Bruhadaranyaka/C2/S2: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
__TOC__ | |||
<div class="gr-page-nav">[[Bruhadaranyaka|बृहदारण्यकोपनिषत्]] · [[Bruhadaranyaka/Toc|अनुक्रमणिका]]</div> | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BR | | document_id = BR | ||
Revision as of 09:43, 10 April 2026
सूक्ष्मदेहो गृहं तस्य वितानं स्थूल उच्यते ॥ अन्नं दामात्मकं तस्य स्थूणा तु भगवान् हरिः । ध्यायत्येवं हि यो वायुं श्रोत्रादीन् मनसा सह ॥ बुद्धिं च सप्तशत्रून् स विषयेष्वभिधावतः ।
असुरान् सन्निरुध्यैव वेत्ति नारायणं परम् ॥
अक्षीणज्ञानमनसः सदाशिवापुरःसराः ॥ उपास्यमानं तैर्देवैर्मोक्षार्थे वायुमीश्वरम् । स्थूणया विष्णुना सार्धं यो विद्यात् सोऽन्नमश्नुते ॥
अक्षीणमेव मुक्तः सन् सर्वदुःखविवर्जितः ।
वायुश्च संस्थिता नित्यं सर्वेषां दक्षिणाक्षिगाः । पूर्णत्वाद्विश्वतो विष्णो रमायाः स्त्रीषु पूर्णतः ॥ वायोर्जीवेषु पूर्णत्वाद्यशोज्ञानसुखात्मकाः ।
प्राणाश्चैते प्रणेतृत्वात् ऋषयो रुद्रपूर्वकाः ॥
भरद्वाजस्तु पर्जन्यो वाजमन्नं भरेद्यतः ॥ वृष्ट्यैव विश्वामित्रख्य आदित्यो यत्प्रकाशनात् । विश्वं विज्ञापयन्नित्यमग्निस्तु जमदग्निकः ॥ जातं मितं चात्ति यस्माद्वसिष्ठाख्यस्तु वासवः । वसतामुत्तमो यस्मात् पृथ्वी कश्यपनामिका ॥ मेघवृष्टं पिबेद्यत्कं शयानैव हि सा सदा । द्यौरत्रिरिति सम्प्रोक्ता तत्स्थैर्हि हुतमद्यते ॥ श्रोत्रदिङ्ग्नासिकाबाहुदक्षिणाक्षिषु संस्थिताः । द्वितीयेन तु रूपेण देवा एते शिवादयः ॥ एवमेषां तु नामानि वेत्ति यः सर्वभुग्भवेत् । उपास्ते वायुमेवैकं सस्थूणं ब्रह्मवेदिना । ब्रह्मनामा सदा वायुरेनां वेत्ति विशेषतः ॥
इति तां वेद यो विद्वान् सर्वात्ता स भविष्यति ॥ इति नारायणीये ॥