Jump to content

ब्रह्मसूत्रभाष्यम्/C01/S03: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
(No difference)

Revision as of 10:10, 2 March 2026

तृतीयः पादः

द्युभ्वाधिकरणम्

तत्र चान्यत्र च प्रसिद्धानां शब्दानां विष्णौ समन्वयं प्रायेणास्मिन् पादे दर्शयति ।


ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥ 01-64 ॥


‘तमेवैकं जानथ आत्मानम्’इत्यात्मशब्दात् द्युभ्वाद्याश्रयो विष्णुरेव ।


‘आत्मब्रह्मादयः शब्दास्तमृते विष्णुमव्ययम् ।


न सम्भवन्ति यस्मात् तैर्नैवाप्तागुणपूर्णता’ इति ब्रह्मवैवर्ते ॥ 1 ॥


ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥ 02-65 ॥


‘अमृतस्यैष सेतुः’ इति ‘ब्रह्मविदाप्नोति परम्’,‘नारायणं महाज्ञेयं विश्वात्मानं परायणम्’ ,‘मुक्तानां परमा गतिः’ ‘एतमानन्दमयमात्मानमुपसङ्क्रामति’ इत्यादिना तस्यैव मुक्तप्राप्यत्वव्यपदेशात् ।


‘बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति ।


योगी तावन्न मुक्तः स्यादेष शास्त्रनिर्णयः’॥ इत्यादित्यपुराणे ॥ 2 ॥


ॐ नानुमानमतच्छब्दात् ॐ ॥ 03-66 ॥


नानुमानात्मकागमपरिकल्पितरुद्रोऽत्र वाच्यः । भस्मधरोग्रत्वादितच्छब्दाभावात् ।



‘रुजं द्रावयते यस्माद्रुद्रस्तस्माज्जनार्दनः । ईशानादेव चेशानो महैदेवो महत्त्वतः ॥


पिबन्ति ये नरा नाकं मुक्ताः संसारसागरात् । तदाधारो यतो विष्णुः पिनाकीति ततः स्मृतः॥


शिवः सुखात्मकत्वेन शर्वः शंरोधनाद्धरिः । कृत्यात्मकमिदं देहं यतो वस्ते प्रवर्तयन् ॥


कृत्तिवासास्ततो देवो विरिञ्चश्च विरेचनात् । बृंहणाद्ब्रह्मनामाऽसावैश्वर्यादिन्द्र उच्यते ॥


एवं नानाविधैः शब्दैरेक एव त्रिविक्रमः । वेदेषु सपुराणेषु गीयते पुरुषोत्तमः’ इति ।


वामने च –



स्कान्दे च –


‘ऋते नारायणादीनि नामानि पुरुषोत्तमः । प्रादादन्यत्र भगवान् राजेवर्ते स्वकं पुरम्’इति


‘चतुर्मुखः शतानन्दो ब्रह्मणः पद्मभूरिति । उग्रो भस्मधरो नग्नः कपालीति शिवस्य च ।


विशेषनामानि ददौ स्वकीयान्यपि केशवः’इति च ब्राह्मे ॥ 3 ॥


ॐ प्राणभृच्च ॐ ॥ 04-67 ॥


एतैरेव हेतुभिर्न जीवो वायुश्च । ‘अजायमानो बहुधा विजायत’ इति तस्यैव बहुधा जन्मोक्तेः ॥ 04॥


ॐ भेदव्यपदेशात् ॐ ॥ 05-68 ॥


न चैक्यं वाच्यम् । ‘जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानम्’ इति भेदव्यपदेशात् ॥ 05 ॥


ॐ प्रकरणात् ॐ ॥ 06-69 ॥


‘द्वे विद्ये वेदितव्ये’ इति तस्य ह्येतत् प्रकरणम् ॥ 06 ॥


ॐ स्थित्यदनाभ्यां च ॐ ॥ 07-70 ॥


‘द्वासुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।

तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्ननन्यो अभिचाकशीति’

इति ईशजीवयोः स्धित्यदनोक्तेः ॥ 07 ॥


भूमाधिकरणम्

‘प्राणो व अशाया भूयान्’ इत्युक्त्वा’ यो वै भूमा तत्सुखम्’ । इत्युक्तेस्यैव भूमत्वप्राप्तिः । ‘उत्क्रान्तप्राणान्’ इत्यादिलिङ्गात् प्राणशब्दश्च वायुवाचीत्यतो वक्ति –


ॐ भूमा सम्प्रसादादध्युपदेशात् ॐ ॥ 08-71 ॥


‘सम्प्रसादात्’ पूर्णसुखरूपत्वात् ‘अध्युपदेशात्’ सर्वेशामुपर्युपदेशाच्च विष्णुरेव भूमा ।



‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति’ इत्यादिना नोत्क्रमणादिलिङ्गविरोधोऽपि ॥08॥


ॐ धर्मोपपत्तेश्च ॐ ॥ 09-72 ॥


सर्वगतत्वादिधर्मोपपतेश्च ॥09॥


अक्षराधिकरणम्

अदृश्यत्वादिगुणा विष्णोरुक्ताः’ अदृष्टं द्रष्ट्रश्रुतं श्रोतृ’ इत्यादिना । ‘अहं सोममाहनसं भिभर्मि’ इत्यादेस्तस्यापि सम्भवान्मध्यमाक्षरस्योक्ता इत्यतो ब्रूते –


ॐ अक्षरमम्बरान्तधृतेः ॐ ॥ 10-73 ॥


‘एतस्मिन् खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’ इत्यम्बरान्तस्य सर्वस्य धृतेर्ब्रह्मैवाक्षरम् ।


‘य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा’ ‘भर्ता सन् भ्रियमाणो बिभर्ति । एको देवो बहुधा निविष्टः । यदा भारं तन्द्रयते स भर्तुम् । पराऽस्य भारं पुनरस्तमेति’ । ‘यस्मिन्निदं सञ्च वि चैदि सर्वं यस्मिन् देवा अधि विश्वे निषेदुः’ इत्यादि श्रुतेः ।



ॐ सा च प्रशासनात् ॐ ॥ 11-74 ॥


सा च धृतिः प्रशासादुच्यते ।’ एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ इत्यादिना । तच्च प्रशासनं विष्णोरेव ।


‘सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’ । चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतीरवीविपत्’ इत्यादिश्रुतेः ।


‘एकः शास्ता न द्वितीयोऽस्ति शास्ता’।

यो हृच्छयस्तमहमिह ब्रवीमि’

‘न केवलं मे भवतश्च राजन् स वै बलं बलीनां चापरेषाम्’इत्यादेश्च ॥ 11 ॥


ॐ अन्यभावव्यावृत्तेश्च ॐ ॥ 12-75 ॥


‘अस्थूलमनणु’ इत्यादिना स्थूलाण्वादीनामन्यवस्तुस्वभावानां व्यावृत्तेश्च।


‘अस्थूलोऽनणुरमध्यमो मध्यमोऽव्यापको व्यापको योऽसौ हरिरादिरनादिरविश्वो विश्वः सगुणो निर्गुणः’ इत्यादेर्विष्णोरेव ते धर्माः ।



सदधिकरणम्

‘सदेव सोम्येदमग्र आसीत्’ इत्यादिना सतः स्रष्टृत्वमुच्यते । तच्चसत्’बहुस्यां प्रजायेय’ इति परिणामप्रतीतेर्न विष्णुः । स हि


ॐ ईक्षतिकर्मव्यपदेशात् सः ॐ ॥ 13-76 ॥


‘तदैक्षत’ इतीक्षतिकर्मव्यपदेशात् स एव विष्णुरत्रोच्यते ।


‘नान्योऽतोऽस्ति द्रष्टा’,’नान्यदतोऽस्ति द्रष्ट्रु’ इत्यादिना तस्यै व हि तल्लक्षणम् ।


बहुत्वं चानिकारेणैवोक्तं’अजायमानो बहुधा विजायत’ इति ॥13॥


दहराधिकरणम्

चन्द्रादित्याद्याधारत्वं विष्णोरुक्तम् । तच्च’अथ यदिदमस्मिन् ब्रह्म पुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाशः’……’ किं तदत्र विद्यते…..’


ॐ दहर उत्तरेभ्यः ॐ ॥ 14-77 ॥


‘य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः सोऽन्वेष्टव्य स विजिज्ञासितव्यः’ इत्यादिभ्य उत्तरेभ्यो गुणेभ्यो दहरे विष्णुरेव ।


‘योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’

‘स एष सर्वेभ्यः पाप्मभ्य उदितः’

इत्यादिना विष्णोरेव हि ते गुणाः ।



सापेक्षनिरपेक्षयोश्च निरपेक्षं स्वीकर्तव्यम् ॥



ॐ गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॐ ॥ 15-78 ॥


अहरहर्गच्छन्त्य एतं ब्रह्मलोकं न विन्दन्ति’ इति सुप्तस्य तद्गतिर्ब्रह्मशब्दश्चोच्यते ।


‘सता सोम्य तदा सम्पन्नो भवति’ इति श्रुतेस्तं हि सुप्तो गच्छति । ‘अरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके’ इति लिङ्गं च तथा दृष्टम् ।


‘अरश्च वै ण्यश्च सासमुद्रौ तत्रैव सर्वाभिमतप्रदौ द्वौ’ इत्यादिना तस्यैव हि तल्लक्षणत्वेनोच्यते ॥ 15 ॥


ॐ धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॐ ॥ 16-79 ॥


‘एष सेतुर्विधृतिः’ इति धृतेः’एष भूताधिपतिरेण भूतपालः’इत्याद्यस्य महिम्नोऽस्मिन्नुपलब्धेः ।


‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च’

‘एतस्य वा अक्षरस्य प्रशासने गार्गि’

‘स हि सर्वाधिपतिः स हि सर्वकालः स ईशः स विष्णुः’

‘पतिं विश्वस्यात्मेश्वरम्’ इत्यादिश्रुतिभ्यस्तस्य ह्येष महिमा ।



ॐ प्रसिद्धेश्च ॐ ॥ 17-80 ॥


‘तत्रापि दह्रं गगनं विशोकस्तस्मिन् यदन्तस्तुदुपासितव्यम्’ इति प्रसिद्धेश्च । तदन्तस्थापेक्षत्वान्न सुषिरश्रुतिविरोधः ॥17॥


ॐ इतरपरामर्शात् स इति चेन्नासम्भवात् ॐ ॥ 18-81 ॥


‘परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्टद्यते’ ‘एष आत्मेति होवाच’ इति जीवपरामर्शात् स इति चेन्न ।


तस्य स्वतोऽपहतपाप्मत्वाद्यसम्भवात् ॥ 18 ॥


ॐ उत्तराच्चेदाविर्भूतस्वरूपस्तु ॐ ॥ 19-82 ॥


‘स तत्र पर्येति जक्षन् क्रीडन् रममाणः’ इत्यादुत्तरवचनाज्जीव एवेति चेन्न । तत्र हि परमेश्वरप्रसादादाविर्भूतस्वरूपो मुक्त उच्यते।यत्प्रसादात् स मुक्तो भवति स भगवान् पूर्वोक्तः॥19 ॥


ॐ अन्यार्थश्च परामर्शः ॐ ॥ 20-83 ॥


‘यं प्राप्य स्वेन रूपेण जीवोऽभिनिष्पद्यते स एष आत्मा’ इति परमात्मार्थश्च परामर्शः ॥ 20 ॥


ॐ अल्पश्रुतेरिति चेत् तदुक्तम् ॐ ॥ 21-84 ॥


‘दहर’ इत्यल्पश्रुतेर्नेति चेन्न ।’निचाय्यत्वादेवं व्योमवच्च’ इत्युक्व्तात् ‘एष म आत्माऽन्तर्हृदये ज्यायन्’ इति श्रुत्युक्तत्वाच्च ॥ 21 ॥


अनुकृत्यधिकरणम्

अदृश्यत्वादयः परमेश्वरगुणा उक्ताः । ‘तेषां सुखं शाश्वतं नेतरेषाम्’ ‘तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम्’ इत्यादिना ज्ञानिसुखस्याप्यनिर्देश्यत्वमज्ञेयत्वं चोच्यत इत्यतो वक्ति-


ॐ अनुकृतेस्तस्य च ॐ ॥ 22-85 ॥


‘तमेव भान्तमनुभाति सर्वम्’ इत्यनुकृतेः,


‘तस्य भासा सर्वमिदं विभाति’ इति वचनाच्च परमात्मैवानिर्देश्यसुखरूपः ।


न हि ज्ञानिसुखमनुभाति सर्वम् । न च तद्भासा । ‘अहं तत्तेजो रश्मीन्’ इति नारायणभासा हि सर्वं भाति ॥ 22 ॥


ॐ आपि स्मर्यते ॐ ॥ 23-86 ॥


‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ इति


‘न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम’ इति च ॥ 23 ॥


वामनाधिकरणम्

विष्णुरेव जिज्ञास्य इत्युक्तम् । तत्र


ॐ शब्दादेव प्रमितः ॐ ॥ 24-87 ॥


वामनशब्दादेव विष्णुरिति प्रमितः । न हि श्रुतेर्लिङ्गं बलवत् ।



तच्चलिङ्गं विष्णोरेव। तस्मैव प्राणत्वोक्तेः’तद्वैत्वं त्वं प्राणो अभवः’ इति ॥ 24 ॥


ॐ हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॐ ॥ 25-88 ॥


सर्वगतस्यापि तस्याङ्गुष्ठमात्रत्वं हृद्यवकाशापेक्षया युज्यते । इतरप्राणिनामङ्गुष्ठाभावेऽपि मनुष्याधिकारत्वान्न विरोधः ॥ 25 ॥


देवताधिकरणम्

मनुष्याणामेव वेदविद्यायामधिकार इत्युक्तम् । तिर्यगाद्यपेक्षयैव मनुष्यत्वविशेषणमुक्तं, न तु देवाद्यपेक्षयेत्याह-


ॐ तदुपर्यपि बादरायणः सम्भवात् ॐ ॥ 26-89 ॥


तदुपरि मनुष्याणां सतां देवादित्वप्राप्युपरि । सम्भवति हि तेषां विशिष्टबुद्ध्यादिभावात् । तिर्यगादीनां तदभावादभावः । तेषामपि यत्र विशिष्टबुद्ध्यादिभावस्तत्राविरोधः । निषेदभावात् । दृश्यन्ते हि जरितार्यादयः ॥ 26 ॥


ॐ विरोधः कर्मणेति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॐ॥ 27-90 ॥


मानुषा एव देवादयो भवन्तीति तदुपरीत्युक्तम् । तत्र यदि मनुष्याः सन्तो देवादयो भवन्ति तत्पूर्वं देवताभावाद्देवतोद्दिष्टकर्मणि विरोध इति चेन्न । अनेकेषां देवतापदप्राप्तेर्दर्शनात् । ‘ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः’ इति ॥27॥


ॐ शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् ॐ ॥ 28-91 ॥


‘वाचा विरूप नित्यया’ इत्यादिश्रुतेराप्त्यनिश्चयान्नित्यत्वापेक्षत्वाच्च मूलप्रमाणस्य, स्वतः प्रामाण्यप्रसिद्धेश्च नित्यत्वाद्वेदस्य तदुदितानां देवानामनित्यत्वात् पुनरन्यभावनियमाभावाच्च शब्दे विरोध इति चेन्न ।


‘सूर्याचन्द्रमसौ धाता यथा पूर्वमकल्पयत्’


‘यथैव नियमः काले सुरादिनियमस्तथा ।

तस्मान्नानीदृशं क्वापि विश्वमेतद्भविष्यति’ ॥

इत्यादेरत एव शब्दात् तेषां प्रभवनियमात्,महतां प्रत्यक्षात् । यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनुमानाच्च ॥ 28 ॥


ॐ अत एव च नित्यत्वम् ॐ ॥ 29-92 ॥


अत एव शब्दस्य नित्यत्वादेव च देवप्रवाहनित्यत्वं युक्तम् ॥ 29 ॥


ॐ समाननामरूपत्वाच्चावृत्तावप्यविरोधो दर्शनात् स्मृतेश्च ॐ ॥ 30-93 ॥


अतीतानागतानां देवानां समाननामरूपत्वात् प्राप्तपदानां मुक्त्याऽवृत्तावप्यविरोधः । ‘यथापूर्वम्’ इति दर्शनात् ।


‘अनादि निधना नित्या वागुत्सृष्टा स्वयम्भुवा । ऋषीणां नामधेयानि याश्च वेदेषु दृष्टयः ।


वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः’ इति स्मृतेश्च ॥30॥


ॐ मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॐ ॥ 31-94॥


‘वसूनामेवैको भूत्वा’ इत्यादिना प्राप्यफलत्वात् प्राप्तपदानां देवानां मध्वादिविद्यास्वनधिकारं जैमिनिर्मन्यते ॥ 31 ॥


ॐ ज्योतिषि भावाच्च ॐ ॥ 32-95॥


ज्योतिषि सर्वज्ञत्वे भावाच्च। आदित्यप्रकाशेऽन्तर्भाववत् तज्ज्ञाने सर्ववस्तूनामान्तर्भावात् । नित्यसिद्धत्वाच्च विध्यानाम् ॥ 32 ॥


ॐ भावं तु बादरायणोऽस्ति हि ॐ ॥33-96॥


फलविशेषभावात् प्राप्तपदानामपि देवानां मध्वादिष्वप्यधिकारं बादरायणो मन्यते । अस्ति हि प्रकाशविशेषः ।



उक्तफलानधिकारमात्रं जैमिनिमतम् । अतो न मतविरोधः ।



अपशूद्राधिकरणम्

मनुष्याधिकारत्वादित्युक्तेऽविशेषाच्छूद्रस्यापि’अह हारे त्वा शूद्र’ इति पौत्रायणोक्तेरधिकार इत्यत आह –


ॐ शुगस्य तदनादरश्रवणात् तदाऽऽद्रवणात् सूच्यते हि ॐ ॥34-97॥


नासौ पौत्रायणः शूद्रः, शुचाऽऽद्रवणमेव शूद्रत्वम् । ‘कम्वर एनमेतत्सन्तम्’ इत्यनादरश्रवणात् ।


‘स ह सञ्ञिहान एव क्षत्तारमुवाच’ इति सूच्यते हि ॥ 34 ॥


ॐ क्षत्रियत्वावगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॐ ॥ 35-98 ॥


अयमश्वतरीरथ इति चित्ररथसम्बन्दित्वेन लिङ्गेन पौत्रायणस्य क्षत्रियत्वावगतेश्च ।


‘रथस्त्वश्वतरीयुक्तश्चित्र इत्यभिधीयते’ इति ब्राह्मे ।


‘यत्र वेदो रथस्तत्र न वेदो यत्र नो रथः’ इति ब्रह्मवैवर्ते ॥ 35 ॥


ॐ संस्कारपरामर्शात् तदभावाभिलापाच्च ॐ ॥ 36-99 ॥


‘अष्टवर्षं ब्राह्मणमुपनयीत, तमध्यापयीत’ इत्यद्ययनार्थं संस्कारपरामर्शात् । ‘नाग्निर्न यज्ञो न क्रीया न संस्कारो न व्रतानि शूद्रस्य’ इति पैङ्गिश्रुतौ संस्काराभावाभिलापाच्च ।


उत्तमस्त्रीणां तु न शूद्रवत् । ‘सपत्नीं मे पराधम’ इत्यादिष्वधिकारदर्शनात् ।



ॐ तदभावनिर्धारणे च प्रवृत्तेः ॐ ॥ 37-100 ॥


‘नाहमेतद्वेद भो यद्गोत्रोऽहमस्मि’ इति सत्यवचनेन सत्यकामस्य शूद्रत्वाभावनिर्धारणे हारिद्रुमतस्य’नैतदब्राह्मणो विवक्तुमर्हति’ इति तत्संस्कारे प्रवृत्तेश्च ॥ 37 ॥


ॐ श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॐ ॥ 38-101 ॥


‘श्रवणे त्रपुजतुभ्यां श्रोत्रपरिपूरणम् । अध्ययने जिह्वाच्छेदः अर्थावधारणे हृदयविदारणम्’ इति प्रतिषेधात् ।



विदुरादीनां तूत्पन्नज्ञानत्वात् कश्चिद्विशेषः ॥ 38 ॥


कम्पनाधिकरणं

‘यदिदं किञ्च जगत्सर्वं प्राण एजति निःसृतम् । महद्बयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति’ इत्युद्यतवज्रज्ञानान्मोक्षः श्रूयत इत्यतोऽब्रवीत् ।


ॐ कम्पनात् ॐ ॥ 39-102 ॥


एजतीति कम्पनवचनादुद्यतवज्रो भगवानेव ।


‘को ह्येवान्यात् कः प्राण्याद्यदेष आकाश आनन्दो न स्यात्’तथा चेतोऽर्पणार्थं हि निगत्यते इति हि श्रुतिः ।


‘प्राणस्य प्राणमुत चक्षुषश्चक्षुः’ इति च




ज्योतिरधिकरणं

हृदय आहितं ज्योतिः परमात्मेत्युक्तम् । तत्र’योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः’ इत्यत्र’उभौ लोकावनुसञ्चरति’ इति वचनाज्जीव इति प्रतीयत इत्यत उच्यते –


ॐ ज्योतिर्दर्शनात् ॐ ॥ 40-103 ॥


‘विष्णुरेव ज्योतिर्विष्णुरेव ब्रह्म विष्णुरेवात्मा विष्णुरेव बलं विष्णुरेव यशो विष्णुरेवानन्दः’ इति दर्शनाच्चतुर्वेदशिखायां ज्योतिर्विष्णुरेव ।’प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति वचनात् सस्यापि लोकसञ्चरणमस्त्येव ॥ 40 ॥


आकाशाधिकरणम्

सर्वाधारत्वम् विष्णोरुक्तम् । तच्च’आकाशो वै नाम नामरूपयोर्निर्वहिता’ इत्यत्राकाशस्य प्रतीयते । वै नामेति प्रसिद्धोपदेशात् । प्रसिद्धाकाशश्चाङ्गीकर्तव्य इत्यत उच्यते –


ॐ आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॐ ॥ 41-104 ॥


‘ते यदन्तरा तद्ब्रह्म’ इत्यर्थान्तरत्वादिव्यपदेशाकाशो हरिरेव। ‘अवर्णं यतो वाचो निवर्तन्ते’ इत्यादिश्रुतेस्तस्यैव हि तलक्षणम्।


‘अनामासोऽप्रसिद्धत्वादरूपो भूतवर्जनात्’ इति ब्राह्मे ॥ 41 ॥


सुषुप्त्यधिकरणम्

असङ्गत्वं परमात्मन उक्तम् । तच्च ‘स यत्तत्र किञ्चित्पश्यत्यनन्वागतस्तेन भवत्यसङ्गो ह्ययं पुरुषः’ इति स्वप्नादिद्रष्टुः प्रतीयते । स च जीवः प्रसिद्धेरित्यतो वक्ति –


ॐ सुषुप्त्युत्क्रान्त्योर्भेदेन ॐ ॥ 42-105 ॥


‘प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किञ्चन वेदनान्तरम्’ ‘प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जद्याति’ इति भेदव्यपदेशान्न जीवः, पर एवासङ्गः । स्वप्नादिद्रष्ट्रुत्वं च सर्वज्ञत्वात् तस्यैव युज्यते ॥ 42 ॥


ब्राह्मणाधिकरणम्

‘एष नित्यो महिमा ब्राह्मणस्य’ इति ब्राह्मणस्यापि नित्यमहिमा प्रतीयते । स च ब्राह्मणः ‘स वा एष महानज आत्मा’ इत्यजशब्दाद्विरिञ्च इति प्राप्तम् । देवानां च विद्याकर्मणोः पदप्राप्तिः सूचिता तदुपर्यपीति । अतो ब्रवीति –


ॐ पत्यादिशब्देभ्यः ॐ ॥ 43-106 ॥


‘सर्वस्याधिपतिः सर्वस्येशानः …. स वा एष नेति नेति’ इत्यादि शब्देभ्यो नित्यमहिमा विष्णुरेव ।


‘उतामृतत्वस्येशानः । यदन्नेनादतिरोहति’

‘सप्तार्धगर्भाभुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि’

‘स योऽतोऽश्रुतः’


इत्यादि श्रुतिभ्यस्तस्यैव हि ते शब्दाः ॥ 43 ॥