Jump to content

Anubhashya/C1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
== प्रथमोध्यायः ==
<div class="gr-page-nav">[[Anubhashya|ब्रह्मसूत्राणुभाष्यम्]] · [[Anubhashya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BSAB
| document_id  = BSAB

Revision as of 18:58, 10 April 2026

प्रथमोध्यायः

नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्। ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥1॥

विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्‌॥ १॥


प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥


सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥


सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन्‌ हृदब्जगः।सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥


ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः।पतित्वादिगुणैर्युक्तः तदन्यत्र च वाचकैः॥ ५॥


मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः॥ ६॥


अवान्तरं कारणं च प्रकृतिः शून्यमेव च।इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।


॥ इति प्रथमोऽध्यायः॥