ब्रह्मसूत्रभाष्यम्/C03/S04/A086: Difference between revisions
BS>ImportBot Initial import |
m 1 revision imported |
(No difference)
| |
Latest revision as of 10:11, 2 March 2026
कामचाराधिकरणम् (स्तुत्यधिकरणम्)
ॐ स्तुतयेऽनुमतिर्वा ॐ ॥ 14-447 ॥
ॐ कामकारेण चैके ॐ ॥ 15-448 ॥
ॐ उपमर्दं च ॐ ॥ 16-449 ॥
ॐ ऊर्ध्वरेतस्सु च शब्दे हि ॐ ॥ 17-450 ॥
इति माठरश्रुतेः ॥ 17 ॥‘य इमं परमं गुह्यमूर्ध्वरेतस्सु भाषयेत् ।
न तथा विद्यते भूयान् यं प्राप्यन्येऽपि भूयसः’
ॐ परामर्शं जैमिनिरचोदना चापवदति हि ॐ ॥ 18-451 ॥
ॐ अनुष्ठेयं बादरायणः साम्यश्रुतेः ॐ ॥ 19-452 ॥
इति भगवद्वचनाच्च ॥ 19 ॥‘यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः ।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते’
ॐ विधिर्वा धारणवत् ॐ ॥ 20-453 ॥
इति हि ब्राह्मे ॥ 20 ॥
ॐ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॐ ॥ 21-454 ॥
इति च ब्रह्मतर्के ॥ 21 ॥‘विधीनां विषयास्त्वन्ये ब्रह्मणः स्वेच्छया कृतौ ।
परस्य ब्रह्मणो ह्येव सर्वविधृतिदूरता’
ॐ भावशब्दाच्च ॐ ॥ 22-455 ॥
ॐ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॐ ॥ 23-456 ॥
इति गौपवनश्रुतौ विशेषितत्वात् ॥ 23 ॥
ॐ तथा चैकवाक्योपबन्धात् ॐ ॥ 24-457 ॥
ॐ अत एव चाग्नीन्धनाद्यनपेक्षा ॐ ॥ 25-458 ॥
ॐ सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॐ ॥ 26-459 ॥
ॐ शमदमाद्युपेतः स्यात् तथाऽपितु तद्विधेस्तदङ्गतया तेषामवश्यानुष्ठेयत्वात् ॐ ॥ 27-460 ॥
इति च आग्नेये ।
ॐ सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॐ ॥ 28-461 ॥
ॐ अबाधाच्च ॐ ॥ 29-462 ॥
इति च ब्रह्मतर्के ॥ 29 ॥‘अन्यायचरणाभावे न हि ज्ञानस्य बाधनम् ।
अतो विद्वानपि न्यायं वर्तेतोत्कर्षसिद्धये’
ॐ अपि स्मर्यते ॐ ॥ 30-463 ॥
इति हरिवंशेषु ॥ 30 ॥‘अतीतानागतज्ञानी त्रैलोक्योद्दरणक्षमः ।
एतादृशोऽपि नाचारं श्रौतं स्मार्तं परित्यजेत्’
ॐ शब्दश्चातोऽकामचारे ॐ॥ 31-464 ॥
ॐ विहितत्वाच्चाश्रमकर्मापि ॐ ॥ 32-465 ॥
यदात्मानः सुनियतमानन्दोत्कर्षमाप्नुयात्’
इति कौषारवश्रुतौ विहितत्वाच्च । अपिशब्दो वर्णधर्मसमुच्चयार्थः ॥ 32 ॥
ॐ सहकारित्वेन च ॐ ॥ 33-466 ॥
इति ब्रह्माण्डे ॥‘ज्ञानान्मोक्षो भवेत्येव सर्वकार्यकृतोऽपि तु ।
आनन्दो ह्रसतेऽकार्याच्छुभं कृत्वा तु वर्दते’
इति बृहत्तन्त्रे ॥‘सर्वदुःखनिवृत्तिश्च ज्ञानिनो निश्चितैव हि ।
उपासया कर्मभिश्च भक्त्या चानन्दचित्रता’
इति च पाद्मे ॥ 33 ॥‘धर्मस्वरूपचित्रत्वाद्यो यो देवमनोगतः ।
स एव धर्मो विज्ञेयो न ह्येते लोकसम्मिताः’