ब्रह्मसूत्रभाष्यम्/C04/S01/A006: Difference between revisions
Appearance
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
आसनाधिकरणम्
ॐ आसीनः सम्भवात् ॐ ॥ 07-491 ॥
सर्वदोपासनं कुर्वन्नप्यासीनो विशेषतः कुर्यात् । तदा विक्षेपाल्पत्वेन सम्भवात् ॥ 07 ॥
ॐ ध्यानाच्च ॐ ॥ 08-492 ॥
‘स्मरणोपासनं चैव ध्यानात्मकमिति द्विधा ।
स्मरणं सर्वदा योग्यं ध्यानोपासनमानसे॥
नैरन्तर्यं मनोवृत्तेर्ध्यानमित्युच्यते बुधैः ।
आसीनस्य भवेत् तत् तु न शयानस्य निद्रया ॥
इति च नारायणतन्त्रे।स्थितस्य गच्छतो वाऽपि विक्षेपस्यैव सम्भवात् ।
स्मरणात् परमं ज्ञेयं ध्यानं नास्त्यत्र संशयः’
अतो ध्यानत्वाच्च ॥ 08 ॥
ॐ अचलत्वं चापेक्ष्य ॐ ॥ 09-493 ॥
इति च ब्रह्माण्डे ॥ 09 ॥‘अचलं चेच्छरीरं स्यान्मनसश्चाप्यचालनम्।
चलने तु शरीरस्य चञ्चलं तु मनो भवेत्’
ॐ स्मरन्ति च ॐ ॥ 10-494 ॥
‘समं कायशिरोग्रीवं धारयन्नचलं स्थिरः ।
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’ इत्यादि ॥ 10 ॥
ॐ यत्रैकाग्रता तत्रा विशेषात् ॐ ॥ 11-495 ॥
देशकालावस्थादिषु यत्रैकाग्रता भवति तत्रैव स्थातव्यम् ।
‘तमेव देशं सेवेत तं कालं तामवस्थितिम् ।
तानेव भोगान् सेवेत मनो यत्र प्रसीदति ॥