Jump to content

Bhagavatatatparyanirnaya/C10/S4: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== चतुर्थोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 19:02, 10 April 2026

चतुर्थोऽध्यायः

स एव स्वप्रकृत्येदं सृष्ट्वाऽग्रे त्रिगुणात्मकम् ।तदनु त्वं ह्यप्रविष्टः प्रविष्टः इव भाव्यसे ॥ १५ ॥


'बहिश्च विद्यमानत्वादप्रविष्टो जगद्धरिः ।

प्रविष्टवच्च तत्रैव पूर्णरूपत्वतो विभुः ॥ अप्रवेशः प्रवेशश्च प्रविष्टोपमता तथा ।

बहिरन्तर्गतस्य स्यादित्याहुः शब्दवेदिनः॥ इति च ॥ १५ ॥
य एतेऽविकृता भावाः सप्त ते विकृतैः सह ।नानावीर्याः पृथग्भूता विराजं शयनं तव ॥ १६ ॥


सन्निपत्य समुत्पाद्य दृश्यन्तेऽनुगता इव । प्रागेव विद्यमानत्वान्न तेषामिह सम्भवः ॥ १७ ॥


'महदादिस्त्वविकृत ईषद्विकृतरूपतः। इति च ॥

अनुगता इव प्रविष्टा इव । पूर्वोक्तवद्बहिरपि विद्यमानत्वात् । अन्तश्च देवतानामविभक्तशक्तित्वात्पूर्वोत्पन्नत्वात्तत्त्वानामण्डप्रवेशमात्रम् । व्यक्तिविशेषादुत्पत्तिरित्युपचर्यते । अण्डजो ब्रह्मेत्यादि । 'महद्रूपादिना ब्रह्मा देवाश्चैव प्रजज्ञिरे ।

अण्डे त्वेषामभिव्यक्तिर्जनिरित्यभिधीयते॥ इति च ॥ १६,१७ ॥
एवं भवान् बुद्ध्यनुमेयलक्षणोग्राह्यैर्गुणैः सन्नपि तद्गुणाग्रहः ।


ग्राह्यगुणविषयबुध्द्यनुमेयलक्षणः । ग्राह्यगुणेष्वस्वातन्त्र्यात्तज्ज्ञापकोऽ- न्योऽस्तीति ज्ञायते ।

'ज्ञाताऽपि सर्वभावानां ज्ञायते ज्ञानलिङ्गतः । जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यप्रतीतितः ॥ सर्वत्राव्यवधानेन द्रष्टृत्वात्सर्ववस्तुनः । आन्तरं बाह्यमित्येव विशेषो नास्ति कश्चन ॥इति तन्त्रभागवते । जीवस्य ग्रहणशक्तिरपि तस्येत्यपिशब्दः । एवं शरीरमुत्पाद्य ज्ञायसे । सर्वस्य सम्पूर्णस्य । 'सर्वः सम्पूर्णसामर्थ्यात्सर्वात्मा सर्वभक्षणात् । अनन्याश्रयतश्चात्मवस्तुत्वमभिधीयते॥ इति च ।

आत्मन्येव वासादात्मवस्तु ॥ १८ ॥
यदात्मनो दृश्यगुणेषु सन्निधे-र्व्यवस्यसेऽस्वव्यतिरेकतोऽबुधैः ।


परमात्मनोऽपि शरीरे सन्निधानादेवाबुधैरस्वव्यतिरेकतो ज्ञायसे । यथानुकूल- वादं वेदवचनं विना प्रवर्तमानं न तन्मनीषितम् । सम्यक् ।

'अभी३दमेकमेको अस्मि निष्पाभीद्वा किमु त्रयः करन्ति । खलेन पर्षान्प्रतिहन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः इति जीवेशयोर्भेदे व्यक्तं वचः परः पुमानुपाददे । 'प्रविष्टत्वाच्छरीरेषु जीव एवेति दुर्धियः । मन्यन्ते परमात्मानं न तन्मतमनुव्रजेत् ॥ वेदवादविरोधित्वादनुयाता तमो विशेत् । यतः पर्यङ्कशयन आह विष्णुः सनातनः ॥ इदं जगत्सर्वमथेदृशानि भूरीणि वा मामभियान्ति सङ्ख्ये । धान्यानि यद्वत्खलगानि मर्त्याः सञ्चूर्णयिष्याम्यहमेक एव॥ इति ब्रह्माण्डे । चेति फलतोऽपि तमो यान्तीति । 'ऐकात्म्यज्ञानतो यान्ति तमो भेदात्परं पदम् ।

स्वातन्त्र्यपारतन्त्र्यादिज्ञानं भेददृशिर्भवेत्॥ इति ब्रह्मवैवर्ते ॥ १९ ॥
त्वत्तोऽस्य जन्मस्थितिसंयमान् विभोवदन्त्यनीहादगुणादविक्रियात् ।


'अनीहोऽक्लिष्टकारित्वात्तथाऽविकृत एव सन् ।

सर्वं करोति तद्युक्तमैश्वर्यात्पूर्णशक्तितः॥ इति ब्राह्मे । अगुणश्चेत्कथं गुणैः सृष्ट्यादिकृदिति तदाश्रयत्वात् । 'अगुणोऽगुणदेहत्वात्सगुणो गुणधारणात् ।

ऐश्वर्यादिगुणत्वाद्वा वासुदेव इतीर्यतेइत्याग्नेये ॥ २० ॥
सत्त्वं त्रिलोकस्थितये स्वमाययाबिभर्षि शुक्लं खलु वर्णमात्मनः ।


'जगतां वर्धयन्सत्वं यदा रक्षति केशवः ।

हयग्रीवादिरूपेण शुक्लवर्णस्तदा विभुः ॥ वर्धयंस्तु रजो येन जगदुत्पादयेद्धरिः । तद्रक्तं जामदग््य्रादिरूपं येन विनाशयेत् ॥ वर्धयंस्तु तमो लोके तत्कृष्णं यादवादिकम् । सर्वत्र सर्वं कुरुते विशेषस्तत्र कीर्तितः ॥ ज्ञानदानादिना रक्षा महतां सम्प्रकीर्तिता । रागदानेन महतां सृष्टिः सृष्टिरुदीर्यते ॥ असतां तु तनोर्वृद्धिं कुर्वन्पातयते यदा । सतां विवर्धनार्थाय कृष्णरूपी तदा हरिः ॥ ज्ञानाद्युत्पत्तिकृच्चापि रूपं रक्तं विभोः स्मृतम् । तमोविनाशकमपि कृष्णं विष्णोरुदाहृतम् ॥ आचार्यादिषु रागार्थे शुद्धसत्वात्मकं रजः । यतो व्यपेक्षितं नाशे तमसोऽपि ततः परम् ॥ तमो द्वेषात्मकं शुद्धं सत्वात्मकमुदीर्यते । एवं सृतिगतानां तु रागाद्या न गुणोद्भवाः ॥ शुद्धज्ञानात्मकाः सर्वे मुक्तानां नात्र संशयः । सर्वत्र सर्वकृच्चापि हयग्रीवादिरूपकः ॥ ज्ञानादिरक्षको विष्णुर्जामदग्न््यादिरूपवान् । ज्ञानाद्युत्पादको नित्यं कृष्णादिर्दोषनाशकः ॥ एकरूपोऽपि भगवान्बहुरूप इवेयते । अचिन्त्यैश्वर्यरूपत्वात्पूर्णानन्दैकरूपकः ॥इति ब्रह्मतर्के । 'स्वेच्छया तु गुणान्विष्णुर्नानारूपान्करोत्यजः ।

गुणानामाश्रयत्वात्तु भवेत्स गुणबृंहितः॥ इति तन्त्रभागवते ॥ २१ ॥
त्वमस्य लोकस्य विभो रिरक्षिषु-र्गृहेऽवतीर्णोऽसि ममाखिलेश्वर ।


'सतां सुखविवृद्ध्यर्थमसतां पीडनं हरेः ।

यावच्चासुरदुःखं स्यात्तावद्देवसुखं भवेत् ॥ तत्रापि तारतम्येन ब्रह्मणोऽभ्यधिकं सुखम् । यावत्क्षीणं तमस्तावत्प्रकाशस्य तु वर्धनम् ॥ सर्वस्माच्च कलेः पीडा ब्रह्मणोऽभ्यधिकं सुखम् ।

तस्मात्सतां रक्षणाय सर्वकर्म हरेः स्मृतम्॥ इति ब्रह्मतर्के ॥२२॥
देवक्युवाच– रूपं यत् तत् प्राहुरव्यक्तमाद्यं ब्रह्म ज्योतिर्निर्गुणं निर्विकारम् । सत्तामात्रं निर्विशेषं निरीहं स त्वं साक्षाद् विष्णुरध्यात्मदीपम् ॥ २५ ॥


'सर्वाशुभविनिर्मुक्तगुणमात्रो यतो हरिः ।

सत्तामात्रमतः प्राहुर्निर्विशेषोऽखिलोत्तमः । अनादरान्निरीहश्च सेहः सर्वकृती यतः॥ इति तन्त्रभागवते ॥

यस्य तद्रूपं सत्वम् । 'सप्तसु प्रथमा॥ इति सूत्रात् ॥ २५ ॥
नष्टे लोके द्विपरार्धावसानेमहाभूतेष्वादिभूतं गतेषु ।


अशेषसंज्ञः सर्वनामा ॥ २६ ॥
योऽयं कालस्तस्य तेऽव्यक्तबन्धोचेष्टामाहुश्चेष्टते येन विश्वम् ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये दशमस्कन्धे चतुर्थोऽध्यायः ॥
चेष्टते अनेनेति चेष्टा ॥ २७ ॥