Bhagavatatatparyanirnaya/C12/S4: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== चतुर्थोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 19:05, 10 April 2026
चतुर्थोऽध्यायः
न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ॥ २० ॥
न यत्र वाच इत्यादि कालाख्यस्य ब्रह्मणः स्वरूपम् ॥ २० ॥
बुद्धेर्जागरणं स्वप्नः सुषुप्तिरिति होच्यते ।मायामात्रमिदं राजन् नानात्वं प्रत्यगात्मनि ॥ २५ ॥
'प्रत्येकं विष्णुरूपाणां भ्रान्तिमात्रा भिदा मता ।
जगतश्चैव विष्णोश्च सत्यो भेदः सदैव तु ॥ यथाऽऽकाशघटौ नित्यं भिन्नावेव परस्परम् ।
एवमीशो जगच्चैव भिन्नावेव परस्परम्॥ इति च ॥ २५ ॥एते ह्यवयवाः प्रोक्ताः सर्वावयविनामिह ।विनाऽर्थेन प्रतीयेरन् पटस्येवाङ्ग तन्तवः ॥ २७ ॥
'अवयव्यवयवाभेदात् कोट्यंशो भेद ईरितः ।
सोऽपि भेदो न चाभेदात् पृथगेव प्रवर्तते ॥ अवयव्यवयवानां च कार्यकारणवस्तुनाम् ।
एक एव नियन्ताऽसौ हरिर्नारायणः परः॥ इति च ॥ २७ ॥न हि सत्यस्य नानात्वमविद्वान् यदि मन्यते ।नानात्वं छिद्रयोर्यद्वज्ज्योतिषोर्वा तयोरपि ॥ ३० ॥
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये द्वादशस्कन्धे चतुर्थोऽध्यायः ॥
'महाकाशो बहिस्थश्च घटाद्यन्तःस्थ एव च ।
द्वेधा समुदितोऽन्यौ च द्वावाकाशौ प्रकीर्तितौ ॥ घटरूपस्तदन्यश्च महाकाशात् परो लघुः । महाकाशवदेवात्र परमात्मा सनातनः ॥ घटान्तःस्थमहाकाशप्रतिमोऽन्तर्गतो हरिः । घटस्यान्तर्गताकाशो महाकाशात् परो मतः ॥ तद्वद्देवादयः सर्वे जीवा मुक्त्युपयोगिनः ।
तमोगाश्चैव ये सर्वे घटरूपखवन्नराः॥ इति तत्त्वसंहितायाम् ॥३०॥