Jump to content

Bhagavatatatparyanirnaya/C1/S16: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== षोडशोऽध्यायः ==
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 18:59, 10 April 2026

षोडशोऽध्यायः

शौनक उवाच—कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।


कोऽसौ इत्याक्षेपः । कलिम् इत्युक्तत्वात् ॥ ५ ॥
तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् ।अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥


अथ इति पक्षान्तरे । वा यदि ॥ ६ ॥
किमन्यैरसदालापैरायुषो यदसद्व्ययः ।क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृतिच्छताम् ॥ ७ ॥


अन्यथा चेदायुषोऽसद्व्ययः इत्यर्थः । 'यद्यर्थे च विकल्पार्थे वाशब्दः समुदीर्यतेइति नाममहोदधौ ॥ ७ ॥
एतदर्थं हि भगवान् आहूतः परमर्षिभिः ।अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥


एतदर्थं हि मृत्युरुपहूतः । अहो नृलोके पीयेत इति ॥ ९ ॥
सारथ्यपार्षदसेवनसख्यदौत्य-वीरासनानुगमनस्तवनप्रणामैः ।


स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति ॥ १७ ॥
धरोवाच—सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् ।


ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥


त्यागो मिथ्याभिमानवर्जनम् ।

'मिथ्याभिमानविरतिस्त्याग इत्यभिधीयतेइति नारायणाध्यात्मे ॥ एकान्ततः शुभभागित्वं सौभाग्यम् । 'शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययःइति गीताकल्पे । 'शमः प्रियादिबुद्ध्युज्झा क्षमा क्रोधाद्यनुत्थितिः । महाविरोधकर्तुश्च सहनं तु तितिक्षणम्॥ इति पाद्मे । 'स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रियेइति च पाद्मे । 'प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित् ।

स्वयमेव यतः कर्ता शान्तोऽतो हरिरीश्वरः। इति ब्रह्मतर्के ॥ २७,२८ ॥
प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥ २९ ॥


मानः परेषाम् ॥ २९ ॥
इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।प्रार्थ्या महत्वमिच्छद्भिः न च यान्ति स्म कर्हिचित् ॥३०॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये प्रथमस्कन्धे षोडशोऽध्यायः ॥
'गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः । न विष्णोर्न च मुक्तानां कोऽपि भिन्नो गुणो मतः॥ इति ब्रह्मतर्के ।