Bruhadaranyaka/C1/S2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== अश्वमेधब्राह्मणम् == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 19:05, 10 April 2026
अश्वमेधब्राह्मणम्
यतो देह इदं सर्वं तस्य विष्णोरदेहिनः ॥ तद्वशत्वात् स्वयं देवश्चिदानन्दशरीरकः । सोऽत्मानमर्चन्नचरदप्सृष्ट्यर्थं जनार्दनः ॥ यत्कुर्वन् यत्सृजेदीशस्तद्भवेद्धि तदात्मकम् । अतोऽर्चतो यतो जाता आपोऽतोऽर्चनसाधनाः ॥ अन्यथा कर्तुमीशोऽपि क्रीडया तत्तदात्मकम् ।
कर्तुं तत्तत्प्रवृत्तिः संस्तत्करोति स्वयं प्रभुः ॥ इति ब्रह्माण्डे ।सर्वाहेयत्वतस्त्वेकः सर्वस्य प्रतियोगितः ॥ युष्मच्छब्दाभिधेयश्च तच्छब्दैश्च परोक्षतः । स एव बहुरूपत्वाद् बहुशब्दाभिधानवान् ॥ जीवेस्थितेन रूपेण हृद्गतेन द्विधोच्यते । भिन्नोऽपि सर्वजीवेभ्यः सर्ववस्तुभ्य एव च ॥
पूर्णानन्दादिरूपस्य कुतोऽल्पसुखिनैकता ॥ इति ब्रह्मतर्के ।
पृथिवीत्वं समापन्नस्तस्यां शिश्ये जनार्दनः ॥ ततः स चिन्तयामास स्यादग्निरिति देवराट् । तच्चिन्तनात् समुत्पन्नो वायुरग्न्यभिधानवान् ॥
अग्रजत्वादग्रणीत्वाद्वायोरग्नित्वमिष्यते ॥ इति प्रवृत्ते ॥श्रमशब्दो हरेर्नैव शक्तिविस्रंसनं क्वचित् ॥
अतो हरेः श्रमो नाम शयनं सम्प्रकीर्तितम् ॥ इति ब्रह्मतर्के ।
नेतृत्वाददनाच्चापि तस्य स्रष्टा जनार्दनः ॥ स वायुर्वायुरूपेण जगत्पाति शरीरगः । आदित्यस्थेन रूपेण जगद्याति प्रकाशयन् ॥ अग्निस्थेन तु रूपेण हूयते सर्वयष्टृभिः । आदाय यात्यायुरिति स एवादित्य उच्यते ॥॥ तत्सम्बन्धात्तु तन्नाम सूर्यस्याग्नेस्तथैव च । स एष कूर्मरूपेण वायुरण्डोदके स्थितः ॥॥ विष्णुना कूर्मरूपेण धारितोऽनन्तधारकः । अस्य पादा हि चत्वारो ह्यण्डोदे कोणसंस्थिताः ॥ उरस्तु भूमिसंश्लिष्टमतिरिच्य भुवं पुनः । पार्श्वतः पृष्ठतश्चैव शिरश्चोदकसंस्थितम् ॥ आकाशमुदरे तस्य द्यौः पृष्ठे संस्थिता विभोः ।
एवंविद्वांस्तु यत्रैति तत्रैव प्रतितिष्ठति ॥ इति प्रभञ्जने ।उपास्ते कूर्मरूपं यो वायुं संस्थितिमाप्नुयात् ।
इच्छया विनिवृत्तिं वा लोकं चावृत्तिवर्जितम् ॥ इत्यध्यात्मे ।बिभर्त्यण्डं हरिः कूर्मस्त्वण्डे चाप्युदकं महत् । उदके कूर्मरूपस्य वायुः पुच्छं समाश्रितः ॥ वायोः पुच्छं समाश्रित्य शेषस्तु पृथिवीमिमाम् ।
बिभर्ति तस्यां च जगदिदं सर्वं प्रतिष्ठितम् ॥ इति वैभवे ।
सहैव जननेऽप्यस्मात्पूर्वं वायोर्जनिं वदेत् ।
क्वचित्तु ब्रह्मणः पूर्वं प्राधान्यात् तत्पदस्य च ॥ इति ब्रह्मतर्के ।मम द्वितीयो जायेत ब्रह्मेति भगवान् परः । वेदाभिमानिनीं देवीं श्रियं समभवत् प्रभुः ॥ स्वेच्छयैव यतः शक्तिस्तां विनाऽपि हरेः सदा । ततः संवत्सरो नाम ब्रह्मा समभवत् प्रभोः ॥ तं गर्भमुदरे बिभ्रद्यावत्संवत्सरं रमा । तं जातमत्तुं स्वमुखं विदार्य पुरुषोत्तमः ॥
श्रुत्वा रावं पुनस्तस्य व्यदधात् सृष्टये प्रभुः ॥ इति कारणविवेके ।तस्याभिमानिनी देवी तदैवोत्था चतुर्मुखात् ॥
वागीश्वरीति तामाहुर्वाचं चापि सरस्वतीम् ॥ इति भावतत्त्वे ।
अदितिर्नाम तेनासौ भगवान् पुरुषोत्तमः ॥ उपास्ते यः परं देवमेवमत्तीति सर्वदा । स्वयोग्यतानुसारेण सर्वात्ताऽसौ भवत्युत ॥ ब्रह्मरुद्रसुपर्णानां सर्वात्तृत्वं विशेषतः । प्रायेणात्तृत्वमिन्द्रादेरन्येषां दर्शनादिकम् ॥
बहुलस्येति योग्यत्वभेदादत्तृत्वमिष्यते ॥ इति मान्यसंहितायाम् ।भोक्ता विष्णुरिति ध्यायेत् सर्वात्तृत्वं हरेः स्मरेत् ॥
देवतानां च सर्वेषां सर्वात्तिध्यानमिष्यते ॥ इति प्रवृत्ते ॥ ५ ॥
श्रमात् तापाच्च देहं तं त्यक्तुमिच्छा बभूव ह ॥ इच्छया चाप्युदक्रामत् प्राणैः सह पितामहः । यशोवीर्यनिमित्तत्वात् प्राणास्तन्नामकाः स्मृताः ॥ अत्यल्पे चापि सञ्जाते श्रमेऽपि न तदिच्छया । तापे प्राणा निःसरन्ति सा च क्रीडा विभोः स्मृता ॥ बृंहमाणं शरीरं तु पुनर्दृष्ट्वा पितामहः ।
प्रवेष्टुं तच्छरीरं च कामयामास स प्रभुः ॥
ऐच्छत् तेनैव देही स्यामिति तस्मिन् विवेश च ॥ तस्मिन् प्रविश्य स ब्रह्मा द्वितीयं वपुरग्रहीत् । दृष्ट्वोपायं महायज्ञेऽथाश्वाकारं पितामहः ॥ श्वैतीभावात् परं यस्मात् तज्जज्ञेऽतोऽश्वनामकम् । यदर्थं श्वेततामाप तद्देहो मेध्यतामपि ॥ अश्वमेधः स यज्ञोऽभून्नाम्ना तेन तदा कृतः । श्वैतीभावं गते देहे पुनर्मेध्ये यतः स्थितः ॥ अतोऽश्वमेधनामाऽसौ ब्रह्मा शुभचतुर्मुखः । अश्वो भूत्वा यतो मेध्यः सोऽभवत् तेन वा स्मृतः ॥ मेधो यज्ञः समुद्दिष्टो याज्ञीयं मेध्यमुच्यते ।
शुद्धं मेध्यमथापि स्यादेवंविद्योऽश्वमेधवित् ॥
चारयामास रूपेण तदन्येन पुमात्मना ॥ सर्वस्मिन् भुवने चाब्दं तदन्ते परमात्मने । स्वस्मिन् स्थिताय सङ्कल्प्य यज्ञ आलभतात्मवान् ॥ अजादिकान् पशूनन्यदेवस्थपरमात्मने । कर्तृत्वेन पशुत्वेन यत्फलं तदशेषतः ॥ मम स्यादिति मन्वानः सोऽश्वरूपमधारयत् । अबुद्धिपूर्वमरणात् स्वर्गश्चापि पशोर्भवेत् ॥ ज्ञानपूर्वमृतेः पुंसः किमु वक्तव्यमित्यजः । एवं सूर्योऽप्यश्वमेधनामा संवत्सराभिधः ॥ सूर्ये स्थितो यतो ब्रह्मा ह्यश्वमेधाभिधः स्वयम् । सूर्ये ततत्वात् सूर्यात्मा ब्रह्मासौ परिकीर्तितः ॥ अग्नौ स्थितो यतः सोऽर्कस्तस्मादग्निरितीर्यते । ब्रह्मातता यतो लोकास्तदात्मानस्ततो मताः ॥ ब्रह्मसूर्याग्निलोकेषु व्याप्तैका देवता हरिः । तादृशं नृहरिं ज्ञात्वा पुनर्मृत्युं जयन्नसौ ॥ सदैव वर्तते ब्रह्मा पुनर्मृत्युर्मृतिः स्मृता । नैनं मृत्व्यात्मको मृत्युः प्राप्नोति हरिसेवनात् ॥ यस्मान्नृसिंहो मृत्योश्च मृत्युरात्माऽस्य वै भवेत् । आततत्वात् तथात्तृत्वादात्मासौ ब्रह्मणः स्मृतः ॥ आदानादात्तनिर्माणादात्तज्ञानात् तथैव च । एतासां देवतानां च ब्रह्मेशत्वेन वर्तते ॥
नृसिंहस्य सदा ज्ञानाद्ध्यानाच्च तदनुग्रहात् ॥ इति महासंहितायाम् ।