Jump to content

Bruhadaranyaka/C3/S1: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bruhadaranyaka|बृहदारण्यकोपनिषत्]] · [[Bruhadaranyaka/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BR
| document_id  = BR

Revision as of 09:43, 10 April 2026

जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुस्तस्य ह जनकस्य वैदेहस्य विजिज्ञासा बभूव कःस्विदेषां ब्राह्मणानां अनूचानतमः इति स ह गवां सहस्रमवरुरोध दश दश पादाः एकैकस्याः शृंगयोराबद्धा बभूवुः ॥ १ ॥


तान् होवाच ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति ते ह ब्राह्मणा न दधृषुरथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैताः सौम्योदज सामश्रवा३ इति ता होदाचकार ते ह ब्राह्मणाश्चुक्रुधुः कथं नो ब्रह्मिष्ठो ब्रवीतेत्यथ ह जनकस्य वैदेहस्य होता आश्वलो बभूव । सहैनं पप्रच्छ त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी३ इति स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयं स्म इति तं ह तत एव प्रष्टुं दध्रे होताऽश्वलः ॥ २ ॥


याज्ञवल्क्येति होवाच । यदिदं सर्वं मृत्युनाऽऽप्तं सर्वं मृत्युनाऽभिपन्नं केन यजमानो मृत्योराप्तिमतिमुच्यत इति होत्रर्त्विजाऽग्निना वाचा वाग्वै यज्ञस्य होता तद्येयं वाक् सोऽयमग्निः स होता स मुक्तिः साऽतिमुक्तिः ॥ ३ ॥


याज्ञवल्क्येति होवाच । यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नं केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यत इत्यध्वर्युणार्त्विजा चक्षुषाऽऽदित्येन चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः सोऽसावादित्यः सोऽध्वर्युः स मुक्तिः साऽतिमुक्तिः ॥ ४ ॥


याज्ञवल्क्येति होवाच । यदिदं सर्वं पूर्वपक्षमपरपक्षाभ्यामाप्तं सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नं केन यजमानः पूर्वपक्षापरपक्षायोराप्तिमतिमुच्यत इत्युद्गात्रर्त्विजा वायुना प्राणेन प्राणो वै यज्ञस्योद्गाता तद्योऽयं प्राणः स वायुः स उद्गाता स मुक्तिः साऽतिमुक्तिः ॥ ५ ॥


याज्ञवल्क्येति होवाच । यदिदमन्तरिक्षमनारम्भणमिव केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति ब्रह्मणर्त्विजा मनसा चंद्रेण मनो वै यज्ञस्य ब्रह्मा तद्यदिदं मनः सोऽसौ चंद्रः स ब्रह्मा स मुक्तिः साऽतिमुक्तिरित्यतिमोक्षाः ॥ ६ ॥


होतर्यग्नौ वाचि चैव यो विष्णुं मुक्तिदं स्मरेत् ।

नित्यं स मुच्यतेऽध्वर्युसूर्यचक्षुष्षु यः स्मरेत् ॥ अधिकः प्रकाश एवास्य मुक्तावन्येभ्यः इष्यते । मुक्तेभ्योऽपि तथोद्गातृवायुप्राणेषु यः स्मरेत् ॥ पूर्णचंद्रं सदा पश्येदधिकाह्लादसंयुतः । मनोब्रह्मनिशेशेषु यो विष्णुं सर्वदा स्मरेत् ॥ अप्रयत्नेन लोकं स विष्णोर्याति न संशयः । होत्रग्न्यादीनि नामानि विष्णोः सर्वाणि मुख्यतः ॥ तत्सम्बन्धात् तदन्येषां स वै होत्रादिकर्मकृत् । तस्माद्धोत्राग्निवागादेरैक्यं श्रुतिषु चोच्यते ॥ होत्रादिषु चतुर्ष्वेष वासुदेवादिरूपधृक् । व्यवस्थितो हि तज्ज्ञानादचिरान्मुक्तिमेष्यति ॥ मुक्तिनामा स भगवान् मोक्षदत्वात् प्रकीर्तितः । मनुष्येभ्योऽधिकसुखं देवेभ्यो यत्प्रयच्छति ॥ मुक्तावप्यतिमोक्षः स तेन देवः प्रकीर्तितः । एता ह्युपासना नित्यं नैव योग्या नृणां श्रुताः ॥

अतिमुक्तिप्रदा यस्माद्देवाद्यास्तासु योगिनः ॥
अथ सम्पदः याज्ञवल्क्येति होवाच । कतिभिरयमद्यर्ग्भिर्होता अस्मिन् यज्ञे करिष्यतीति तिसृभिरिति कतमास्तास्तिस्रः इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया किं ताभिर्यजतीति यत्किञ्चेदं प्राणभृदिति ॥ ७ ॥


याज्याशस्यापुरोवाक्यासंस्थितं यो हरिं स्मरेत् ॥ सर्वप्राणभृतामीशः स भवेन्नात्र संशयः ॥
याज्ञवल्क्येति होवाच । कत्ययमद्याध्वर्युरस्मिन् यज्ञे आहुतीर्होष्यतीति तिस्र इति कतमास्तास्तिस्र इति या हुता उज्जवलन्ति या हुता अतिनेदन्ते या हुता अतिशेरते किं ताभिर्जयतीति या हुता उज्ज्वलन्ति देवलोकमेव ताभिर्जयति दीप्यत इव हि देवलोको या हुता अतिनेदन्ते पितृलोकमेव ताभिर्जयत्यतीव हि पितृलोको या हुता अधिशेरते मनुष्यलोकमेव ताभिर्जयत्यध इव हि मनुष्यलोकः ॥ ८ ॥


उज्ज्वलच्छब्दवद्द्राविष्वेकमेव हरिं स्मरेत् ॥ सर्वलोकाधिपत्यं स लभते पुरुषोत्तमात् ॥
याज्ञवल्क्येति होवाच । कतिभिरयमद्य ब्रह्मा यज्ञं दक्षिणतो देवताभिर्गोपायतीत्येकयेति कतमा सैकेति मन एवेत्यनन्तं वै मनोऽनन्ता विश्वे देवा अनन्तमेव स तेन लोकं जयति ॥ ९ ॥


मनसो देवता ब्रह्मा सर्वदेवेषु संस्थितः ॥

देवब्रह्ममनस्स्वेकं यो विष्णुं सर्वदा स्मरेत् । अनन्तनामकं तेन तल्लोकं नित्यमश्नुते ॥ निश्चयेन विमोक्ष्यत्वाद्विश्वे देवा अनन्तकाः ।

अनन्तनामकं विष्णुमुपास्यापि ह्यनन्तकाः ॥
याज्ञवल्क्येति होवाच । कत्ययमद्योद्गाताऽस्मिन् यज्ञे स्तोत्रियाः स्तोष्यतीति तिस्र इति कतमास्तास्तिस्र इति पुरोनुवाक्या च याज्या च शस्यैव तृतीया कतमास्ता या अध्यात्ममिति प्राण एव पुरोनुवाक्या अपानो याज्या व्यानः शस्या किं ताभिर्जयतीति पृथिवीलोकमेव पुरोनुवाक्यया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होता आश्वल उपरराम ॥ १० ॥


॥ इत्याश्वलब्राह्मणम् ॥
॥ इति आश्वलब्राह्मणम् ॥
पुरोवाक्यादिषु प्राणादिषूपासां करोति यः ।

एकमेव हरिं लोकव्याप्तिमेव लभेदसौ ॥ अत्रापि वासुदेवाद्याश्चत्वारो देवताः स्मृताः । देवानां पदहेतुत्वात् सम्पन्नाम्न्य उपासनाः ॥ मुक्तौ भोगविशेषस्य हेतुत्वाच्च प्रकीर्तिताः । एताश्च देवतायोग्या न मनुष्येषु कुत्रचित् ॥

मनुष्याणां ज्ञानमात्राद् गुणाधिक्यं भविष्यति ॥इति परमश्रुतौ ॥