Jump to content

Bhagavatatatparyanirnaya/C4/S8: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:40, 10 April 2026

अप्यर्वाग्वृत्तयो यस्य महित्वे स्वभुवादयः ।यथामति गृणन्ति स्म कृतानुग्रहविग्रहम् ॥ २४ ॥


'उत्पत्तिर्हरिरूपाणां व्यक्तिरेव न संशयः । उत्पत्तिरेव जीवानां देहोत्पत्तिरितीर्यते। इति तत्त्वनिर्णये ॥ २४ ॥
दक्ष उवाच–शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं


'जडमाया न तस्यास्ति शरीरत्वेन कुत्रचित् ।

सृष्ट्वा तया शरीराणि तत्स्थितेः पुरुषः स्मृतः । मायायामशरीरायामपि विष्णुः स्वयं स्थितः ॥ तस्मात्प्राकृत इत्येव जीववत्तं वदन्ति हि ।

अस्पृष्टत्वेऽपि तद्धर्मैस्तद्गत्वादेव कारणात्॥ इति तत्त्वविवेके ॥ २६ ॥
ऋत्विज ऊचुः–तत्त्वं न ते वयमनञ्जन रुद्रशापात्


अधिदैवं उत्तमदैवम् । यद्यज्ञभागार्थं यज्ञभुग्देवताशरीरे आस्थाः । 'भुङ्क्ते यज्ञभुजो देवानाविश्य पुरुषोत्तमः। इति च ॥ २७ ॥
रुद्र उवाच–तव वरद वराड्घ्रावाशिषा चानभिध्ये


आशिषोऽपि तत एव भवन्तीत्यतश्चशब्दः ॥ २९ ॥
नैतत् स्वरूपं भवतोऽसौ पदार्थ-भेदग्रहः पुरुषो यावदीक्षेत् ।


'अव्यक्तादिपदार्थानां विशेषज्ञानिनाऽपि तु ।

न देहो वैष्णवो ज्ञेय आनन्दः प्राकृतो न हि॥ इति तन्त्रसारे । पदार्थभेदग्रहः पदार्थविशेषज्ञः ।

'भेदोऽन्तरं विशेषश्च सूक्ष्मेक्षा चाभिधीयतेइति तत्त्वनिर्णये ॥ ३१ ॥
ऋषय ऊचुः –अनन्वितं ते भगवन् विचेष्टितं


ईश्वरान् ॥ ३४ ॥
लोकपाला ऊचुः–दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं


माया ह्येषा भवदीया भगवत्सामर्थ्यमेव । 'भगवन्महिमैवासौ यद्दृश्यो भगवान् स्वयम्। इति च ॥ ३७ ॥
योगेश्वरा ऊचुः–प्रेयान्न तेऽन्योऽस्त्यमृतप्रिय प्रभो


न पृथग् य आत्मनः । अन्यथा यो न पश्यति ।

'पृथग्ज्ञानं तदित्याहुर्यत्किञ्चिद्वीक्ष्यतेऽन्यथा । ज्ञानज्ञेयाविरोधेन त्वपृथग्वस्तुनो दृशिः ॥ केचिद्भेदं विनिन्दन्ति ह्यासुरज्ञानवृत्तयः । निराकुर्वन्त्यथो मन्दा भेदस्य परमार्थताम् ॥ ये तु तत्त्वविदो मुख्या भेदं ब्रह्मान्यवस्तुनोः । परमार्थमिति ज्ञात्वा नित्यं विष्णुमुपासते॥ इति गारुडे । हे भृत्येश । तयाऽनन्यवृत्त्या उपधावतामस्माकमनुग्रहोऽस्त्येव । तथापि पुनरनुगृहाण । 'यथार्थज्ञानिनो नान्यः प्रियो विष्णोस्तु कश्चन ।

तथाप्यधिकसन्तुष्ट्यै प्रसीदेत्यर्थनं पुनः॥ इति च ॥ ३८ ॥
जगदुद्भवस्थितिलयेषु लीलयाप्रविभज्यमानगुणयाऽऽत्ममायया ।


'प्रकृत्या जडया मिथ्याज्ञानं जनयतीश्वरः । तस्य भ्रमश्च सत्वाद्या न सन्ति परमेशितुः॥ इति च ॥ ३९ ॥
अग्निरुवाच–यत्तेजसाऽहं सुसमिद्धतेजा


'यज्ञो यज्ञपुमांश्चैव यज्ञेशो यज्ञभावनः ।

यज्ञभुक्चेति पञ्चात्मा यज्ञेष्विज्यो हरिः स्वयम् ॥ ओश्रावयास्तुश्रौषड्यजाथो येयजामहे ।

वषट्कारान्तकैर्नित्यं यजुर्भिः पञ्चभिर्विभुः॥ इति तन्त्रसारे ॥४१॥
ब्राह्मणा ऊचुः–त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं


'सर्वशब्दाभिधेयत्वं सर्वान्तर्यामिकत्वतः । न तु सर्वस्वरूपत्वात्सर्वभिन्नो यतो हरिः॥ इति मात्स्ये ॥ ४५ ॥
श्रीभगवानुवाच–अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।


'अन्तर्यामिस्वरूपेण ब्रह्मरुद्राद्यभिन्नता ।

न तु जीवस्वरूपेण जीवा भिन्ना यतो हरेः ॥ विशेषाभेदवचनं सन्निधानविशेषतः ।

सन्निधानं तु तत्प्रोक्तं सामर्थ्यव्यञ्जनं हरेः॥ इति भविष्यत्पर्वणि ॥
तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।देहात्मबुद्धिर्भूतानि भेदेनाज्ञोऽनुपश्यति ॥ ५२ ॥


'हरेर्वशत्वदृष्टिस्तु भूतानामपृथग्दृशिः । प्रियत्वदृष्टिरथवा ब्रह्मादीनां विशेषतः॥ इति गारुडे ॥ ५२ ॥
त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।सर्वभूतात्मना ब्रह्मन् स शान्तिमधिगच्छति ॥ ५४ ॥


सर्वभूतात्मना सर्वभूतान्तर्यामित्वेन ॥ ५४ ॥
मैत्रेय उवाच–एवं भगवताऽऽदिष्टः प्रजापतिपतिर्हरिम् ।


उभयतः सोमतो हविषश्च ॥ ५५ ॥
अनन्यभावैकगतिः शक्तिः सुप्तेव पूरुषम्एतद् भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।


'शक्तित्वाद्विष्णुशक्तिस्तु शक्तिशब्देन चोच्यते ।

शक्यत्वात्प्रकृतिश्चापि स्वापः सृष्टिं विना हरौ ।

रतिस्तस्यास्तु कथितो नह्यन्यः स्वाप उच्यते॥ इति तन्त्रसारे ॥
पीत्वाऽन्तरजरं वह्निश्चच्छर्द शरकानने ।कुमारोऽभूत् ततस्तस्मै स्तनं षट् कृत्तिका ददुः ॥ ६३ ॥


षड्भिर्मुखैः स्तनं पीत्वा स बालः षण्मुखोऽभवत् ।ततश्चक्रुः सैन्यपालं सर्वासुरभयंकरम् ॥ ६४ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे अष्टमोऽध्यायः ॥
'स्वाहाद्वारेण नदीतीरे शरकानने चच्छर्द। इति भारतोक्तेः ॥६४॥