Jump to content

Bhagavatatatparyanirnaya/C10/S27: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== सप्तविंशोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 19:02, 10 April 2026

सप्तविंशोऽध्यायः

दुस्सहप्रेष्ठविरहतीव्रतापधुताशुभाः ।ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ १० ॥


तमेव परमात्मानं जारबुद्ध्याऽपि सङ्गताः ।जहुर्गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ ११ ॥


राजोवाच– कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां कथम् ॥ १२ ॥


श्रीशुक उवाच– उक्तं पुरस्तादेेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ १३ ॥


नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप ।अव्यक्तस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥ १४ ॥


कामं क्रोधं भयं स्नेहं मैत्रीं सौहृदमेव च ।नित्यं हरौ विदधतो यान्ति तन्मयतां हि ते ॥ १५ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे सप्तविंशोऽध्यायः ॥
'कृष्णकामास्तदा गोप्यस्त्यक्त्वा देहं दिवं गताः ।

सम्यक्कृष्णं परं ब्रह्म ज्ञात्वा कालात्परं ययुः । पूर्वं च ज्ञानसंयुक्तास्तत्रापि प्रायशस्तथा ॥ अतस्तासां परं ब्रह्म गतिरासीन्न कामतः । न तु ज्ञानमृते मोक्षो नान्यः पन्थेति हि श्रुतिः ॥ कामयुक्ता तदा भक्तिर्ज्ञानं चातो विमुक्तिगाः । अतो मोक्षेऽपि तासां च कामो भक्त्याऽनुवर्तते ॥ अतोदकत्वेन सदा द्वेषिणामधरं तमः । मुक्तिशब्दोदितं चैद्यप्रभृतौ द्वेषभागिनः ॥ भक्तिभागी पृथङ्मुक्तिमगाद्विष्णुप्रसादतः । कामस्त्वशुभकृच्चापि भक्त्या विष्णोः प्रसादकृत् ॥ द्वेषिजीवयुतं चापि भक्तं विष्णुर्विमोचयेत् । अहोऽतिकरुणा विष्णोः शिशुपालस्य मोक्षणात्॥ इति स्कान्दे ॥ जगत्प्रपितामहे जारबुद्धिर्न युक्ता तथापि ॥ ब्रह्मतया न सम्यक् । 'प्रेष्ठो भवांस्तनुभृतां सुहृदन्तरात्मा 'रमाया दत्तक्षणम्इत्यादिवचनात् ॥ कामिनः कामित्वं क्रोधिनः क्रोधित्वमेव सर्वदा भवतीति तन्मयता । 'विमुक्तावपि कामिन्यो विष्णुकामा व्रजस्त्रियः । द्वेषिणश्च हरौ नित्यं द्वेषेण तमसि स्थिताः॥ इति च । 'भक्त्या हि नित्यकामित्वं न तु मुक्तिं विना भवेत् । अतः कामितया वाऽपि मुक्तिर्भक्तिमतां हरौ ॥ स्नेहभक्ताः सदा देवाः कामित्वेनाप्सरस्त्रियः । काश्चित्काश्चिन्न कामेन भक्त्या केवलयैव तु ॥ मोक्षमायान्ति नान्येन भक्तिं योग्यां विना क्वचित्॥ इति पाद्मे । 'भक्त्या वा कामभक्त्या वा मोक्षो नान्येन केनचित् । कामभक्त्याऽप्सरस्त्रीणामन्येषां नैव कामतः ॥ उपास्यः श्वशुरत्वेन देवस्त्रीणां जनार्दनः । जारत्वेनाप्सरस्त्रीणां कासांचिदिति योग्यता ॥ योग्योपासां विना नैव मोक्षः कस्यापि सेत्स्यति । अयोग्योपासनाकर्तुरनर्थश्च भविष्यति ॥ तस्मात्तु योग्यतां ज्ञात्वा हरेः कार्यमुपासनम्॥ इति भद्रिकायाम् । 'पतित्वेन श्रियोपास्यो ब्रह्मणा मे पितेति च । पितामहतयाऽन्येषां त्रिदशानां जनार्दनः ॥ प्रपितामहो मे भगवानिति सर्वजनस्य तु । गुरुः श्रीब्रह्मणोर्विष्णुः सुराणां च गुरोर्गुरुः ॥ मूलभूतो गुरुः सर्वजनानां पुरुषोत्तमः । गुरुर्ब्रह्माऽस्य जगतो दैवं विष्णुः सनातनः ॥

इत्येवोपासनं कार्यं नान्यथा तु कथञ्चन॥ इति वाराहे ॥१०-१५॥