Jump to content

Mahabharatatatparyanirnaya/C11/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
 
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== सर्वशास्त्रतात्पर्यनिर्णयः ==
<div class="gr-page-nav">[[Mahabharatatatparyanirnaya|श्रीमहाभारततात्पर्यनिर्णयः]] · [[Mahabharatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = MBTN
| document_id  = MBTN

Revision as of 19:07, 10 April 2026

सर्वशास्त्रतात्पर्यनिर्णयः

औं ॥ शशाङ्कपुत्रादभवत् पुरूरवास्तस्याऽयुरायोर्नहुषो ययातिः ।तस्याऽस पत्नीयुगलं सुताश्च पञ्चाऽभवन् विष्णुपदैकभक्ताः ॥ १॥


यदुं च तुर्वसुं चैव देवयानी व्यजायत ।द्रुह्यं चाऽनुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥।२॥


यदोर्वंशे चक्रवर्ती कार्तवीर्यार्जुनोऽभवत् ।विष्णोर्दत्तात्रेयनाम्नः प्रसादाद् योगवीर्यवान् ।तस्यान्ववाये यदवो बभूवुर्विष्णुसंश्रयाः ॥ ३॥


पूरोर्वंशे तु भरतश्चक्रवर्ती हरिप्रियः ।तद्वंशजः कुरुर्नाम प्रतीपोऽभूत् तदन्वये ॥।४॥


प्रतीपस्याभवन् पुत्रास्त्रयस्त्रेताग्निवर्चसः ।देवापिरथ बाह्लीको गुणज्येष्ठश्च शन्तनुः ॥ ५॥


त्वग्दोषयुक्तो देवापिर्जगाम तपसे वनम् ।‘विष्णोः प्रसादात् स कृते युगे राजा भविष्यति’ ॥ ६॥ (भा\.पु\. १२\.२\.३७)


पुत्रिकापुत्रतां यातो बाह्लीको राजसत्तमः ।हिरण्यकशिपोः पुत्रः प्रह्लादो भगवत्प्रियः (भगवत्परः) ॥ ७॥


वायुना च समाविष्टो महाबलसमन्वितः ।येनैव जायमानेन तरसा भूर्विदारिता ॥ ८॥


भूभारक्षपणे विष्णोरङ्गतामाप्तुमेव सः ।प्रतीपपुत्रतामाप्य बाह्लीकेष्वभवत् पतिः ।रुद्रेषु पत्रतापाख्यः सोमदत्तोऽस्य चाऽत्मजः ॥ ९॥


अजैकपादहिर्बुध्निर्विरूपाक्ष इति त्रयः ।रुद्राणां सोमदत्तस्य बभूवुः प्रथिताः सुताः ।विष्णोरेवाङ्गतामाप्तुं भूरिभूरिश्रवाः (भूरिर्भूरिश्रवाः) शलः ॥ १०॥


शिवादिसर्वरुद्राणामावेशाद् वरतस्तथा ।भूरिश्रवा अतिबलस्तत्राऽसीत् परमास्त्रवित् ॥ ११॥


तदर्थं हि तपश्चीर्णं सोमदत्तेन शम्भवे ।दत्तो वरश्च तेनास्य त्वत्प्रतीपाभिभूतिकृत् ।बलवीर्यगुणोपेतो नाम्ना भूरिश्रवाः सुतः ॥ १२॥


भविष्यति मयाऽऽविष्टो यज्ञशील इति स्म ह ।तेन भूरिश्रवा जातः सोमदत्तसुतो बली ॥ १३॥


पूर्वोदधेस्तीरगतेऽब्जसम्भवे गङ्गायुतः पर्वणि घूर्णितोऽब्धिः ।अवाक्षिपत् तस्य तनौ निजोदबिन्दुं शशापैनमथाब्जयोनिः ॥ १४॥


महाभिषङ् नाम नरेश्वरस्त्वं भूत्वा पुनः शन्तनुनामधेयः ।जनिष्यसे विष्णुपदी तथैषा तत्रापि भार्या भवतो भविष्यति ॥ १५॥


शान्तो भवत्येव मयोदितस्त्वं तनुत्वमाप्तोऽसि(आप्नोषि) ततश्च शन्तनुः ।इतीरितः सोऽथ नृपो बभूव महाभिषङ् नाम हरेःपदाश्रयः ॥ १६॥


स तत्र भुक्त्वा चिरकालमुर्वीं तनुं विहायाऽप सदो विधातुः ।तत्रापि तिष्ठन् सुरवृन्दसन्निधौ ददर्श गङ्गां श्लथिताम्बरां स्वकाम् ॥ १७॥


अवाङ्मुखेषु द्युसदस्सु रागान्निरीक्षमाणं पुनरात्मसम्भवः ।उवाच भूमौ नृपतिर्भवाऽशु शप्तो यथा त्वं हि पुरा मयैव ॥ १८॥


इतीरितस्तत्क्षणतः प्रतीपाद् बभूव नाम्ना नृपतिश्च (नृपतिः) स शन्तनुः ।अवाप्य गङ्गां दयितां स्वकीयां तया मुमोदाब्दगणान् बहूंश्च ॥ १९॥


अथाष्टमो वसुरासीद् द्युनामा वराङ्गिनाम्न्यस्य बभूव भार्या ।बभूव तस्याश्च सखी नृपस्य सुविन्दनाम्नो दयिता सनाम्नी ॥ २०॥


तस्या जरामृतिविध्वंसहेतोर्वसिष्ठधेनुं स्वमृतं क्षरन्तीम् ।जरापहां नन्दिनिनामधेयां बद्धुं पतिं चोदयामास देवी ॥ २१॥


तया द्युनामा स वसुः प्रचोदितो भ्रातृस्नेहात् सप्तभिरन्वितोऽपरैः ।बबन्ध तां गामथ ताञ्छशाप वसिष्ठसंस्थः कमलोद्भवः प्रभुः ॥ २२॥


अधर्मवृत्ताः प्रतियात मानुषीं योनिं द्रुतं यत्कृते सर्व एव ।धर्माच्च्युताः स तथाऽष्टायुराप्यतामन्ये पुनः क्षिप्रमतो विमोक्ष्यथ ॥ २३॥


प्रचोदयामास च या कुमार्गे पतिं हि साऽम्बेति नरेषु जाता ।अभर्तृका पुंस्त्वसमाश्रयेण पत्युर्मृतौ कारणत्वं व्रजेत ॥ २४॥


भवत्वसौ ब्रह्मचर्यैकनिष्ठो महान् विरोधश्च तयोर्भवेत ।स गर्भवासाष्टकदुःखमेव समाप्नुतां शरतल्पे शयानः ॥ २५॥


मृत्यष्टकोत्थामपि वेदनां सः प्राप्नोतु शस्त्रैर्बहुधा निकृत्तः ।इतीरितास्ते कमलोद्भवं तं ज्ञात्वा समुत्सृज्य च गां प्रणेमुः ॥ २६॥


न मानुषं (मानुषीं) गर्भमवाप्नुमो वयं भवत्वयं सर्ववित् कीर्तिमांश्च ।महास्त्रवेत्ता भवदंशयुक्तस्तथा बलं नोऽखिलानामुपैतु ॥ २७॥


इतीरितेऽस्त्वित्युदिताः स्वयम्भुवा वसिष्ठसंस्थेन सुरापगां ययुः ।ऊचुस्तथैनामुदरे वयं ते जायेमहि क्षिप्रमस्मान् हन त्वम् ॥ २८॥


इतीरिता सा वरमाशु वव्रे तेभ्योऽप्यपापत्वमथ प्रयत्वम् ।तेषां सदैवाऽत्मन एकमेषां दीर्घायुषं तान् सुषुवेऽथ शन्तनोः ॥ २९॥


अविघ्नतस्तान् विनिहन्तुमेव पुरा प्रतीपस्य हि दक्षिणोरुम् ।समाश्रिता कामिनीवत्त्वकामा तत्पुत्रभार्या भवितुं विडम्बात् ॥ ३०॥


तेनैव चोक्ता भव मे सुतस्य भार्या यतो दक्षिणोरुस्थिताऽसि ।भागो हि दक्षो दुहितुः स्नुषाया भार्याभागो वाम इति प्रसिद्धः ॥ ३१॥


उवाच सा तं नतु मां सुतस्ते काऽसीति पृच्छेन्न तु मां निवारयेत् ।अयोग्यकर्त्रीमपि कारणं च मत्कर्मणो नैव पृच्छेत् कदाचित् ॥ ३२॥


यदा त्रयाणामपि चैकमेष करोति गच्छेयमहं विसृज्य ।तदा त्वदीयं सुतमित्युदीरिते तथेति राजाऽप्यवदत् प्रतीपः ॥ ३३॥


तथैव पुत्राय च तेन तद्वचो वधूक्तमुक्तं वचनाद् द्युनद्याः ।कनीयसे सा ह्यवदत् सुतस्ते नान्यः पतिः शन्तनुरेव मे वृतः ॥ ३४॥


ततस्तु सा शन्तनुतोऽष्टपुत्रानवाप्य सप्त न्यहनत् तथाऽष्टमम् ।गन्तुं ततो मतिमाधाय हन्तुमिवोद्योगं सा हि मृषा चकार ॥ ३५॥


अवस्थितिर्नातिसुखाय मानुषे यतः सुराणामत एव गन्तुम् ।ऐच्छन्न तस्या हि बभूव मानुषो देहो नरोत्थो हि (तथा)तदाऽऽस शन्तनोः ॥ ३६॥


तां पुत्रनिधनोद्युक्तां न्यवारयत शन्तनुः ।काऽसि त्वं हेतुना केन हंसि पुत्रान् नृशंसवत् ॥ ३७॥


रूपं सुरवरस्त्रीणां तव तेन न पापकम् (पातकम्)।भवेत् कर्म त्वदीयं तन्महत् कारणमत्र हि ॥ ३८॥


तत् कारणं वद शुभे यदि मच्छ्रोत्रमर्हति ।इतीरिताऽवदत् सर्वं प्रययौ च सुरापगा ॥ ३९॥


न धर्मो देवतानां हि ज्ञातवासश्चिरं नृषु ।कारणादेव हि सुरा नृषु वासं प्रकुर्वते ।कारणापगमे यान्ति धर्मोऽप्येषां तथाविधः ॥ ४०॥


अदृश्यत्वमसंस्पर्शो ह्यसम्भाषणमेव च ।सुरैरपि नृजातैस्तु गुह्यधर्मो दिवौकसाम् ॥ ४१॥


अतः सा वरुणं देवं पूर्वभर्तारमप्यमुम् ।नृजातं शन्तनुं त्यक्त्वा प्रययौ वरुणालयम् ॥ ४२॥


सुतमष्टममादाय भर्तुरेवाप्यनुज्ञया ।वधोद्योगान्निवृत्ता सा ददौ पुत्रं बृहस्पतौ ॥ ४३॥


देवव्रतोऽसावनुशासनाय मात्रा दत्तो देवगुरौ शतार्द्धम् ।संवत्सराणामखिलांश्च वेदान् समभ्यसत् तद्वशगान्तरात्मा ॥ ४४॥


ततश्च मात्रा जगतां गरीयस्यनन्तपारेऽखिलसद्गुणार्णवे ।रामे भृगूणामधिपे प्रदत्तः शुश्राव तत्त्वं च शतार्द्धवर्षम् ॥ ४५॥


स पञ्चविंशत् पुनरब्दकानामस्त्राणि चाऽभ्यस्य पतेर्भृगूणाम् ।मात्रा समानीय निजे तटे तु संस्थापितः प्रार्पयितुं स्वपित्रे ॥ ४६॥


स तत्र बद्ध्वा शरपञ्जरेण गङ्गां विजह्रेऽस्य पिता तदैव ।व्रजन् मृगार्थी तृषितो विलोकयन् गङ्गामतोयामभवत् सुविस्मितः ॥ ४७॥


स मार्गयामास ततोऽस्य हेतुं ज्ञप्त्यै तदा स्वं च ददर्श सूनुम् ।क्रीडन्तमस्त्रेण बभूव सोऽपि क्षणाददृश्यः पितृदर्शनादनु ॥ ४८॥


मीमांसमानं तमवाप गङ्गा सुतं समादाय पतिं जगाद च ।अयं सुतस्ते परमास्त्रवेत्ता समर्पितो वीर्यबलोपपन्नः ॥ ४९॥


अस्याग्रजाः स्वां स्थितिमेव याता हरेः पदाम्भोजसुपाविते जले ।तनूर्मदीये प्रणिधाय तत् त्वं तान् मा शुचोऽनेन च मोदमानः ॥ ५०॥


इति प्रदायामुमदृश्यतामगाद् गङ्गा तमादाय ययौ स्वकं गृहम् ।राजाऽभिषिच्याथ च यौवराज्ये मुमोद तत्सद्गुणतर्पितो भृशम् ॥ ५१॥


पुनः स पित्राऽनुमतो बृहस्पतेरवाप वेदान् पुरुषायुषोऽर्द्धतः ।रामात् तथाऽस्त्राणि पुनस्त्ववाप तावद्भिरब्दैस्त्रिशतैश्च तत्त्वम् ॥ ५२॥


स सर्ववित्त्वं समवाप्य रामात् समस्तविद्याधिपतेर्गुणार्णवात् ।पितुं समीपं समवाप्य तं च शुश्रूषमाणः प्रमुमोद वीरः ॥ ५३॥


यदैव गङ्गा सुषुवेऽष्टमं सुतं तदैव यातो मृगयां स शन्तनुः ।शरद्वतो जातमपश्यदुत्तमं वने विसृष्टं मिथुनं त्वयोनिजम् ॥ ५४॥


शरद्वांस्तु तपः कुर्वन् ददर्श सहसोर्वशीम् ।चस्कन्द रेतस्तस्याथ शरस्तम्बे ततोऽभवत् ॥ ५५॥


विष्कम्भो नाम रुद्राणां भूभारहरणेऽङ्गताम् ।हरेः प्राप्तुं तथा तारा भार्या या हि बृहस्पतेः ॥ ५६॥


तावुभौ शन्तनुर्दृष्ट्वा कृपाविष्टः स्वकं गृहम् ।निनाय नाम चक्रे च कृपाया विषयौ यतः ।कृपः कृपीति स कृपस्तपो विष्णोश्चकार ह ॥ ५७॥


तस्य प्रीतस्तदा विष्णुः सर्वलोकेश्वरेश्वरः ।प्रादादेष्यत्सप्तर्षित्वमायुः कल्पान्तमेव च ।स शन्तनुगृहे तिष्ठन् देवव्रतसखाऽभवत् ॥ ५८॥


पुत्रवच्छन्तनोश्चाऽसीत् स च पुत्रवदेव तत् ।मिथुनं पालयामास स कृपोऽस्त्राण्यवाप च ॥ ५९॥


सर्ववेदानधिजगौ सर्वशास्त्राणि कौशिकात् ।तत्त्वज्ञानं तथा व्यासादाप्य सर्वज्ञतां गतः ॥ ६०॥


यदा हि जातः स कृपस्तदैव बृहस्पतेः सूनुरगाच्च गङ्गाम् ।स्नातुं घृताचीं स ददर्श तत्र श्लथद्दुकूलां सुरवर्यकामिनीम् ॥ ६१॥


तद्दर्शनात् स्कन्नमथेन्द्रियं स द्रोणे दधाराऽशु ततोऽभवत् स्वयम् ।अम्भोजजावेशयुतो बृहस्पतिः कर्तुं हरेः कर्म भुवो भरोद्धृतौ ॥ ६२॥


द्रोणेतिनामास्य चकार तातो मुनिर्भरद्वाज उतास्य वेदान् ।अध्यापयामास सशास्त्रसङ्घान् सर्वज्ञतामाप च सोऽचिरेण ॥ ६३॥


काले च तस्मिन् पृषतोऽनपत्यो वने तु पाञ्चालपतिश्चचार ।तपो महत् तस्य तथा वराप्सरावलोकनात् स्कन्दितमाशु रेतः ॥ ६४॥


स तद् विलज्जावशतः पदेन समाक्रमत् तस्य बभूव सूनुः ।हूहूस्तु तु नाम्ना स विरिञ्चगायको नाम्नाऽऽवहो यो मरुतां तदंशयुक् ॥ ६५॥


स द्रोणतातात् समवाप वेदानस्त्राणि विद्याश्च तथा समस्ताः ।द्रोणेन युक्तः स तदा गुरोः सुतं सहैव नौ राज्यमिति ह्यवादीत् ॥ ६६॥


पदे द्रुतत्वाद् द्रुपदाभिधेयः स राज्यमापाथ निजां कृपीं सः ।द्रोणोऽपि भार्यां समवाप्य सर्वप्रतिग्रहोज्झश्च पुरेऽवसत् सुखी ॥ ६७॥


सिलोञ्छवृत्त्यैव हि वर्तयन् स धर्मं महान्तं विरजं जुषाणः ।उवास नागाख्यपुरे सखा स देवव्रतस्याथ कृपस्य चैव ॥ ६८॥


तेषां समानो वयसा विराटस्त्वभूद्धहा नाम विधातृगायकः ।मरुत्सु यो विवहो नाम तस्याप्यंशेन युक्तो निजधर्मवर्ती ॥ ६९॥


ततः कदाचिन्मृगयां गतः स ददर्श कन्याप्रवरां तु शन्तनुः ।या पूर्वसर्गे पितृपुत्रिका सती चचार विष्णोस्तप उत्तमं चिरम् ॥ ७०॥


यस्यै वरं विष्णुरदात् पुराऽहं सुतस्तव स्यामिति या वसोः सुता ।जाता पुनर्दाशगृहे विवर्द्धिता व्यासात्मना विष्णुरभूच्च यस्याम् ॥ ७१॥


तद्दर्शनान्नृपतिर्जातहृच्छ्रयो(च्छयः) वव्रे प्रदानाय च दाशराजम् ।ऋते स तस्यास्तनयस्य राज्यं नैच्छद् दातुं तामथाऽयाद् गृहं स्वम् ॥ ७२॥


तच्चिन्तया म्लानमुखं(ग्लानमुखं) जनित्रं दृष्ट्वैव देवव्रत आश्वपृच्छत् ।तत्कारणं सारथिमस्य तस्माच्छ्रुत्वाऽखिलं दाशगृहं जगाम ॥ ७३॥


स तस्य विश्वासकृते प्रतिज्ञां चकार नाहं करवाणि राज्यम् ।तथैव मे सन्ततितो भयं ते व्यैतूर्ध्वरेताः सततं भवानि ॥ ७४॥


भीमव्रतत्वाद्धि तदाऽस्य नाम कृत्वा देवा भीष्म इति ह्यचीक्लृपन् ।प्रसूनवृष्टिं स च दाशदत्तां कालीं समादाय पितुः समर्पयत् ॥ ७५॥


ज्ञात्वा तु तां राजपुत्रीं गुणाढ्यां सत्यस्य विष्णोर्मातरं नामतस्तत् ।लोके प्रसिद्धां सत्यवतीत्युदारां विवाहयामास पितुः स भीष्मः ॥ ७६॥


प्रायः सतां न मनः पापमार्गे गच्छेदिति ह्यात्ममनश्च सक्तम् ।ज्ञात्वाऽपि तां दाशगृहे विवर्द्धितां जग्राह सद्धर्मरतश्च शन्तनुः ॥ ७७॥


स्वच्छन्दमृत्युत्ववरं प्रदाय तथाऽप्यजेयत्वमधृष्यतां च ।युद्धेषु भीष्मस्य नृपोत्तमः स रेमे तयैवाब्दगणान् बहूंश्च ॥ ७८॥


लेभे स चित्राङ्गदमत्र पुत्रं तथा द्वितीयं च विचित्रवीर्यम् ।तयोश्च बाल्ये व्यसृजच्छरीरं जीर्णेन देहेन हि किं ममेति ॥ ७९॥


स्वेच्छया वरुणत्वं स प्राप नानिच्छया तनुः ।तस्मिन् काले त्यज्यते हि बलवद्भिर्वधं विना ॥ ८०॥


अतिसक्तास्तपोहीनाः कथञ्चिन्मृतिमाप्नुयुः ।अनिच्छयाऽपि हि यथा मृतश्चित्राङ्गदानुजः ॥ ८१॥


अथौर्ध्वदैहिकं कृत्वा पितुर्भीष्मोऽभ्यषेचयत् ।राज्ये चित्राङ्गदं वीरं यौवराज्येऽस्य चानुजम् ॥ ८२॥


चित्राङ्गदेन निहतो नाम स्वं त्वपरित्यजन् ।चित्राङ्गदोऽकृतोद्वाहो गन्धर्वेण महारणे ।विचित्रवीर्यं राजानं कृत्वा भीष्मोऽन्वपालयत् ॥ ८३॥


अथ काशिसुतास्तिस्रस्तदर्थं भीष्म आहरत् ।अम्बामप्यम्बिकानाम्नीं तथैवाम्बालिकां पराम् ॥ ८४॥


पाणिग्रहणकाले तु ब्रह्मदत्तस्य वीर्यवान् ।विजित्य तं साल्वराजं समेतान् क्षत्रियानपि ॥ ८५॥


अम्बिकाम्बालिके तत्र संवादं चक्रतुः शुभे ।अम्बा सा भीष्मभार्यैव पूर्वदेहे तु नैच्छत ॥ ८६॥


शापाद्धिरण्यगर्भस्य साल्वकामाऽहमित्यपि ।उवाच तां स तत्याज साऽगमत् साल्वमेव च ॥ ८७॥


तेनापि सम्परित्यक्ता परामृष्टेति सा पुनः ।भीष्ममाप स नागृह्णात् प्रययौ साऽपि भार्गवम् ॥ ८८॥


भ्रातुर्विवाहयामास सोऽम्बिकाम्बालिके ततः ।भीष्माय तु यशो दातुं युयुधे तेन भार्गवः ॥ ८९॥


अनन्तशक्तिरपि स न भीष्मं निजघान ह ।नचाम्बां ग्राहयामास भीष्मकारुण्ययन्त्रितः ॥ ९०॥


अनन्तशक्तिः सकलान्तरात्मा यः सर्ववित् सर्ववशी च सर्वजित् ।न यत्समोऽन्योऽस्ति कथञ्च कुत्रचित् कथं ह्यशक्तिः परमस्य तस्य ॥ ९१॥


भीष्मं स्वभक्तं यशसाऽभिपूरयन् विमोहयन्नासुरांश्चैव रामः ।जित्वैव भीष्मं न जघान देवो वाचं च सत्यामकरोत् स तस्य ॥ ९२॥


‘विद्धवन्मुग्धवच्चैव केशवो वेदनार्तवत् ।दर्शयन्नपि मोहाय नैव विष्णुस्तथा भवेत्’ ॥ एवमादिपुराणोत्थवाक्याद् रामः सदा जयी ॥ ९३॥


यशो भीष्मस्य दत्वा तु सोऽम्बां च शरणागताम् ।उन्मुच्य भर्तृद्वेषोत्थपापात् तेनाऽश्वयोजयत् ॥ ९४॥


अनन्तरं शिखण्डित्वात् तदा सा शाङ्करं तपः ।भीष्मस्य निधनार्थाय पुंस्त्वार्थं च चकार ह ॥ ९५॥


भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामितीरितम् ।रामेण सत्यं तच्चक्रे भीष्मे देहान्तरं गते ॥ ९६॥


रुद्रस्तु तस्यास्तपसा तुष्टः प्रादाद् वरं तदा ।भीष्मस्य मृतिहेतुत्वं कालात् पुन्देहसम्भवम् ॥ ९७॥


मालां च य इमां मालां गृह्णीयात् स हनिष्यति ।भीष्ममित्येव तां मालां गृहीत्वा सा नृपान् ययौ ॥ ९८॥


तां न भीष्मभयात् केऽपि जगृहुस्तां हि सा ततः ।द्रुपदस्य गृहद्वारि न्यस्य योगात् तनुं जहौ ॥ ९९॥


एतस्मिन्नेव काले तु सुतार्थं द्रुपदस्तपः ।चकार शम्भवे चैनं सोऽब्रवीत् कन्यका तव ॥ १००॥


भूत्वा भविष्यति पुमानिति साम्बा ततोऽजनि ।नाम्ना शिखण्डिनी तस्याः पुंवत् कर्माणि चाकरोत् ॥ १०१॥


तस्यै पाञ्चालराजः स दशार्णाधिपतेः सुताम् ।उद्वाहयामास सा तां पुंवेषेणैव गूहिताम् ।अन्यत्र मातापित्रोस्तु न विज्ञातां बुबोध ह ॥ १०२॥


धात्र्यै न्यवेदयत् साऽथ तत्पित्रे सा न्यवेदयत् ।स क्रुद्धः प्रेषयामास निहन्मि त्वां सबान्धवम् ।इति पाञ्चालराजाय निर्जगाम च सेनया ॥ १०३॥


विश्वस्य वाक्यं रुद्रस्य पुमानेवेति पार्षतः ।प्रेषयामास धिग् बुद्धिर्भिन्ना ते बालवाक्यतः ।अपरीक्षकस्य ते राष्ट्रं कथमित्येव नर्मकृत् ॥ १०४॥


अथ भार्यासमेतं तं पितरं चिन्तयाऽऽकुलम् ।दृष्ट्वा शिखण्डिनी दुःखान्मन्निमित्तान्न नश्यतु ॥ १०५॥


इति मत्वा वनायैव ययौ तत्र च तुम्बुरुः ।स्थूणाकर्णाभिधेयस्तामपश्यद् दृढकर्णतः ॥ १०६॥


स तस्या अखिलं श्रुत्वा कृपां चक्रे महामनाः ।स तस्यै स्वं वपुः प्रादात् तदीयं जगृहे तथा ।अंशेन पुंस्वभावार्थं पूर्वदेहे समास्थितः ॥ १०७॥


पुंसां स्त्रीत्वं भवेत् क्‍वापि तथाऽप्यन्ते पुमान् भवेत् ।स्त्रीणां नैव हि पुंस्त्वं स्याद् बलवत्कारणैरपि ॥ १०८॥


अतः शिववरेऽप्येषां जज्ञे योषैव नान्यथा ।पश्चात् पुन्देहमपि सा प्रविवेशैव पुंयुतम् ॥ १०९॥


नास्या देहः पुंस्त्वमाप नच पुंसाऽनधिष्ठिते ।पुंदेहे न्यवसत् साऽथ गन्धर्वेण त्वधिष्ठितम् ।गान्धर्वं देहमाविश्य स्वकीयं भवनं ययौ ॥ ११०॥


तस्यास्तद्देहसादृश्यं गन्धर्वस्य प्रसादतः ।प्राप गन्धर्वदेहोऽपि तया पश्चादधिष्ठितः ॥ १११॥


श्वो देहि मम देहं मे स्वं च देहं समाविश ।इत्युक्त्वा स तु गन्धर्वः कन्यादेहं समास्थितः ।उवासैव वने तस्मिन् धनदस्तत्र चाऽगमत् ॥ ११२॥


अप्रत्युत्थायिनं तन्तुलीयमानं विलज्जया ।शशाप धनदो देवश्चिरमित्थं भवेति तम् ॥ ११३॥


यदा युद्धे मृतिं याति सा कन्या पुन्तनुस्थिता ।तदा पुंस्त्वं पुनर्यासि चपलत्वादितीरितः ॥ ११४॥


तथाऽवसत् स गन्धर्वः कन्या पित्रोरशेषतः ।कथयामासानुभूतं तौ भृशं मुदमापतुः ॥ ११५॥


परीक्ष्य तामुपायैश्च श्वशुरो लज्जितो ययौ ।श्वोभूते सा तु गन्धर्वं प्राप्य तद्वचनात् पुनः ॥ ११६॥


ययौ तेनैव देहेन पुंस्त्वमेव समाश्रिता ।स शिखण्डी नामतोऽभूदस्त्रशस्त्रप्रतापवान् ॥ ११७॥


विचित्रवीर्यः प्रमदाद्वयं तत् सम्प्राप्य रेमेऽब्दगणान् सुसक्तः ।तत्याज देहं च स यक्ष्मणाऽर्दितस्ततोऽस्य माताऽस्मरदाशु कृष्णम् ॥ ११८॥


आविर्बभूवाऽशु जगज्जनित्रो जनार्दनो जन्मजराभयापहः ।समस्तविज्ञानतनुः सुखार्णवः सम्पूजयामास च तं जनित्री ॥ ११९॥


तं भीष्मपूर्वैः परमादरार्चितं स्वभिष्टुतं चावददस्य माता ।पुत्रौ मृतौ मे नतु राज्यमैच्छद् भीष्मो मया नितरामर्थितोऽपि ॥ १२०॥


क्षेत्रे ततो भ्रातुरपत्यमुत्तममुत्पादयास्मत्परमादरार्थितः ।इतीरितः प्रणतश्चाप्यभिष्टुतो भीष्मादिभिश्चाऽह जगद्गुरुर्वचः ॥ १२१॥


ऋते रमां जातु (ममाङ्गयोगयोग्या)ममाङ्गसङ्गयोग्याऽङ्गना नैव सुरालयेऽपि ।तथाऽपि ते वाक्यमहं करिष्ये सांवत्सरं सा चरतु व्रतं मे ॥ १२२॥


सा पूतदेहाऽथ च वैष्णवव्रतान्मत्तः समाप्नोतु सुतं वरिष्ठम् ।इतीरिते राष्ट्रमुपैति नाशमिति ब्रुवन्तीं पुनराह वाक्यम् ॥ १२३॥


सौम्यस्वरूपोऽप्यतिभीषणं मृषा तच्चक्षुषो रूपमहं प्रदर्शये ।सहेत सा तद् यदि पुत्रकोऽस्या भवेद् गुणाढ्यो बलवीर्ययुक्तः ॥ १२४॥


इतीरितेऽस्त्वित्युदितस्तयाऽगमत् कृष्णोऽम्बिकां सा तु भिया न्यमीलयत् ।अभूच्च तस्यां धृतराष्ट्रनामको गन्धर्वराट् पवनावेशयुक्तः ॥ १२५॥


स मारुतावेशबलाद् बलाधिको बभूव राजा धृतराष्ट्रनामा ।अदाद् वरं चास्य बलाधिकत्वं कृष्णोऽन्ध आसीत् स तु मातृदोषतः ॥ १२६॥


ज्ञात्वा तमन्धं पुनरेव कृष्णं माताऽब्रवीज्जनयान्यं गुणाढ्यम् ।अम्बालिकायामिति तत् तथाऽकरोद् भयात्तु सा पाण्डुरभून्मृषादृक् ॥ १२७॥


परावहो नाम मरुत् ततोऽभवद् वर्णेन पाण्डुः स हि नामतश्च ।स चाऽस वीर्याधिक एव वायोरावेशतः सर्वशस्त्रास्त्रवेत्ता ॥ १२८॥


तस्मै तथा बलवीर्याधिकत्ववरं प्रादात् कृष्ण एवाथ पाण्डुम् ।विज्ञाय तं प्राह पुनश्च माता निर्दोषमन्यं जनयोत्तमं सुतम् ॥ १२९॥


उक्त्वेति कृष्णं पुनरेव च स्नुषामाह त्वयाऽक्ष्णोर्हि निमीलनं पुरा ।कृतं ततस्ते सुत आस चान्धस्ततः पुनः कृष्णमुपास्व भक्तितः ॥ १३०॥


इतीरिताऽप्यस्य हि मायया सा भीता भुजिष्यां कुमतिर्न्ययोजयत् ।सा तं परानन्दतनुं गुणार्णवं सम्प्राप्य भक्त्या परयैव रेमे ॥ १३१॥


तस्यां स देवोऽजनि धर्मराजो माण्डव्यशापाद् य उवाह शूद्रताम् ।वसिष्ठसाम्यं समभीप्समानं प्रच्यावयन्निच्छया शापमाप ॥ १३२॥


अयोग्यसम्प्राप्तिकृतप्रयत्नदोषात् समारोपितमेव शूले ।चोरैर्हृतेऽर्थेऽपितु चोरबुद्ध्या मक्षीवधादित्यवदद् यमस्तम् ॥ १३३॥


नासत्यता तस्य च तत्र हेतुतः शापं गृहीतुं स तथैव चोक्त्वा ।अवाप शूद्रत्वमथास्य नाम चक्रे कृष्णः सर्ववित्त्वं तथाऽदात् ॥ १३४॥


विद्यारतेर्विदुरो नाम चायं भविष्यति ज्ञानबलोपपन्नः ।महाधनुर्बाहुबलाधिकश्च सुनीतिमानित्यवदत् स कृष्णः ॥ १३५॥


ज्ञात्वाऽस्य शूद्रत्वमथास्य माता पुनश्च कृष्णं प्रणता ययाचे ।अम्बालिकायां जनयान्यमित्यथो नैच्छत् स कृष्णोऽभवदप्यदृश्यः ॥ १३६॥


योग्यानि कर्माणि ततस्तु तेषां चकार भीष्मो मुनिभिर्यथावत् ।विद्याः समस्ता अददाच्च कृष्णस्तेषां पाण्डोरस्त्रशस्त्राणि भीष्मः ॥ १३७॥


ते सर्वविद्याप्रवरा बभूवुर्विशेषतो विदुरः सर्ववेत्ता ।पाण्डुः समस्तास्त्रविदेकवीरो जिगाय पृथ्वीमखिलां धनुर्धरः ॥ १३८॥


गवद्गणादास तथैव सूतात् समस्तगन्धर्वपतिः स तुम्बुरुः ।य उद्वहो नाम मरुत् तदंशयुक्तो वशी सञ्जयनामधेयः ॥ १३९॥


विचित्रवीर्यस्य स सूतपुत्रः सखा च तेषामभवत् प्रियश्च ।समस्तविन्मतिमान् व्यासशिष्यो विशेषतो धृतराष्ट्रानुवर्ती ॥ १४०॥


गान्धारराजस्य सुतामुवाह गान्धारिनाम्नीं सुबलस्य राजा ।ज्येष्ठो ज्येष्ठां शकुनेर्द्वापरस्य नास्तिक्यरूपस्य कुकर्महेतोः ॥ १४१॥


शूरस्य पुत्री गुणशीलरूपयुक्ता दत्ता सख्युरेव स्वपित्रा ।नाम्ना पृथा कुन्तिभोजस्य तेन कुन्ती भार्या पूर्वदेहेऽपि पाण्डोः ॥ १४२॥


कूर्मश्च नाम्ना मरुदेव कुन्तिभोजोऽथैनां वर्द्धयामास सम्यक् ।तत्राऽगमच्छङ्करांशोऽतिकोपो दुर्वासास्तं प्राह मां वासयेति ॥ १४३॥


तमाह राजा यदि कन्यकायाः क्षमिष्यसे शक्तितः कर्म कर्त्र्याः ।सुखं वसेत्योमिति तेन चोक्तः शुश्रूषणायाऽदिशदाशु कुन्तीम् ॥ १४४॥


चकार कर्म सा पृथा मुनेः सुकोपनस्य हि ।यथा न शक्यते परैः शरीरवाङ्मनोनुगा ॥ १४५॥


स वत्सरत्रयोदशं तया यथावदर्चितः ।उपादिशत् परं मनुं समस्तदेववश्यदम् ॥ १४६॥


ऋतौ तु सा समाप्लुता परीक्षणाय तन्मनोः ।समाह्वयद् दिवाकरं स चाऽजगाम तत्क्षणात् ॥ १४७॥


ततो न सा विसर्जितुं शशाक तं विना रतिम् ।सुवाक्प्रयत्नतोऽपि(षि) तामथाऽससाद भास्करः ॥ १४८॥


स तत्र जज्ञिवान् स्वयं द्वितीयरूपको विभुः ।सवर्मदिव्यकुण्डलो ज्वलन्निव स्वतेजसा ॥ १४९॥


पुरा स वालिमारणप्रभूतदोषकारणात् ।सहस्रवर्मनामिनाऽसुरेण वेष्टितोऽजनि ॥ १५०॥


यथा ग्रहैर्विदूष्यते मतिर्नृणां तथैव हि ।अभूच्च दैत्यदूषिता मतिर्दिवाकरात्मनः ॥ १५१॥


तथाऽपि रामसेवनाद्धरेश्च सन्निधानयुक् ।सुदर्शनीयकर्णतः स कर्णनामकोऽभवत् ॥ १५२॥


स रत्नपूर्णमञ्जुषागतो विसर्जितो जले ।जनापवादभीतितस्तया यमस्वसुर्द्रुतम् ॥ १५३॥


नदीप्रवाहतो गतं ददर्श सूतनन्दनः ।तमग्रहीत् सरत्नकं चकार पुत्रकं निजम् ॥ १५४॥


सूतेनाधिरथेन लालिततनुस्तद्भार्यया राधया ।संवृद्धो निखिलाः श्रुतीरधिजगौ शास्त्राणि सर्वाणि च ।बाल्यादेव महाबलो निजगुणैः सम्भासमानोऽवसन्नाम्नाऽसौ वसुषेण(वसुसेन)तामगमदस्याऽसीद्ध्यमा तद् वसु ॥ १५५॥


अथ कुन्ती दत्ता सा पाण्डोः सोऽप्येतया चिरं रेमे ।शूराच्छूद्र्यां जातां विदुरोऽवहदारुणीं गुणाढ्यां च ॥ १५६॥


अथ चर्तायननामा मद्रेशः शक्रतुल्यपुत्रार्थी ।कन्यारत्नं चेच्छंश्चक्रे ब्राह्मं तपो वरं चाऽप ॥ १५७॥


प्रह्लादावरजो यः सह्लादो नामतो हरेर्भक्तः ।सोऽभूद् ब्रह्मवरान्ते वायोरावेशयुक् सुतो राज्ञः ॥ १५८॥


स मारुतावेशवशात् पृथिव्यां बलाधिकोऽभूद् वरतश्च धातुः ।शल्यश्च नाम्नाऽखिलशत्रुशल्यो बभूव कन्याऽस्य च माद्रिनाम्नी ॥ १५९॥


सा पाण्डुभार्यैव च पूर्वजन्मन्यभूत् पुनश्च प्रतिपादिताऽस्मै ।शल्यश्च राज्यं पितृदत्तमञ्जो जुगोप धर्मेण समस्तशास्त्रवित् ॥ १६०॥


अथाङ्गनारत्नमवाप्य तद् द्वयं पाण्डुस्तु भोगान् बुभुजे यथेष्टतः ।अपीपलद् धर्मसमाश्रयो महीं ज्येष्ठापचायी विदुरोक्तमार्गतः ॥ १६१॥


भीष्मो हि राष्ट्रे धृतराष्ट्रमेव संस्थाप्य पाण्डुं युवराजमेव ।चक्रे तथाऽप्यन्ध इति स्म राज्यं चकार नासावकरोच्च पाण्डुः ॥ १६२॥


भीष्माम्बिकेयोक्तिपरः सदैव पाण्डुः शशासावनिमेकवीरः ।अथाऽम्बिकेयो बहुभिश्च यज्ञैरीजे सपाण्डुश्च महाधनौघैः ॥ १६३॥


नैषा विरोधे कुरुपाण्डवानां तिष्ठेदिति व्यास उदीर्णसद्गुणः ।स्वमातरं स्वाश्रममेव निन्ये स्नुषे च तस्या ययतुः स्म तामनु ॥ १६४॥


सुतोक्तमार्गेण विचिन्त्य तं हरिं सुतात्मना ब्रह्मतया च सा ययौ ।परं पदं वैष्णवमेव कृष्णप्रसादतः स्वर्ययतुः स्नुषे च ॥ १६५॥


माता च सा विदुरस्याऽप लोकं वैरिञ्चमन्वेव गताऽम्बिकां सती ।व्यासप्रसादात् सुतसद्गुणैश्च कालेन मुक्तिं च जगाम सन्मतिः ॥ १६६॥


अम्बालिकाऽपि क्रमयोगतोऽगात् परां गतिं नैव तथाऽम्बिका ययौ ।यथायथा विष्णुपरश्चिदात्मा तथातथा ह्यस्य गतिः परत्र ॥ १६७॥


पाण्डुस्ततो राज्यभरं निधाय ज्येष्ठेऽनुजे चैव वनं जगाम ।पत्नीद्वयेनानुगतो बदर्यामुवास नारायणपालितायाम् ॥ १६८॥


गृहाश्रमेणैव वने निवासं कुर्वन् स भोगान् बभुजे तपश्च ।चक्रे मुनीन्द्रैः सहितो जगत्पतिं रमापतिं भक्तियुतोऽभिपूजयन् ॥ १६९॥


स कामतो हरिणत्वं प्रपन्नं दैवादृषिं ग्राम्यकर्मानुषक्तम् ।विद्ध्वा शापं प्राप तस्मात् स्त्रिया युङ् मरिष्यसीत्येव बभूव चाऽर्तः ॥ १७०॥


न्यसिष्णुरुक्तः पृथया स नेति प्रणामपूर्वं न्यवसत् तथैव ।ताभ्यां समेतः शतशृङ्गपर्वते नारायणस्याऽश्रममध्यगे पुरः ॥ १७१॥


तपो नितान्तं स चचार ताभ्यां समन्वितः कृष्णपदाम्बुजाश्रयः ।तत्सङ्गपूतद्युसरिद्वराम्भःसदावगाहातिपवित्रिताङ्गः ॥ १७२॥


एतस्मिन्नेव काले कमलभवशिवाग्रेसराः शक्रपूर्वा ।भूम्या पापात्मदैत्यैर्भुवि कृतनिलयैराक्रमं चासहन्त्या ।ईयुर्देवादिदेवं शरणमजमुरुं पूर्णषाड्गुण्यमूर्तिं क्षीराब्धौ नागभोगे शयितमनुपमानन्दसन्दोहदेहम् ॥ १७३॥


ऊचुः परं पुरुषमेनमनन्तशक्तिं सूक्तेन तेऽब्जजमुखा अपि पौरुषेण ।स्तुत्वा धराऽसुरवराक्रमणात् परेश खिन्ना यतो हि विमुखास्तव तेऽतिपापाः ॥ १७४॥


दुस्सङ्गतिर्भवति भारवदेव देव नित्यं सतामपि हि नः शृणु वाक्यमीश ।पूर्वं हता दितिसुता भवता रणेषु ह्यस्मत्प्रियार्थमधुना भुवि तेऽभिजाताः ॥ १७५॥


आसीत् पुरा दितिसुतैरमरोत्तमानां सङ्ग्राम उत्तमगजाश्वरथद्विपद्भिः ।अक्षोहिणी शतमहौघमहौघमेव सैन्यं सुरात्मकमभूत् परमास्त्रयुक्तम् ।तस्मान्महौघगुणमास महासुराणां सैन्यं शिलागिरिमहास्त्रधरं सुघोरम् ॥ १७६॥


तेषां रथाश्च बहुनल्वपरिप्रमाणा देवासुरप्रवरकार्मुकबाणपूर्णाः ।नानाम्बराभरणवेषवरायुधाढ्या देवासुराः ससृपुराशु परस्परं ते ॥ १७७॥


जघ्नुर्गिरीन्द्रतलमुष्टिमहास्त्रशस्त्रैश्चक्रुर्नदीश्च रुधिरौघवहा महौघम् ।तत्र स्म देववृषभैरसुरेशचमम्वा युद्धे निसूदित उतौघबलैः शतांशः ॥ १७८॥


अथाऽत्मसेनामवमृद्यमानां वीक्ष्यासुरः शम्बरनामधेयः ।ससार मायाविदसह्यमायो वरादुमेशस्य सुरान् विमोहयन् ॥ १७९॥


मायासहस्रेण सुराः समर्दिता(विमर्दिताः) रणे विषेदुः शशिसूर्यमुख्याः ।तान् वीक्ष्य वज्री परमां तु विद्यां स्वयम्भुदत्तां प्रयुयोज वैष्णवीम् ॥ १८०॥


समस्तमायापहया तयैव वराद् रमेशस्य सदाऽप्यसह्यया ।माया विनेशुर्दितिजेन्द्रसृष्टा वारीशवह्नीन्द्र(इन्दु)मुखाश्च मोचिताः ॥ १८१॥


यमेन्दुसूर्यादिसुरास्ततोऽसुरान् निजघ्नुराप्यायितविक्रमास्तदा ।सुरेश्वरेणोर्जितपौरुषा बहून् वज्रेण वज्री निजघान शम्बरम् ॥ १८२॥


तस्मिन् हते दानवलोकपाले दितेः सुता दुद्रुवुरिन्द्रभीषिताः ।तान् विप्रचित्तिर्विनिवार्य धन्वी ससार शक्रप्रमुखान् सुरोत्तमान् ॥ १८३॥


वरादजेयेन विधातुरेव सुरोत्तमांस्तेन शरैर्निपातितान् ।निरीक्ष्य शक्रं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः ॥ १८४॥


अस्त्राणि तस्यास्त्रवरैर्निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् ।विचूर्णितोऽसौ निपपात मेरौ महाबलो वायुबलाभिनुन्नः ॥ १८५॥


अथाऽससादाऽशु स कालनेमिस्त्वदाज्ञया यस्य वरं ददौ पुरा ।सर्वैरजेयत्वमजोऽसुरः(स्य) ससहस्रशीर्षो द्विसहस्रबाहुयुक् ॥ १८६॥


तमापतन्तं प्रसमीक्ष्य मारुतस्त्वदाज्ञया दत्तवरस्त्वयैव ।हन्तव्य इत्यस्मरदाशु हि त्वां तदाऽऽविरासीस्त्वमनन्तपौरुषः ॥ १८७॥


तमस्त्रशस्त्राणि बहूनि बाहुभिः प्रवर्षमाणं भुवनाप्तदेहम् ।चक्रेण बाहून् विनिकृत्य कानि च न्यवेदयश्चाऽशु यमाय पापम् ॥ १८८॥


ततोऽसुरास्ते निहता अशेषास्त्वया त्रिभागा निहताश्चतुर्थम् ।जघान वायुः पुनरेव जातास्ते भूतले धर्मबलोपपन्नाः ॥ १८९॥


राज्ञां महावंशसुजन्मनां तु तेषामभूद् धर्ममतिर्विपापा ।शिक्षामवाप्य द्विजपुङ्गवानां त्वद्भक्तिरप्येषु हि काचन स्यात् ॥ १९०॥


त्वद्भक्तिलेशाभियुतः सुकर्मा व्रजेन्न पापां तु गतिं कथञ्चित् ।दैत्येश्वराणां च तमोऽन्धमेव त्वयैव क्लृप्तं ननु सत्यकाम ॥ १९१॥


धर्मस्य मिथ्यात्वभयाद् वयं त्वामथापिवा दैत्यशुभाप्तिभीषा ।सम्प्रार्थयामो दितिजान् सुकर्मणस्त्वद्भक्तितश्च्यावयितुं च शीघ्रम् ॥ १९२॥


य उग्रसेनः सुरगायकः स जातो यदुष्वेष तथाऽभिधेयः ।तवैव सेवार्थममुष्य पुत्रो जातोऽसुरः कालनेमिः स ईश ॥ १९३॥


यस्त्वत्प्रियार्थं न हतो हि वायुना भवत्प्रसादात् परमीशिताऽपि ।स एष भोजेषु पुनश्च जातो वरादुमेशस्य परैरजेयः ॥ १९४॥


स औग्रसेने जनितोऽसुरेण क्षेत्रे हि तद्रूपधरेण मायया ।गन्धर्विजेन द्रमिलेन नाम्ना कंसो जितो येन वराच्छचीपतिः ॥ १९५॥


जित्वा जलेशं च हृतानि येन रत्नानि यक्षाश्च जिताः शिवस्य ।कन्यावनार्थं मगधाधिपेन प्रयोजितास्ते च हृते बलेन ॥ १९६॥


स विप्रचित्तिश्च जरासुतोऽभूद् वराद् विधातुर्गिरिशस्य चैव ।सर्वैरजेयो बलमुत्तमं ततो ज्ञात्वैव कंसस्य मुदा सुते ददौ ॥ १९७॥


निवारयामास न कंसमुद्धतं शक्तोऽपि यो यस्य बले न कश्चित् ।तुल्यः पृथिव्यां विवरेषु वा क्‍वचिद् वशे बलाद् यो(ढ्यो) नृपतीश्च चक्रे ॥ १९८॥


हतौ पुरा यौ मधुकैटभाख्यौ त्वयैव हंसो डिभकश्च जातौ ।वरादजेयौ गिरिशस्य वीरौ भक्तौ जरासन्धमनु स्म तौ शिवे ॥ १९९॥


अन्येऽपि भूमावसुराः प्रजातास्त्वया हता ये सुरदैत्यसङ्गरे ।अन्ये तथैवान्धतमः प्रपेदिरे कार्या तथैषां च तमोगतिस्त्वया ॥ २००॥


व्यासावतारे निहतस्त्वयायः कलिः सुशास्त्रोक्तिभिरेव चाद्य ।श्रुत्वा त्वदुक्तीः पुरुषेषु तिष्ठन्नीषच्चकारेव मनस्त्वयीश ॥ २०१॥


रामात्मना(रामावतारे) ये निहताश्च राक्षसा दृष्ट्वा बलं तेऽपि तदा तवाद्य ।समं तवान्यं नहि चिन्तयन्ति सुपापिनोऽपीश तथा हनूमतः ॥ २०२॥


ये केशव त्वद्बहुमानयुक्तास्तथैव वायौ नहि ते तमोऽन्धम् ।योग्याः प्रवेष्टुं तदतो हि मार्गाच्चाल्यास्त्वया जनयित्वैव भूमौ ॥ २०३॥


नितान्तमुत्पाद्य भवद्विरोधं तथाच (तथैव) वायौ बहुभिः प्रकारैः ।सर्वेषु देवेषु च पातनीयास्तमस्यथान्धे कलिपूर्वकासुराः ॥ २०४॥


हतौ च यौ रावणकुम्भकर्णौ त्वया त्वदीयौ प्रतिहारपालौ ।महासुरावेशयुतौ हि शापात् त्वयैव तावद्य विमोचनीयौ ॥ २०५॥


यौ तौ तवारी ह तयोः प्रविष्टौ दैत्यौ तु तावन्धतमः प्रवेश्यौ ।यौ तौ त्वदीयौ भवदीयवेश्म त्वया पुनः प्रापणीयौ परेश ॥ २०६॥


आविश्य यो बलिमञ्जश्चकार प्रतीपमस्मासु तथा त्वयीश ।स चासुरो बलिनामैव भूमौ साल्वो नाम्ना ब्रह्मदत्तस्य जातः ॥ २०७॥


मायामयं तेन विमानमग्र्यमभेद्यमाप्तं सकलैर्गिरीशात् ।विद्रावितो यो बहुशस्त्वयैव रामस्वरूपेण भृगूद्वहेन ॥ २०८॥


नासौ हतः शक्तिमताऽपि तत्र कृष्णावतारे स मयैव वध्यः ।इत्यात्मसङ्कल्पमृतं विधातुं स चात्र वध्यो भवताऽतिपापी ॥ २०९॥


यदीयमारुह्य विमानमस्य पिताऽभवत् सौभपतिश्च नाम्ना ।यदा स भीष्मेण जितः पिताऽस्य तदा स साल्वस्तपसि स्थितोऽभूत् ॥ २१०॥


स चाद्य तस्मात् तपसो निवृत्तो जरासुतस्यानुमते स्थितो हि ।अनन्यवध्यो भवताऽद्य वध्यः स प्रापणीयश्च तमस्यथोग्रे ॥ २११॥


यो बाणमाविश्य महासुरोऽभूत् स्थितः स नाम्ना(सनाम्ना) प्रथितोऽपि बाणः ।स कीचको नाम बभूव रुद्रवरादवध्यः स तमः प्रवेश्यः ॥ २१२॥


अतस्त्वया भुव्यवतीर्य देवकार्याणि कार्याण्यखिलानि देव ।त्वमेव देवेश गतिः सुराणां ब्रह्मेशशक्रेन्दुयमादिकानाम् ॥ २१३॥


त्वमेव नित्योदितपूर्णशक्तिस्त्वमेव नित्योदितपूर्णचिद्धनः ।त्वमेव नित्योदितपूर्णसत्सुखस्त्वाद्दृङ् न कश्चित् कुत एव तेऽधिकः ॥ २१४॥


इतीरितो देववरैरुदारगुणार्णवोऽक्षोभ्यतमामृताकृतिः ।उत्थाय तस्मात् प्रययावनन्तसोमार्ककान्तिद्युतिरन्वितोऽमरैः ॥ २१५॥


स मेरुमाप्याऽह चतुर्मुखं प्रभुर्यत्र त्वयोक्तोऽस्मि हि तत्र सर्वथा ।प्रादुर्भविष्ये भवतो हि भक्त्या वशस्त्विवाहं स्ववशोऽपि चेच्छया ॥ २१६॥


ब्रह्मा प्रणम्याऽह तमात्मकारणं प्रादां पुराऽहं वरुणाय गाः शुभाः ।जहार तास्तस्य पिताऽमृतस्रवाः स कश्यपो द्राक् सहसाऽतिगर्वितः ॥ २१७॥


मात्रा त्वदित्या च तथा सुरभ्या प्रचोदितेनैव हृतासु तासु ।श्रुत्वा जलेशात् स मया तु(भि) शप्तः क्षत्रेषु(क्षेत्रेषु) गोजीवनको भवेति ॥ २१८॥


शूरात् स जातो बहुगोधनाढ्यो भूमौ यमाहुर्वसुदेव इत्यपि ।तस्यैव भार्या त्वदितिश्च देवकी बभूव चान्या सुरभिश्च रोहिणी ॥ २१९॥


तत् त्वं भवस्वाऽशु च देवकीसुतस्तथैव यो द्रोणनामा वसुः सः ।स्वभार्यया धरया त्वत्पितृत्वं प्राप्तुं तपस्तेप उदारमानसः ॥ २२०॥


तस्मै वरः स मया सन्निसृष्टः स चाऽस नन्दाख्य उतास्य भार्या ।नाम्ना यशोदा स च शूरतातसुतस्य वैश्याप्रभवोऽथ गोपः ॥ २२१॥


तौ देवकीवसुदेवौ च तेपतुस्तपस्त्वदीयं सुतमिच्छमानौ ।त्वामेव(त्वमेव) तस्मात् प्रथमं प्रदर्श्य तत्र स्वरूपं हि ततो व्रजं व्रज ॥ २२२॥


इतीरिते सोऽब्जभवेन केशवस्तथेति चोक्त्वा पुनराह देवताः ।सर्वे भवन्तो भवताऽशु मानुषे कार्यानुसारेण यथानुरूपतः ॥ २२३॥


अथावतीर्णाः सकलाश्च देवता यथायथैवाऽह हरिस्तथातथा ।वित्तेश्वरः पूर्वमभूद्धि भौमाद्धरेः सुतत्वेऽपि तदिच्छयाऽसुरात् ॥ २२४॥


पापेन तेनापहृतो हि हस्ती शिवप्रदत्तः सुप्रतीकाभिधानः ।तदर्थमेवास्य सुतोऽभिजातो धनेश्वरो भगदत्ताभिधानः ॥ २२५॥


महासुरस्यांशयुतः स एव रुद्रावेशाद् बलवानस्त्रवांश्च ।शिष्यो महेन्द्रस्य हते बभूव ताते स्वधर्माभिरतश्च नित्यम् ॥ २२६॥


अभूच्छिनिर्नाम यदुप्रवीरस्तस्याऽत्मजः सत्यक आस तस्मात् ।कृष्णः पक्षो युयुधानाभिधेयो गुरुत्मतोऽंशेन युतो बभूव ॥ २२७॥


यः संवहो नाम मरुत् तदंशश्चक्रस्य विष्णोश्च बभूव तस्मिन् ।यदुष्वभूद्धृदिको भोजवंशे सितः पक्षस्तस्य सुतो बभूव ॥ २२८॥


स पाञ्चजन्यांशयुतो मरुत्सु तथाऽंशयुक्तः प्रवहस्य वीरः ।नामास्य चाभूत् कृतवर्मेत्यथान्ये ये यादवास्तेऽपि सुराः सगोपाः ॥ २२९॥


ये पाण्डवानामभवन् सहाया देवाश्च देवानुचराः समस्ताः ।अन्ये तु सर्वेऽप्यसुरा हि मध्यमा ये मानुषास्ते चलबुद्धिप्रवृत्तयः ॥ २३०॥


लिङ्गं सुराणां हि परैव भक्तिर्विष्णौ तदन्येषु च तत्प्रतीपता ।अतोऽत्र येये हरिभक्तितत्परास्तेते सुरास्तद्भरिता विशेषतः ॥ २३१॥


इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमहाभारततात्पर्यनिर्णये भगवदवतारप्रतिज्ञा नाम एकादशोऽध्यायः