Bhagavatatatparyanirnaya/C4/S25: Difference between revisions
Appearance
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
== पञ्चविंशोऽध्यायः == | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 19:00, 10 April 2026
पञ्चविंशोऽध्यायः
प्राचीनबर्हिषं क्षत्तः कर्मस्वासक्तमानसम् ।नारदोऽध्यात्मतत्वज्ञः कृपालुः प्रत्यबोधयत् ॥ ३ ॥
नारद उवाच–श्रेयस्त्वं कतमद् राजन् कर्मणाऽऽत्मन ईहसे ।
प्राचीनबर्हिरुवाच–न जानामि महाभाग परं कर्मापविद्धधीः ।
भो भो प्रजापते राजन् पशून् पश्य त्वयाऽध्वरे ।संज्ञापितान् जीवसङ्घान् निर्घृणेन सहस्रशः ॥ ७ ॥
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव ।सम्परेतमयः कूटैश्छिन्दन्त्युत्थितमन्यवः ॥ ८ ॥
'यथावत्कर्म कर्तुस्तु ज्ञानसाहाय्यकारकम् ।
अन्यथाकुर्वतः कर्म निरयाय भविष्यति ॥ तथापि कर्म निन्दन्ति न यतः कर्तुमञ्जसा ।
शक्यं ज्ञानफलस्यापि बहुत्वान्मोहनाय च॥ इति ब्रह्माण्डे ॥३-८॥आसीत् पुरञ्जनो नाम राजा राजन् बृहच्छ्रवाः ।तस्याविज्ञातनामाऽऽसीत् सखाऽविज्ञातचेष्टितः ॥ १० ॥
स एकदा हिमवतो दक्षिणेष्वथ सानुषु ।ददर्श नवभिर्द्वारैः पुरीं लक्षितलक्षणाम् ॥ १३ ॥
'देवजीवाभिमानी तु ब्रह्मैव तु चतुर्मुखः ।
मानुषाणां तु जीवानामभिमानी पुरञ्जनः ॥ स तु राजा हरेः पुत्रस्त्वासुराणां कलिः स्वयम् । जीवसंसृतिवत्तस्मात्पुरञ्जनकथापि तु ॥ तस्माज्जीवसृतिज्ञप्त्यै पुरञ्जनकथां मुनिः । नारदोऽश्रावयद्विद्वान्नृपं प्राचीनबर्हिषम् ॥ प्रायस्तु तत्कथा जीवे स्थिता प्रत्येकशोऽपि तु । प्रत्येकं यत्तु युज्येत तदुन्नेयं यथा तथा ॥ उक्तं भागवतेऽप्येतत्पुराणे यावदिष्यते ।
प्रत्येकशस्तु जीवानां तदन्यत्तस्य केवलम्॥ इति तन्त्रभागवते ॥ १०,१३ ॥यदृच्छयाऽऽगतां तत्र ददर्श प्रमदोत्तमाम् ।भृत्यैर्दशभिरायान्तीमेकैकशतनायकैः ॥ २० ॥
तेषां परिवृढो राजन् सर्वेषां बलिमुद्वहन् ।सस्त्रीकाणां सखा तस्या बहुरूपोऽग्रणीः स्त्रियः ॥ २१ ॥
नारद उवाच–
इति तौ दम्पती तत्र समुह्य समयं मिथः । तां प्रविश्य पुरीं राजन् मुमुदाते शतं समाः ॥ ४४ ॥ 'ये पुरञ्जनभृत्याद्या भार्याद्याः सर्व एव च । तेऽपि मानुषबुध्द्यादेर्विज्ञेया अभिमानिनः ॥ गायत्र्याद्यास्तु देवानां तेऽपि चैतेषु संस्थिताः ।
अलक्ष्मीद्वापराद्यास्तु आसुरास्तेऽपि मानुषाः॥ इति च ॥ २०,२१,४४ ॥पितृभूर्नृप पुर्या द्वा दक्षिणेन पुरञ्जनः ।राष्ट्रं दक्षिणपाञ्चालं याति श्रुतधरान्वितः ॥ ५१ ॥
देवभूर्नाम पुर्या द्वा उत्तरेण पुरञ्जनः ।राष्ट्रमुत्तरपाञ्चालं याति श्रुतधरान्वितः ॥ ५२ ॥
॥ इति श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे पञ्चविंशोऽध्यायः ॥
'दक्षिणश्रोत्रमार्गेण देवलोकं व्रजत्यसौ ।
वामश्रोत्रेण पितृणामिति वेदविदो विदुः॥ इति प्रवृत्तितन्त्रे ॥ ५१,५२ ॥