Jump to content

ब्रह्मसूत्रभाष्यम्/C03/S03: Difference between revisions

From Grantha
BS>ImportBot
Initial import
 
m 1 revision imported
(No difference)

Revision as of 10:11, 2 March 2026

तृतीयः पादः

प्रास्ताविकम्

उपासनाऽस्मिन् पाद उच्यते। सर्वपरिज्ञानं प्रथमत उच्यते-


सर्वेवेदा(न्तप्रत्यया)धिकरणम्

ॐ सर्ववेदान्तप्रत्ययाधिकरणम् चोदनाद्यविशेषात् ॐ ॥ 01-366 ॥


अन्तो निर्णयः । ‘उभयोरपि दृष्टोऽन्तः’ इति वचनात् । सर्ववेद निर्णयोत्पाद्यज्ञानं ब्रह्म ।’आत्मेत्येवोपासीत’ इत्यादिविधीनां तदुक्त युक्तीनां चाविशिष्टत्वात् ॥ 01 ॥


ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ 02-367 ॥


‘विज्ञानमानन्दं ब्रह्म’’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादि प्रतिशाखमुक्तिभेदान्नैकाधिकारिविषयाः सर्वशाखा इति चेन्न । एकस्यामपि शाखायां’आत्मेत्येवोपासीत’‘ॐ खं ब्रह्म’ इत्यादिभेददर्शनात् ॥ 02 ॥


ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ 03-368 ॥



‘सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्माच्छाखाभेदो ह्यशक्तिजः ॥


सर्वकर्मकृतौ यस्मादशक्ताः सर्वजन्तवः ।

शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत्’

इति समाचारे सर्वेषामधिकाराच्च ॥ 03 ॥


ॐ सलिलवच्च तन्नियमः ॐ ॥ 04-369 ॥


यथा सर्वं सलिलं समुद्रं गच्छत्येवं सर्वाणि वचनानि ब्रह्मज्ञानार्थानीति नियमः ।


आग्नेये च –

‘यथा नदीनां सलिलं शक्ये सागरगं भवेत् ।

एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये’ इति ॥ 04 ॥


ॐ दर्शयति च ॐ ॥ 05-370 ॥




उपसंहाराधिकरणम्

सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वादित्यत आह-


ॐ उपसंहारोऽर्थाभेदाद्विधिशेषवत् समाने च ॐ ॥ 06-371 ॥


सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्यः ।



आग्नेये च-


विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥


एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित्’ इति ॥


समानविषये चोपसंहारः । न तु’सोऽरोदीत्’ इत्यादिनाम् ।



ॐ अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॐ ॥ 07-372 ॥


‘आत्मेत्येवैपासीत’ इतिशब्दादुपसंहारस्यान्यथात्वमिति चेन्न । एते गुणा नोपास्य इति विशेषवचनाभावात् ।


‘सर्वैर्गुणैरेक एवेशिताऽसावुपासितव्यो न तु दोषैः कदाचित्’ इति विशेषवचनाच्च ।


आत्मेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥ 07 ॥


ॐ न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् ॐ ॥ 08-373 ॥


प्रकरणभेदान्नवोपसंहारः कार्यः । परोवरीयस्त्वादिषु तावदेव ह्युक्तम् ॥ 08 ॥


ॐ सङ्ज्ञातश्चेत् तदुक्तमस्ति तु तदपि ॐ ॥ 09-374 ॥


सर्वविद्या’उक्त्वासोऽहं नामविदेवास्मि नात्मवित्’ इति वचनात् सर्वस्य ब्रह्मनामत्वात् तदुपसंहारः कार्यः ।



इति चेत् सत्यम् । उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव ।


‘नाम वा एता ब्रह्मणः सर्वविद्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः’ इति कौण्डिन्यश्रुतौ ॥ 09 ॥


प्राप्तैधिकरणम्

ॐ प्राप्तेश्च समञ्जसम् ॐ ॥ 10-375 ॥


युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् ।



सर्वाभेदाधिकरणम्

ॐ सर्वाभेदादन्यत्रेमे ॐ ॥ 11-376 ॥


सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति ।



आनन्दाद्यधिकरणम्

सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमिति आह-


ॐ आनन्दादयः प्रधानस्य ॐ ॥ 12-377 ॥


प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्युपास्य एव ।



प्रियशिरस्त्वाधिकरणम्

ॐ प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॐ ॥ 13-378 ॥


फलभेदार्थमुपचयापचययोर्भावान्न सर्वेषां प्रियशिरस्त्वादिगुणोपासाप्राप्तिः ।



इतराधिकरणम्

ॐ इतरे त्वर्थसामान्यात् ॐ ॥ 14-379 ॥


इतरे गुणाः फलसाम्यापेक्षयोपसंहर्थव्याः ॥ 14 ॥


अध्यानाधिकरणम्

उपसंहारानुपसंहारप्रमाणमाह –


ॐ आध्यानाय प्रयोजनाभावात् ॐ ॥ 15-380 ॥


आध्यानार्थं हि सर्वे गुणा उच्यन्ते प्रयोजनान्तराभावात् ॥


‘ज्ञानार्थमथ ध्यानार्थं गुणानां समुधीरणा । ज्ञातव्याश्चैव ध्यातव्या गुणाः सर्वेऽप्यतो हरेः ॥



‘गुणाः सर्वेऽपि वेत्तव्या ध्यातव्याश्च न संशयः । नान्यत् प्रयोजनं मुख्यं गुणानां कथने भवेत् ॥



ॐ आत्मशब्दाच्च ॐ ॥ 16-381 ॥


‘आत्मेत्येवोपासीत’ इत्यनुपसंहारप्रमाणम् ॥ 16 ॥


आत्मगृहीत्यधिकरणम्

ॐ आत्मगृहीतिरितवदुत्तरात् ॐ ॥ 17-382 ॥


न च’आनन्दादयः प्रधानस्य’ इत्युक्तिविरोधः । यतः’सत्यं ज्ञानमनन्तम् ब्रह्म।’विज्ञानमानन्दम् ब्रह्म’ इतिवदेवात्मशब्दगृहीतिः । ‘अत्र ह्येते सर्व एकीभवन्ति’ इत्युत्तरात् ।



अन्वयाधिकरणम्

ॐ अन्वयादिति चेत् स्यादवधारणात् ॐ ॥ 18-383 ॥


सर्वगुणानामान्वय आत्म शब्दे भवति । ‘आप्तव्याप्तेरात्मशब्दः परमस्य प्रयुज्यते’ इति वचनादिति चेत् सत्यम् । स्याच्च्यैवं । आत्मेत्येवेत्यवधारणात् । अन्यथा सर्वोपसंहारवचनविरोधात् ॥ 18 ॥


कार्या(ख्यान)धिकरणम्

ॐ कार्याख्यानादपूर्वम् ॐ ॥ 19-384 ॥


‘अलौकिकास्तस्य गुणा ह्युपास्य अलौकिकं मुक्तिकार्यं यतोऽस्य’ इति कार्याख्यानादन्यत्रादृष्टा एव गुणा उपास्याः ॥ 19 ॥


समानाधिकरणम्

ॐ समान एवं चाभेदात् ॐ ॥ 20-385 ॥


अपूर्वत्वेऽपि समानानामेवोपसंहारः। न तु त्रिविक्रमत्वादीनां कादाचित्कानां पृथक्त्वेन । नित्यविक्रान्त्यादिष्वन्तर्भावात् ॥ 20 ॥


नवाधिकरणम्

ॐ सम्बन्धादेवमन्यत्रापि ॐ ॥ 21-386 ॥


परमात्मसम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्वप्युपसंहार्यत्वं युज्यते।



ॐ न वा विशेषात् ॐ ॥ 22-387 ॥


न वा ऽऽत्मशब्देन सर्वगुणगृहीतिः । अधिकारिविशेषात् ॥ 22 ॥


ॐ दर्शयति च ॐ ॥ 23-388 ॥


‘सर्वान् गुणानात्मशब्दो ब्रवीति ब्रह्मादीनामितरेषां न चैव’ इति भाल्लवेयश्रुतिः ॥ 23 ॥


सम्भृत्यधिकरणम्

ॐ सम्भृतिद्युव्याप्तपि चातः ॐ ॥ 24-389 ॥


सम्भृतिद्युव्याप्ती अपि देवादीनामुपसंहर्तव्ये नान्येषाम् । अत एव योग्यताविशेषात् ।



पुरुषविद्याधिकरणम्

यस्यां विद्यायां महागुणा उच्यन्ते सोत्तमानामितराऽन्येषामिति चेन्न –


ॐ पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॐ ॥ 25-390 ॥


पुरुषसूक्तोक्तविद्यायामपि केषाञ्चिद्गुणानामनाम्नानात् ।



वेधाद्यधिकरणम्

ॐ वेधाद्यर्थभेदात् ॐ ॥ 26-391 ॥



मुक्तोपासनाधिकरणम् (हान्यधिकरणम्)

मुक्तस्योपासना कर्तव्या न वेत्यतो ब्रवीति –


ॐ हानौ तूपायनशब्दशेषत्वात् कुशाछन्दस्तुत्युपगानवत् तदुक्तम् ॐ ॥27-392॥


नियतस्वाध्यायानन्तरं स्वेच्छया कुशाग्रहणस्तुत्युपगानवदेव मोक्ष उपासनादिः ।’ब्रह्मविदाप्नोति परम्’ इति मोक्षवाक्यशेषत्वादितरेषाम् ॥

तच्चोक्तम्’’एतत् सामगायन्नास्ते’ इत्यादि ।

ब्रह्मतर्के च-


‘मुक्ता अपि हि कुर्वन्ति स्वेच्छयोपासनं हरेः । नियमानन्तरं विप्राः कुशाद्यैरप्यधीयते’ इति ॥


‘कृष्णो मुक्यैरिज्यते वीतमोहैः’ इति च भारते ॥ 27 ॥


ॐ साम्परायेतर्तव्याभावात् तथा ह्यन्ये ॐ ॥ 28-393 ॥


स्वेच्छयैवेत्यङ्गीकर्तव्यम् । मुक्तस्य तीर्णत्वात् ।‘तीर्णो हि तदा सर्वां भवति’ इति ह्यन्ये पठन्ति ।


वायुप्रोक्ते च


‘स्थितप्रज्ञत्वमाप्ता ये ज्ञानेन परमात्मनः ।

ब्रह्मलोकं गताः सर्वे ब्रह्मणा च परं गताः ।

तीर्णतर्तव्यभागश्च स्वेच्छयोपासते परम्’ इति ॥ 28 ॥


छन्दादिकरणम्

कर्मापि कुर्वन्ति न वेत्याह –


ॐ छन्दत उभयाविरोधात् ॐ ॥ 29-394 ॥


स्वेच्छया कुर्वन्ति न वा । बन्धप्रत्यवाययोरभावात् ॥ 29 ॥


ॐ गतेरर्थवत्त्वमुभयथाऽन्यथा ह विरोधः ॐ ॥ 30-395 ॥


बन्धप्रत्यवायाभावे हि मोक्षस्यार्थवत्त्वम् । अन्यथा मोक्षत्वमेव न स्यात् ॥


‘कदाचित् कर्म कुर्वन्ति कदाचिन्नैव कुर्वते । नित्यज्ञानस्वरूपत्वान्नित्यं ध्यायन्ति केशवम् ॥



ॐ उपपन्नस्तल्लक्षणार्थोपलब्धेर्लोकवत् ॐ ॥ 31-396 ॥


उपपन्नश्चैवम्भावः । प्राप्तत्वात् तल्लक्षणस्य फलस्य । यथा लोके विद्यर्थत्वेन विष्णुक्रमणादिकं कृत्वा समाप्तकर्मेच्छया करोति न करोति च ॥ 31 ॥


अनियमाधिकरणम्

ॐ अनियमः सर्वेषामविरोधाच्छब्दानुमानाभ्याम् ॐ ॥ 32-397 ॥


प्राप्तज्ञानानामपि केषाञ्चिन्मुक्तिप्राप्तिः केषाञ्चिन्न, यथोपसंहारनियम इति न मन्तव्यम् ।


‘सर्वेगुणा ब्रह्मणैव ह्युपास्या नान्यैर्देवैः किमु सर्वैर्मनुष्यैः’ इत्युपसंहारविरोधादन्यत्राविरोधात् ।


‘न कश्चिद्ब्रह्मवित् स्मृतिमनुभवति मुक्तो ह्येव भवति तस्मादाहुः स्मृतिहेति’ इति कौण्डन्यश्रुतेश्च ।


यथा केषाञ्चिन्मोक्ष एवमन्येषामित्यनुमानाच्च॥ 32 ॥


यावदधिकाराधिकरणम्

ॐ यावदधिकारमवस्थितिराधिकारिकाणाम् ॐ ॥ 33-398 ॥


यथा यथाऽधिकारो विशिष्यते एवं मुक्तावानन्दो विशिष्यते ।‘मनुष्येभ्यो गन्धर्वाणां गन्धर्वेभ्यः ऋषीणामृषिभ्यो देवानां देवेभ्य इन्द्रस्य इन्द्राद्रुद्रस्य रुद्राद्ब्रह्मण एष ह्येव शतानन्दः’ इति चतुर्वेदशिखायाम् ।


अध्यात्मे च –


‘ज्ञानं चोपासनं चैव मुक्तावानन्द एव च । यथाधिकारं देवानां भवन्त्येवोत्तरोत्तरम्’ इति ॥ 33 ॥


ॐ अक्षरधियां त्वविरोधः सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् ॐ ॥34-99 ॥


न चासमत्वेन विरोधो भवति । ब्रह्मधीत्वाद्दोषाभावसाम्यादुत्तमेभ्योऽन्येषां भावाच्च । औपसदवच्छिष्यवत् ।


उक्तं च तुरश्रुतौ –


‘नानाविधा जीवसङ्घा विमुक्तौन चैव तेषां ब्रह्मधियां विरोधः। दोषाभावाद्गुरुशिष्यादिभावाल्लोकेऽपि नासौ किमु तेषां विमुक्तेः’ इति ॥ 34 ॥


इयदामननाधिकरणम्

ॐ इयदामननात् ॐ ॥ 35-400 ॥


नामाध्यारभ्य प्राणान्तमुत्तरोत्तरमुत्तमत्वमुक्तम्। न प्राणात् किञ्चिद्बूय उक्तम् । तथाऽपि पूर्ववत् स्यात् इति न वाच्यम् ।


प्राणो वाव सर्वेभ्यो भूयान्न हि प्राणाद्भूयान् प्राणो ह्येव भूयांस्तस्माद्भूयान् नाम’ इति कौण्ठरव्यश्रुतेः ॥ 35 ॥


ॐ अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॐ ॥ 36-401 ॥


यथा भूतग्राम एकस्मादेक उत्तमोऽस्त्येव, एवं प्राणादपि परमात्मानमन्तरा विद्यत इति चेन्न। प्राणादुत्तमाभावे प्रमाणमुक्तम् । अन्यत्रोत्तमाभावे न प्रमाणम्। दृष्यते चान्यत्रोत्तमत्वम् ॥ 36 ॥


ॐ अन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॐ ॥ 37-402 ॥


प्राणस्य सर्वोत्तमत्वे परमात्मना भेदानुपपत्तिरिति चेन्न । श्रुत्युपदिष्टवदुपपत्तेः । अन्येभ्यः प्राणस्योत्तमत्वं तस्मात् परमात्मनो ह्युपदिष्टम् ॥ 37 ॥


व्यतिहाराधिकरणम्

नेति चेन्न-


ॐ व्यतिहारो विशिंषन्ति हीतरवत् ॐ ॥ 38-403 ॥


उक्तं प्राणात् परमात्मन उत्तमत्वं पूर्वोक्ताध्याहारेण’एष तु वा अतिवदति’ इति विशिंषन्ति हि । यथेतरेषु विशेषणम् ।


‘उत्तमत्वं हि देवानां मुक्तावपि हि मानवात् । तेभ्यः प्राणस्य तस्माच्च नित्यमुक्तस्य वै हरेः’ इति च ब्रह्मतन्त्रे ॥ 38 ॥


सत्याद्यधिकरणम्

कृतिर्निष्ठा ज्ञानमित्यादीनां भेदाद्बहव उत्तमा इति चेन्न –


ॐ सैव हि सत्यादयः ॐ ॥ 29-404 ॥


सत्यादिगुणास्तस्या एव परदेवतायाः स्वरूपभूताः ।


ब्रह्मतर्के च –


‘नामादिप्राणपर्यन्ताद्योहि सत्यादिरूपवान् । तस्मै नमो भगवते विष्णवे सर्वजिष्णवे’ इति ॥



कामाधिकरणम्

प्रकृतेरपि जन्मादेः संसारप्राप्तेः किमिति नामादिष्वपाठ इत्यत्रोच्यते-


ॐ कामादितरत्र तत्र चायतनादिभ्यः ॐ ॥ 40-405 ॥


स्वेच्छयैव मूलस्थाने स्थिताऽन्यत्रावतारान् करोतीश्वरेच्छानुसारेण ।


‘सर्वायतना सर्वकाला सर्वेच्छा न बद्धाबन्धिका सैषा प्रकृतिरविकृतिः’ इति वत्सश्रुतेः ।


‘नामादयस्तु बद्धत्वान्मोचकत्वात् परोऽपि च । उभयोरप्यभावेन यथाऽव्यक्तं न तूदितम् ॥



ॐ आदरादलोपः ॐ ॥ 41-406 ॥


अबद्धत्वेऽपि भक्तिविशेषादेवोपासनाद्यलोपस्तस्या भवति ।



ॐ उपस्थितेस्तद्वचनात् ॐ ॥ 42-407 ॥


अनादिकाले भगवत्सम्बन्धित्वाद्युज्यते च नित्यमुक्तत्वं तस्याः । ‘द्वावेतावनादिनित्यावनादियुक्तौ नित्यमुक्तावनादिकृतौ नित्यकृतौ योऽयं परमो या च प्रकृती रमते ह्यस्यां परमो रमते ह्यस्मिन् प्रकृतिः स्वस्मिन् हि रमते परमो न स्वस्मिन् प्रकृतिरत एनमाहुः परम इति’ इति गौपवनश्रुतिवचनात्॥42 ॥


निर्धारणाधिकरणम्

दर्शनार्थं ह्युपासनम् । तच्च श्रवणादेरेव भवति । अतः किमर्थमित्यत्रोच्यते–


ॐ तन्निर्धारणार्थनियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः पलम् ॐ॥43-408 ॥


तत्त्वनिश्चयो वेदार्थनियमश्च ब्रह्मदृष्टेः पृथगेव । हिशब्देन’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इति श्रुतिं सूचयति । श्रवणादिफलं चाज्ञानविपर्ययादिदर्शनप्रतिबन्धनिवृत्तिः । ब्रह्मतर्के च –


‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति ॥ 43 ॥


प्रदानाधिकरणम्

ॐ प्रदानवदेव हि तदुक्तम् ॐ ॥ 44-409 ॥


न च श्रवणादिमात्रेण ब्रह्मदृष्टिर्भवति, किन्तु सेतिकर्तव्येन । यथा गुरुदत्तं तथैव भवति।’आचार्यवान् पुरुषो वेद’ इति ह्युक्तम् ॥ 44 ॥


गुरुप्रसादाधिकरणम् (लिङ्गभूयस्त्वाधिकरणम्)

गुरुप्रसादः स्वप्रयत्नो वा बलवानिति निगद्यते-


ॐ लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि ॐ ॥ 45-410 ॥


ऋषभादिभ्यो विद्यां ज्ञात्वाऽपि सत्यकामेन’भगवांस्त्वेव मे कामं ब्रूयात्’ श्रुतं ह्येव भगवद्दृशेभ्य आचार्याद्यैव विद्या विदिता साधिष्ठं प्रापयति’ इति वचनात् ।‘अत्र ह न किञ्चन वीयाय’ इत्यनुज्ञानादुपकोसलवचनाच्च लिङ्गभूयस्त्वाद्गुरुप्रदानमेव बलवत् । तर्हि तावताऽलमिति न मन्तव्यम् ।’श्रोतव्यो मन्तव्यः’ इत्यादेस्तदपि कर्तव्यम् । वाराहे च –


‘गुरुप्रसादो बलवान्न तस्माद्बलवत्तरम् । तथाऽपि श्रवणादिश्च कर्तव्यो मोक्षसिद्धये’ इति ॥ 45 ॥


पूर्वविकल्पाधिकरणम्

ॐ पूर्वविकल्पःप्रकरणात् स्यात् क्रियामानसवत् ॐ ॥ 46-411 ॥


न च पूर्वप्राप्त एव गुरुरिति नियमः । समग्रानुग्रहं चेत् पश्चात्तनः करोति स्वयमेव तदा विकल्पः स्यात् । मानसक्रियावत्, यथोभयोर्ध्यानयोः समयोः ।


‘पूर्वस्मादुत्तमो लब्धः स्वयमेव गुरुर्यदि । गृह्णीयादविचारेण विकल्पः समयोर्भवेत् ॥



‘समग्रानुग्रहं कश्चित् स्वयमेव समो यदि । कुर्यात् पुनश्च गृह्णीयादविरोधेन कामतः ॥



ॐ अतिदेशाच्च ॐ ॥ 47-412 ॥


‘ब्रह्मोपास्त्व बह्मोपचरस्व तच्छ्रुणु हि तत्त्वामवतु । या ब्रह्मोपचरेर्यथा मामुपचरेर्ये चान्येऽस्मद्विधाः श्रेयसश्च तानुपास्व तानुपचरस्व तेभ्यः शृणु हि ते त्वामवन्तु’ इति पौष्यायणश्रुतावतीदेशाच्च॥ 47 ॥


विद्याधिकरणम्

ॐ विद्यैव तु निर्धारणात् ॐ ॥ 48-413 ॥


न च’कर्मण्यैव हि संसिद्धिमास्थिता जनकादयः’ इत्यादिनाऽन्यन्मोक्षसाधनम् ।


‘तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यते अयनाय’ इति निर्धारणाद्विद्ययैव मोक्षः ॥ 48 ॥


ॐ दर्शनाच्च ॐ ॥ 49-414 ॥


न केवलं विद्यया किन्त्वपरोक्षज्ञानेनैव च।


सर्वान् परो माययाऽयं सिनीते दृष्ट्वैव तं मुच्यते नापरेण’ इति कौशिकश्रुतेः ॥ 49 ॥


अबाधाधिकरणम् (श्रुत्यधिकरणम्)

ॐ श्रुत्यादिबलीयास्त्वाच्च न बाधः ॐ ॥ 50-415 ॥


सावधारणा बलवति श्रुतिः ।


‘इन्द्रोऽश्वमेधांश्चतमिष्ट्वाऽपि राजा ब्रह्माणमीढ्यं समुवाचोपपन्नः॥



‘नास्त्यकृतः कृतेन’ इत्युपपत्तिश्च ।



अतो न प्रमाणान्तरबाधः ।’कर्मण्यैव’ इत्ययोगव्यवच्छेदः ॥ 50 ॥


अनुबन्धाद्यधिकरणम्

ॐ अनुबन्धादिभ्यः ॐ ॥ 51-416 ॥


न केवलं श्रवणादिभिर्गुरुप्रसादेन च ब्रह्मदर्शनम् ।


किन्तु भक्त्यादिभिश्च ।


‘सर्वलक्षणसम्पन्नः सर्वज्ञो विष्णुतत्परः । यद्गुरुः सुप्रसन्नः सन् दद्यात् तन्नान्यथा भवेत् ॥


तथाऽप्यनादिसंसिद्धो भक्त्यादिगुणपूगतः । लभेद्गुरुप्रसादं च तस्मादेव च तद्भवेत्’ इति ॥


‘भक्तिर्विष्णौ गुरौ चैव गुरोर्नित्यप्रसन्नताम् ।

दद्याच्छमदमादिश्च तेन चैते गुणाः पुनः ॥

तैः सर्वैर्दर्शनं विष्णोः श्रवणादिकृतं भवेत्’

इति नारायणतन्त्रे ॥ 51 ॥


दर्शनबेधादिकरणम् (प्रज्ञान्तराधिकरणम्)

ॐ प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॐ ॥ 52-417 ॥


उपासनाभेदवद्दर्शनभेदः । तच्चोक्तं कमठश्रुतौ –


‘अन्तर्दृष्टयो बहिर्दृष्टयोऽवतारदृष्टयः सर्वदृष्टय इति । देवावाव सर्वदृष्टयस्तेषु चोत्तरोत्तरमाब्रह्मणोऽन्येषु यथायोगं यथा ह्याचार्या आचक्षते’ इति । आध्यात्मे च –


‘दृष्ट्वैव ह्यवताराणां मुच्यन्ते केचिदञ्जसा ।

दर्शनेनान्तरेणान्ये देवाः सर्वत्र दर्शनात् ॥

तेषां विशेषमाचार्यो वेत्ति सर्वज्ञतां गतः’ इति ॥ 52 ॥


न सामान्याधिकरणम्

ॐ न सामान्यादप्युपलब्धेर्मृत्युवन्न हि लोकापत्तिः ॐ ॥ 53-418 ॥


न सामान्यदर्शनमात्रेण मुक्तिः । यथा मृत्युमात्रात् । न हि लोकापत्तिमात्रं मुक्तिः ।



‘मुच्यते नात्र सन्देहो दृष्ट्वा तु स्वात्मयोग्यया’ इति च ॥


‘दर्शनेनात्मयोग्येन मुक्तिर्नान्येन केनचित्’ इति चाध्यात्मे ॥ 53 ॥


ताद्विध्याधिकरणम् (परेणाधिकरणम्)

‘भक्तिरेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशः पुरुषो भक्तिरेव भूयसी’ इति माठरश्रुतेर्न परमात्मना दर्शनमिति चेन्न ।


ॐ परेण शब्दस्य ताद्विध्यं भूयस्त्वात् त्वनुबन्धः ॐ ॥ 54-419 ॥


परमात्मैवं भक्त्या दर्शनं प्राप्य मुक्तिं ददातीति प्रधानसाधनत्वाद्भक्तिः करणत्वेनोच्यते।


मायावैभवे च


‘भक्तिस्थः परमो विष्णुस्तयैवैनं वशं नयेत् । तयैव दर्शनं यातः प्रदद्यान्मुक्तिमेतया ॥


स्नेहानुबन्धो यस्तस्मिन् बहुमानपुरस्सरः ।

भक्तिरित्युच्यते सैव करणं परमीशितुः’॥

इति सर्वशब्दानां ब्रह्मणि प्रवृत्तेश्च ॥ 54 ॥


एकाधिकरणम्

जीवांशानां पृथगुत्पत्तेर्नानादियोग्यतापेक्षेति न मन्तव्यम् । कुतः ?


ॐ एकः आत्मनः शरीरे भावात् ॐ ॥ 55-420 ॥


अंशांशिनोरेकत्वमेव । अंशिकर्मनिर्मितशरीर एवांशस्य भावात् ॥ 55 ॥


ॐ व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॐ ॥ 56-421 ॥


ज्ञानादिभेधे विद्यमानेऽपि नांशांशिनोः पृथग्भाव एव । तदुपासनादिभोगादंशस्य ।


परमसंहितायां च –


‘अंशिनस्तु पृथग्जाता अंशास्तस्यैव कर्मणा । पुनरैक्यं प्रपद्यन्ते नात्र कार्य विचारणा’ इति ॥ 56 ॥


अङ्गावबद्धाधिकरणम्

ॐ अङ्गावबद्धास्तुन शाखासु हि प्रतिवेदनम् ॐ ॥ 57-422 ॥


ब्रह्माद्यङ्गदेवतावबद्धोपासनादि प्रतिशाखं प्रतिवेदं च नोपसंह्रियते। हिशब्दात्



ॐ मन्त्रादिवद्वाऽविरोधः ॐ ॥ 58-423 ॥


सर्वदेवतामन्त्रा यथाऽधीयन्त एवमविरोधो वा ।



भूमाधिकरणम्

ॐ भूम्नःक्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॐ ॥ 59-424 ॥


सर्वगुणेषु भूमगुणस्य ज्यायस्त्वं क्रतुवत् । सर्वत्र सहभावात् दीक्षाप्रायणीयोदयनीयसवनत्र यावभृथात्मकः क्रतुः ।



नाना(शब्दा)धिकरणम्

ॐ नाना शब्दादिभेदात् ॐ ॥ 60-425 ॥


‘शब्दोऽनुमा तथैवाक्षो योग्यताभेदतः सदा । ब्रह्मादीनामेकमर्थं बहुधा दर्शयन्ति हि ॥



अतो भूमत्वमपि नानैवोपास्यते ॥ 60 ॥


विकल्पाधिकरणम्

ॐ विकल्पो विशिष्टफलत्वात् ॐ ॥ 61-426 ॥


स्वयोग्योपासनानन्तरं सामान्यस्यापि कस्यचिदुपासनं विकल्पेन भवति विशिष्टफलापेक्षया ।



काम्याधिकरणम्

ॐ काम्यास्तुयथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॐ ॥ 62-427 ॥


‘यस्य यस्य हि यः कामस्तस्य तस्य ह्युपासनम् । तादृशानां गुणानां च समाहारं प्रकल्पयेत् ॥



यथाश्रयभावाधिकरणम् (अङ्गाधिकरणम्)

ॐ अङ्गेषु यथाऽऽश्रयाभावः ॐ ॥ 63-428 ॥


अङ्गदेवतानां यथा यथा परमेश्वराङ्गाश्रयत्वं’चक्षोः सूर्यो अजायत’ इत्यादि तथा भावना कर्तव्या॥63॥


ॐ शिष्टेश्च ॐ ॥ 64-429 ॥


‘यस्मिन् यस्मिन् यो हि चाङ्गे निविष्टः परस्य चिन्त्यः स तथा तथैव’ इति पौत्रायणश्रुतेः ॥ 64 ॥


ॐ समाहारात् ॐ ॥ 65-430 ॥


‘अङ्गैः पराद्ये हि देवा विसृष्टास्तत्तद्गुणान् परमे संहरेत।

तांश्चापि तत्रैव विचिन्त्य देवान् स्थानं मुमुक्षुः परमं व्रजेत’

इति काषायणश्रुतौ समाहारवचनाच्च ॥ 65 ॥


ॐ गुणसाधारण्यश्रुतेश्च ॐ ॥ 66-431 ॥


‘साधारण्यात् सर्वगुणाः परस्य समाहार्यास्तत्त्वदृशो मुमुक्षोः’ इति माण्डव्यश्रुतेश्च ॥ 66 ॥


नवाधिकरणम्

ॐ न वाऽतत्सहभावश्रुतेः ॐ ॥ 67-432 ॥


न वाऽङ्गदेवतोपसंहारः कार्यः । उपसंहारस्य सहाश्रवणात् ॥ 67 ॥


ॐ दर्शनाच्च ॐ ॥ 68-433 ॥