Jump to content

Bhagavatatatparyanirnaya/C3/S13: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:40, 10 April 2026

ससर्जाग्रेऽथ तामिस्रमन्धतामिस्रमादिकृत् ।महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥


'तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः ।

तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते ॥ मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका॥ इति भारते ॥

'तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तदाग्रहाःइति हरिवंशेषु ॥ २ ॥
दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत ।भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥


सनकं च सनन्दं च सनातनमथाऽत्मभूः ।सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥


कालतो बलतश्चैव ज्ञानानन्दादिकैरपि ।

सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा ॥ अनन्तांशेन कालात्तु समा तस्याश्चतुर्मुखः । अवरो बहुलांशेन तत्समो वायुरुच्यते ॥ नियमाद्वायुरेवैको ब्रह्मत्वं याति नापरः । तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता ॥ दशवर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि । आनन्दादिस्तद्दशांशः कालः संवत्सरात्परः ॥ यावत्पश्चाज्जनिस्तावत्पूर्वं देहक्षयो भवेत् । ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः ॥ शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः । शेषरुद्रौ ब्रह्मवायू यथा तद्वत्परस्परम् ॥ तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः । एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते ॥ अन्यथोक्तिर्यत्र च स्यात्तन्मोहार्थं भविष्यति । पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥इति विष्णुकृततत्त्वविवेके ॥ 'अथात आनन्दस्य मीमांसा। 'देवासुरेभ्यो मघवान्प्रधानःइत्यादि च । 'इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे । ऋषयो मनवो देवास्तद्वशा ये च केचन ॥ उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः । तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥ ऋते हरिं ब्रह्मवायू शेषवीन्द्रान्सभार्यकान् । शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते

इति विष्णुकृततत्त्वनिर्णये ॥ ३,४ ॥
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा ।


'यां तत्याज विभुर्ब्रह्मा मानुषी वाक् तु सा स्मृता । सरस्वती निजा भार्या देवीं वाचं तु तां विदुः॥ इति च ॥ ३३ ॥
कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥


मैत्रेय उवाच– ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः । शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥


इतिहासपुराणं च पञ्चमं वेदमीश्वरः । सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥


तपः शौचं दया सत्यं धर्मस्येति पदानि च । आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥


'अभिमानितः शब्दतश्च ब्रह्मा वेदान्ससर्ज ह ।

यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः । 'इतिहासपुराणे तु श्रुत्वा हरिमुखात्स्वयम् ।

भारतादीन्विना पश्चाद्धरिणाऽन्यैश्च निर्मितान्। इति ॥ ३४-४१ ॥
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।वार्ताऽसञ्चयशालीनं शिलोंञ्छ इति वै गृहे ॥ ४२ ॥


'प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिता॥ इति व्यासस्मृतौ ॥ 'वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः॥ इति च ॥ ४२ ॥
वैखानसा वालखिल्योदुम्बराः फेनपा वने ।न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥


'वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः । वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः॥ इति च ॥ ४३ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥


'आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणी ।

विष्णुप्रक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता ॥ दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः । वार्ता वाणिज्यकादिः स्यादेताभिर्यत्तु जीवनम् ॥ तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा॥ इति च । प्रणवः पूर्ववक्त्रात् । 'प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् ।

प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा॥ इति ब्राह्मे ॥ ४४ ॥
स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः ।ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥


'स्पर्शास्तस्या भवञ्जीवात्स्वरा देहात्प्रजज्ञिरे ।

ऊष्माणं इन्द्रियेभ्यश्च अन्तस्था बलतो विभोः ॥इति च ॥

'यस्माद्यज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेत्। इति च ॥ ४६ ॥
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ।शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥


'शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः ।

ऋते नारायणादीनि नाम्नां स विषयो यतः ॥ व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च ।

तद्व्यापकत्वाद्ब्रह्मा तु व्यक्ताव्यक्तात्मकः स्मृतः॥ इति च ॥ ४७ ॥
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥


अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥


एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा ।कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥
'ऋषीणां भूरिवीर्याणाम्इति सिंहावलोकनम् ।

यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहावलोकनम्॥ इति ब्रह्मतर्के ॥

केन व्याप्तत्वात्कायः ॥ ४९-५१ ॥