Jump to content

Bhagavatatatparyanirnaya/C4/S2: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:40, 10 April 2026

नन्दिरुवाच–य एतन्मर्त्यमुद्दिश्य भगवत्यप्रतिद्रुहि ।


गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया ।कर्मतन्त्रं वितनुताद् वेदवादविपन्नधीः ॥ २३ ॥


बुद्ध्या पराभिध्यायिन्या विस्मृतात्मगतिः पशुः ।स्त्रीकामः सोऽस्तु नितरां दक्षो बस्तमुखोऽचिरात् ॥ २४ ॥


विद्याबुद्धिरविद्यायां कर्ममय्यामसावजः ।संसरन्त्विह ये चामुमनुशर्वावमानिनम् ॥ २५ ॥


'ये ज्ञानविषयाः शापा मुक्तिगाश्चाधिकारिणाम् ।

कादाचित्कास्ते भवन्ति नैव ते सार्वकालिकाः ॥ तेषां ज्ञानस्य मुक्तेश्च तारतम्यस्य चैव हि ।

भगवन्नियतत्वात्तु शापादिर्नात्र कारणम्॥ इति वाराहे ॥२२-२५॥
गिरेः सुतायाः पुष्पिण्या मधुगन्धेन भूरिणा ।मथ्ना चोन्मथितात्मानः संमुह्यन्तु हरद्विषः ॥ २६ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये चतुर्थस्कन्धे द्वितीयोऽध्यायः ॥
'गिरिः प्राणः समुद्दिष्टस्तत्सुता वेदवाक्स्मृता ।

पुष्पं स्वर्गादयः प्रोक्ताः फलं मोक्ष उदाहृतम्॥ इति वामने ॥

'अनङ्गो मन्मथो मन्था कामोऽङ्गज उदाहृतः। इति शब्दनिर्णये ॥