Jump to content

Bhagavatatatparyanirnaya/C4/S13: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== चतुर्दशोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 19:00, 10 April 2026

चतुर्दशोऽध्यायः

तं सर्वलोकामरयज्ञसंग्रहंत्रयीमयं द्रव्यमयं तपोमयम् ।


सर्वलोकादीन् सङ्गृह्णातीति तत्सङ्ग्रहः ।

'सर्वस्य ग्रहणाद्विष्णुः सर्वसङ्ग्रह उच्यते । वेदस्य तद्वक्तृकत्वात्प्राधान्यं तु त्रयीमयः ।

सर्वं तद्विषयत्वेन मुख्यं सर्वमयस्ततःइति स्कान्दे ॥ २२ ॥
यज्ञेन युष्मद्विषये द्विजातिभि-र्वितायमानेन सुराः कला हरेः ।


'विष्णोः सन्निहितत्वात्तु सर्वे देवा हरेः कलाः। इति च ॥ २३ ॥
वेन उवाच–अवजानन्ति ये मूढा नृपरूपिणमीश्वरम् ।


तस्मान्मां कर्मभिर्विप्रा यजध्वं गतमत्सराः ।बलिं च मह्यं हरत मत्तोऽन्यः कोऽग्रभुक् पुमान् ॥ २९ ॥


'अहं ब्रह्मेति वेनस्तु ध्यायन्नापाधरं तमः ।

तद्राद्धान्तो महीं व्याप्तो भेर्या ख्यापयतोऽनिशम् ॥ आसुरा राक्षसाश्चैव पिशाचास्तत्पथि स्थिताः । भूमौ तत्पृथुना सर्वं निरस्तं महितात्मना ॥ पुनः कलियुगे प्राप्ते अष्टाविंशतिमे मनोः । वैवस्वतस्य समये जाताः क्रोधवशा भुवि ।

ख्यापयन्ति दुरात्मनो मणिमांस्तत्पुरःसरः॥ इति भविष्यत्पुराणे ॥ २४,२९ ॥
विनिश्चित्यैवमृषयो विपन्नस्य महीपतेः ।ममन्थुरूरुं तरसा तत्रासीद् बाहुको नरः ॥ ४४ ॥


तं तु तेऽवनतं दृष्ट्वा किं करोमीति वादिनम् ।निषीदेत्यब्रुवंस्तात स निषादस्ततोऽभवत् ॥ ४६ ॥


तस्य वंश्यास्तु नैषादा गिरिकाननगोचराः ।योऽपाहरज्जायमानो वेनकल्मषमुल्बणम् ॥ ४७ ॥


'त्र्यंशो वेनः समुद्दिष्टः सत्वांशः पृथुतामगात् ।

रजोंऽशश्च दिवं यातो निषादस्तामसोऽभवत् । स्वयं वेनश्चतुर्थस्तु महातमसि पातितः॥ इति कौर्मे । 'पापरूपी पृथग्जातो निषादो वेनदेहतः ।

यस्मात्तस्मात्पृथोः पुत्राद्रजो वेनो दिवं ययौ॥ इति गारुडे ॥ ४४-४७ ॥
ऋषय ऊचुः –एष विष्णोर्भगवतः कला भुवनपावनी ।


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे चतुर्दशोऽध्यायः ॥
'पृथुहैहयादयो जीवास्तेष्वाविष्टो हरिः स्वयम् ।

विशेषावेशतस्तेषु साक्षाद्धर्यंशतावचः ॥ किंस्तुघ्नव्यासऋषभकपिला मत्स्यपूर्वकाः । आकूतिजैतरेयौ च धर्मजत्रयमेव च ॥ धन्वन्तरिर्हयग्रीवो दत्तात्रेयश्च तापसः । स्वयं नारायणस्त्वेते नाणुमात्रविभेदिनः । बलतः स्वरूपतश्चैव गुणैरपि कथञ्चन॥ इति तत्त्वनिर्णये । 'तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः । नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव्रजेत् ॥ साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित् ।

गोप्यादिरूपा भवति विपरीतं न तु क्वचित्॥ इति च ॥ ५० ॥