Aitareya/C2/S7: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 9: | Line 9: | ||
}} | }} | ||
== सप्तमोऽध्यायः == | == सप्तमोऽध्यायः == | ||
{{VerseBlock | |||
| verse_id = AIT_C02_S07_V01 | |||
| document_id = AIT | |||
| chapter_id = AIT_C02 | |||
| section_id = AIT_C02_S07 | |||
| adhikarana = | |||
| verse_type = mantra | |||
| verse_line1 = ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ | |||
}} | |||
{{AuthorNote| text = ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमन्महैतरेयोपनिषद्भाष्ये द्वितीयारण्यके सप्तमोऽध्यायः ॥ ॥ इति द्वितीयारण्यकः समाप्तः॥}} | |||
{{Commentary | |||
| verse_id = AIT_C02_S07_V01 | |||
| id = AIT_C02_S07_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
वाङ्मे मनसि प्रतिष्ठिता । अवबोधरूपे विष्णौ प्रतिष्ठिता । स च विष्णुर्मे वाचि स्थितः । यदेतद्धृदयं मनश्चेति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि हे विष्णो ममाविराविर्भव । आणीस्थित आण्यां स्थित विष्णो इति सम्बोधनम् । | |||
}} | |||
{{Commentary | |||
| verse_id = AIT_C02_S07_V01 | |||
| id = AIT_C02_S07_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
आधारः सर्ववेदानां वेदाणी प्राण उच्यते । | |||
तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥ | |||
इति शब्दतत्त्वे । | |||
}} | |||
{{Commentary | |||
| verse_id = AIT_C02_S07_V01 | |||
| id = AIT_C02_S07_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
आविरावीरिति दैर्घ्यमतिशयार्थे । आधिक्येऽधिकमिति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव । हे विष्णो अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि । सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः । ऋतं यथावदवगतं त्वां वदिष्यामि । सत्यं साधुगुणैस्ततं सर्वनियन्तारं च । तद्विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् । | |||
}} | |||
{{Commentary | |||
| verse_id = AIT_C02_S07_V01 | |||
| id = AIT_C02_S07_V01_B01 | |||
| name = Bhashyam | |||
| label = Bhashyam | |||
| text = | |||
वाङ्म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् । | |||
अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ॥ इति च ॥ | |||
}} | |||
[[Category:Aitareya]] | [[Category:Aitareya]] | ||
Revision as of 05:32, 8 April 2026
सप्तमोऽध्यायः
ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥
वाङ्मे मनसि प्रतिष्ठिता । अवबोधरूपे विष्णौ प्रतिष्ठिता । स च विष्णुर्मे वाचि स्थितः । यदेतद्धृदयं मनश्चेति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि हे विष्णो ममाविराविर्भव । आणीस्थित आण्यां स्थित विष्णो इति सम्बोधनम् ।
आधारः सर्ववेदानां वेदाणी प्राण उच्यते ।
तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥इति शब्दतत्त्वे ।
आविरावीरिति दैर्घ्यमतिशयार्थे । आधिक्येऽधिकमिति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव । हे विष्णो अनेन त्वद्विषयेणैवाधीतेनाहोरात्रान् सन्दधामि । सर्वाहोरात्रेष्वपि त्वद्विषयाध्ययनमेव करोमीत्यर्थः । ऋतं यथावदवगतं त्वां वदिष्यामि । सत्यं साधुगुणैस्ततं सर्वनियन्तारं च । तद्विष्ण्वाख्यं ब्रह्म मामवत्विति तस्यैव विष्णोः परोक्षत्वेनैव प्रार्थनम् ।
वाङ्म इत्यादिकं खण्डं विष्णुप्रार्थनरूपकम् ।
अविघ्नत्वमभीप्सूनां शिष्याणां दृष्टवान् हरिः ॥ इति च ॥