Jump to content

Bhagavatatatparyanirnaya/C3/S28: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== अष्टाविंशोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 19:00, 10 April 2026

अष्टाविंशोऽध्यायः

प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् ।वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥


'अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः॥ इति भारते ॥ ५ ॥
निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।उपलभ्यात्मनात्मानं चक्षुषेवार्कमेकदृक् ॥ ११ ॥


बुद्धेरवस्थानं निद्रादि ॥ ११ ॥
मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते ।सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥


असति प्रलये ॥ १२ ॥
एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः ।स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥


'शेषस्य प्रतिबिम्बास्तु देवाः शेषस्तु ब्रह्मणः ।

स परब्रह्मणश्चैव ते स्वबिम्बप्रदर्शकाः ।

ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनम्॥ इति ब्रह्मतर्के ॥ १४ ॥
भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः ॥ १५ ॥


यो विनिद्रः स सत्यदृक् ॥ १५ ॥
मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।नष्टेऽहङ्करणे द्रष्टा नष्टवित्त इवातुरः ॥ १६ ॥


यः अनष्टो नष्टवन्नाज्ञासिषमिति मन्यमानः स आतुरो द्रष्टा जीवः ॥१६॥
एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥
साहङ्कारं द्रव्यं जीवः तस्यावस्थानमनुग्राहकश्च परमात्मा ।

'नित्यदृक्परमात्माऽसौ मृतवद्यो न किञ्चन ।

जानाति जीवः स ज्ञेयः परमात्मा तदाश्रयः"॥ इति हरिवंशेषु ॥१७॥