूतानि चेष्टा मन्त्राश्च मुख्यप्राणादिदं जगत् ।
मुख्यप्राणः परस्माच्च न परः कारणान्वितः’इति वायुप्रोक्ते ॥ 10 ॥
चक्षुराद्यधिकरणम्
ॐ चक्षुरादिवत् तु तत्सहशिष्ट्यादिभ्यः ॐ ॥ 11-282 ॥
चक्षुरादिवन्मुख्यप्राणोऽपि परमात्मवश एव ।
‘सर्वं ह्येवैतत् परमेऽवतिष्ठते प्राणश्च प्राणाश्च प्राणिनश्च स ह्येक एवैतान्नयत्युन्नयति वशीकरोति’
इति गौपवनश्रुतौ चक्षुरादिभिः सह तद्वशत्वेनैव शासनात् ।
‘सर्वकर्ताऽपि सन् प्राणः परमाधारतः स्थितः ।
कथमेवान्यथा न स्याद्यतो नैवेश्वरद्वयम् ।
अवान्तरेश्वरत्वेन तस्येश्वरवचो भवेत् ।
अतो मध्यमतामाहुस्तस्य वेदेषु वेदिनः ।
अनन्येश्वरता प्राणे तदन्येश्वरवर्जनात् ।
यतो विशेषवाक्येन ह्रियते समतावचः’ ।
‘नान्योऽतोऽस्तिद्रष्टा’’नान्यदतोऽस्ति द्रष्टृ’
इत्यादिवचनयुक्तय आदिशब्दोक्ताः ॥ 11 ॥
ॐ अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॐ ॥ 12-283 ॥
इतरेषां प्राणानां करणत्वान्मुख्यस्याकरणत्वात् तस्यानेभ्य उत्तमत्वं युज्यते ।
माण्डव्यश्रुतिश्च
‘तानि ह वा एतानि सर्वाणि करणान्यथ प्राण एवाकरणस्तस्मान्मुख्यस्तस्मान्मुख्य इत्याचक्षते’ इति ॥ 12 ॥
पञ्चवृत्त्यधिकरणम्
ॐ पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॐ ॥ 13-284 ॥
‘अथ पञ्चवृत्तैतत्प्रवर्तते प्राणा वाव पञ्चवृत्तिः प्राणोऽपानो व्यान उदानः समान इति । तेभ्यो वा एतेभ्यः पञ्चदासाः प्रजायन्ते । प्राणाद्वाव प्राणेऽपानादपानो व्यानाद्व्यान उदानादुदानः समानादेव समानो यथा ह वै मनः पञ्चधा व्यपदिश्यते मनोबुद्धिरहङ्कारश्चित्तं चेतनेति । तेभ्यो वा एतेभ्यः पञ्च दासाः प्रजायन्ते । मनसो वाव मनो बुद्धेर्बुद्धिरहङ्कारादहङ्कारश्चित्ताच्छित्तं चेतनाया एव चेतनैवमिति’ इति
प्राणाणुत्वाधिकरणम्
ॐ अणुश्च ॐ ॥ 14-285 ॥
स वा एष प्राणोऽणुर्महान्नामाऽन्तर्वाऽणुर्बर्हिर्महान् प्राणो वा ईशितव्येश ईशो ह्यसौ सर्वस्येशितव्यश्च परस्य’ इति हि कौण्डिन्यश्रुतिः ॥ 14 ॥
ज्योतिराद्यधिकरणम्
ॐ ज्योतिराद्यधिष्ठानं तु तदामननात् ॐ ॥ 15-286 ॥
यज्ज्योतिराद्यधिष्ठानं ब्रह्म तदेवैतैः करणैः प्रवर्तयति। ‘यः प्राणे तिष्ठन्’ इत्यादि तदामननात् ॥ 15 ॥
ॐ प्राणवता शब्दात् ॐ ॥ 16-287 ॥
जीवेनैव स्वकरणैः कारयति परमात्मा । अतो न विरोधः । एष ह्यनेनात्मना चक्षुषा दर्शयति श्रोत्रेण श्रावयति मनसा मनयति बुद्ध्या बोधयति तस्मादेतावाहुः सृतिरसृतिरिति’ इति भाल्लवेयश्रुतेः ।
‘करणैः कारणं ब्रह्म पुरुषापेक्षयाऽखिलम् ।
श्रोत्रादिभिः कारयति करणानीत्यतो विदुः ।
न जीवापेक्षया मुख्यं कारयेत् परमेश्वरः ।केवलात्मेच्छया तस्मान्मुख्यत्वं तस्य निश्चितम्’ इति वाराहे ॥ 16 ॥
ॐ तस्य च नित्यत्वात् ॐ ॥ 17-288 ॥
अनादिनित्यत्वाज्जीवकरणसम्बन्धस्य युज्यते तत्करणत्वश्रुतिः ।’अथावियोगीनि । करणैर्र्वाव न वियुज्यते देहेनैव वियुज्यत इत्येतद्वाव करणानां करणत्वं यद्वाव न वियुज्यते’ इति गौपवनश्रुतिः ।
चशब्दः करणसम्बन्धग्राही ॥ 17 ॥
इन्द्रियाधिकरणम्
ॐ त इन्द्रियाण् तद्व्यपदेशादन्यत्र श्रेष्ठात् ॐ ॥ 18-289 ॥
मुख्यप्राणमृते त एवेन्द्रियाणि ।
‘द्वादशैवेन्द्रियाण्याहुः प्राणो मुख्यस्त्वनिन्द्रियम् ।द्रवतां हीन्द्रियाणां तु नियन्ता प्राण एकराट्’ इति पौत्रायणश्रुतिः ।
‘श्रोत्रादीनि तु पञ्चैव तथा वागादिपञ्चकम् ।
मनोबुद्धिसहायानि द्वादशैवेन्द्रियाणि तु ।
विषयद्रवणात् तेषामिन्द्रियत्वमुदाहृतम् ।तेषां नियामकः प्राणः स्थित एवाखिलप्रभुः’इति बृहत्संहितायाम् ॥18॥
ॐ भेदश्रुतेः ॐ ॥ 19-290 ॥
‘स्थित एव हीदं मुख्यप्राणः करोति कारयति बलति बालयति धत्ते धारयति प्रभुं वा एनमाहुरथेन्द्रियाणि न स्थितानि न कुर्वन्ति न कारयन्ति न बलन्ति न बालयन्ति न दधते न धारयन्ति तानि ह वा एतान्यबलानि तस्मादाहुरिन्द्रियाणि करणानि’ इति पौत्रायणश्रुतेः ॥ 19 ॥
ॐ वैलक्षण्याच्च ॐ ॥ 20-291 ॥
पुरुषापेक्षया प्रवृत्तिरिन्द्रियाणां दृष्यते न मुख्यस्य । ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रति’ इति च श्रुतेः ॥ 20 ॥
सङ्ज्ञाधिकरणम्
ॐ सङ्ज्ञामूर्तिक्लृप्तिस्तुत्रि वृत्कुर्वत उपदेशात् ॐ॥ 21-292 ॥
नामरूपक्लृप्तिः परादेव।
‘सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन् य आस्ते’ इति श्रुतेः।
त्रिवृत्कुर्वत इति हेतुगर्भः । त्रिवृत्करणापेक्षत्वान्नामरूपयोः ॥
‘सर्वनाम्नां च रूपाणां व्यवहारेषु केशवः ।एक एव यतः स्रष्टा ब्रह्माद्यास्तदवान्तराः’ इति च पाद्मे ॥
‘त्रिवृत्क्रिया यतो विष्णो रूपं च तदपेक्षया ।
रूपापेक्षं तथा नाम व्यवहारस्तदात्मकः ॥
अतो नाम्नश्च रूपस्य व्यवहारस्य चैकराट् ।हरिरेव यतः कर्ता पिताऽतो भगवान् प्रभुः’इति च ब्रह्माण्डे ॥ 21 ॥
मांसा(ध्य)धिकरणम्
ॐ मांसादि भौमं यथाशब्दमितरयोश्च ॐ ॥ 22-293 ॥
‘यत् कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत् तेजः’ इति श्रुतेर्मांसाद्येव भौमं न सर्वशरीरम्। अप्तेजसोश्च कार्यं यथाशब्दमङ्गीकर्तव्यम् ॥
‘यद्वा वाऽथो विमिश्रं मिश्राद्ध्येतद्भवति मिश्राणि हि भूतानि तस्मादेवैवमाचक्षते भूतानि’
इति हि काषायणश्रुतिः ।
‘पञ्चभूतात्मकं सर्वं तदप्येकविवक्षया ।
एकभूतात्मकत्वेन व्यवहारस्तु वैदिके ।
भौममित्येव काठिन्याच्छौक्ल्यादौदकमित्यपि ।तेजिष्टत्त्वात् तैजसं च यथाऽस्थ्नां वचनं श्रुतौ’इति वायुप्रोक्ते ॥22॥
ॐ वैशेष्यात् तु तद्वादस्तद्वादः ॐ ॥ 23-294 ॥
भूतानां विशेषसंयोगादेव विशेषव्यवहारः ।
‘पार्थिवानां शरीराणामर्धेन पृथिवी स्मृताः ।
इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तुभागतः ॥
इति सामान्यतो ज्ञेयं भेदश्च प्रतिपूरुषम् ।स्वर्गस्थानां शरीराणामर्धं तेज उदाहृतम्’इति च ब्रह्मसंहितायाम् ॥
सर्वाध्यायार्थावधारणार्थऽध्यायान्ते द्विरुक्तिः।
गारुडे च-
‘अध्यायान्ते द्विरुक्तिः स्याद्वेदे वा वैदिकेऽपि वा ।
विचारो यत्र सज्ज्येत पूर्वोक्तस्यावधारणे ॥
अनुक्तानां प्रमाणानां स्वीकारश्च कृतो भवेत् ।
विनिन्द्य चेतरान् मार्गान् सम्पूर्णफलता तथा ॥ इति ॥ 23 ॥