Jump to content

ब्रह्मसूत्रभाष्यम्/C02/S01/A010: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:10, 2 March 2026

वैषम्यनैर्घृण्याधिकरणम्

सर्वकर्तृत्वे वैषम्यनैर्घृण्ये तस्येत्यतो वक्ति-


ॐ वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति ॐ ॥ 35-170॥


कर्मापेक्षया फलदातृत्वान्न तस्य वैषम्यनैर्घृण्ये । ‘पुण्येन पुण्यं लोकं नयति पापेन पापम्’ इति श्रुतिः ॥ 35 ॥


ॐ न कर्माविभागादिति चेन्नानादित्वात् ॐ ॥ 36-171 ॥


यदपेक्षयाऽसौ फलं ददाति न तत् कर्म ।


‘एष ह्येवैनं साधुकर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष उ एवासाधुकर्म कारयति तं यमधो निनीषते’ इति श्रुतेः कर्मणोऽपि तन्निमित्तत्वादिति चेन्न । तस्यापि पूर्वकर्म कारणमित्यनादित्वात् कर्मणः । भविष्यत्पुराणे च –


‘पुण्यपापादिकं विष्णुः कारयेत् पूर्वकर्मणा । अनादित्वात् कर्मणश्च न विरोधः कथञ्चन’ इति ॥ 36 ॥


ॐ उपपद्यते चाप्युपलभ्यते च ॐ॥ 37-172 ॥


न च कर्मापेक्षत्वेनेश्वरस्यास्वातन्त्र्यम् ।


‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया’ ॥


इत्यादिना कर्मादीनां सत्त्वस्यापि तदधीनत्वात् । न च पुनर्वैषम्याध्यापेते न दोषः । तादृशवैषम्यादेरुपलभ्यमानत्वात् ।


‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशिताऽपि ।

ईशो यत्रो गुणदोषादिसत्त्वे स्वयं परोऽनादिरादिः प्रजानाम्’

इति चतुर्वेदशिखायाम् ॥ 37 ॥