Jump to content

ब्रह्मसूत्रभाष्यम्/C04/S02/A018: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
 
(No difference)

Latest revision as of 10:11, 2 March 2026

प्रतिस्मरणाधिकरणम् (योग्यधिकरणम्)

ॐ योगिनः प्रति स्मर्येते स्मार्ते चैते ॐ ॥ 22-525 ॥


न केवलं कालादिकृते ब्रह्मचन्द्रगती स्मर्येते । किन्तु ज्ञानयोगिनः कर्मयोगिनश्च ।


‘अग्निर्ज्येतिरहः शुक्लः षण्मासा उत्तरायणम् । तत्र प्रयाता गच्छन्ति ब्रह्मब्रह्मविदो जनाः ॥


धूमो रात्रिस्तथा कृष्णः षण्मासादक्षिणायनम् ।

तत्र चान्द्रमासं ज्योतिर्योगी प्राप्य निवर्तते’

इत्यत्र योगीति विशेषणात् स्मरणनिमित्ते चैते गती ।