Jump to content

Bruhadaranyaka/C5/S11: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== एकादशं ब्राह्मणम् ==
<div class="gr-page-nav">[[Bruhadaranyaka|बृहदारण्यकोपनिषत्]] · [[Bruhadaranyaka/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BR
| document_id  = BR

Revision as of 19:06, 10 April 2026

एकादशं ब्राह्मणम्

अयमग्निर्वैश्वानरो योऽयमन्तःपुरुषे येनेदमन्नं पच्यते यदिदमद्यते तस्यैष घोषो भवति यमेतत् कर्णावपिधाय शृणोति स यदोत्क्रमिष्यन् भवति नैनं घोषं शृणोति ॥


॥ इति बृहदारण्यकोपनिषदि सप्तमाध्याये एकादशं ब्राह्मणम् ॥
॥ इति बृहद्भाष्ये सप्तमाध्याये एकादशं ब्राह्मणम् ॥
अग्निनामा तु भगवानौदर्याग्नौ प्रतिष्ठितः ।

विश्वैर्गुणैः समेतत्वादनन्तत्वाच्च स प्रभुः ॥ वैश्वानर इति प्रोक्तः सोऽग्निरंगप्रणेतृतः । तस्य विष्णोस्तुतिरियं क्रियते वायुना सदा ॥

कर्णौ पिधाय या नित्यं श्रोतुं शक्याऽखिलैः सदा ॥ इति तंत्रमालायाम् ॥