Jump to content

Bhagavatatatparyanirnaya/C3/S12: Difference between revisions

From Grantha
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Imported from pramati-sarvamoola XML (grantha.io importer v3)
Line 1: Line 1:
__TOC__
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div>
{{Adhyaya
{{Adhyaya
| document_id  = BTN
| document_id  = BTN

Revision as of 09:40, 10 April 2026

मैत्रेय उवाच–चरमस्तु विशेषाणामनेकांशायुतः सदा ।


कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति ।

'मनुष्या देवलोकेऽपि विशेषेणैव दर्शने । अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः ॥ चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा । परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् ॥ अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् । ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि । अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुता॥ इति तत्त्वविवेके ।

अनेकांशैरासमन्ताद्युतः ॥ १ ॥
सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥


कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्रा- प्युपचारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य ।

'मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत्॥ इति ब्रह्मतर्के । यद्वेव समः प्लुषिणेत्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्व-मित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् । 'कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥ गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥ परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्याद्व्यवहारार्थमेव च ॥ गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि ॥ न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः ॥ तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते । यत्तस्य व्यापकं रूपं परं नारायणाभिधम् ॥ शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः ॥ तृतीयं वासुदेवाख्यं जगदावरकं मितम् । देशतो जगदाविष्टं तुरीयं विष्णुनामकम्॥ इति ब्रह्मतर्के ॥ सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्ति-कान्तर्भावात्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् । 'देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् । उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः ।

महदादिगतं यत्तु तदन्यगतमुच्यते॥ इति ब्राह्मे ॥ २ ॥
एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥


स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥


अनुमितः शास्त्रलोकानुसारेण ज्ञातः ।

'अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्। इत्यभिधानम् ॥ 'यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् । महाप्राज्ञो देवजूकः स कालः परमाणुकः ॥ सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि ॥ तथैव परमाण्वादिविशेषात्मापि नो भवेत् । पूर्वापरादिभेदो न स कालः परमो महान् ॥इति ब्रह्मतर्के ॥ स्वरूपावस्थितस्य कैवल्यमविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि । 'देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः । यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः ॥ तथाशब्दस्य कालस्य देशानन्त्यं न कालतः । कालशब्दात्मिका सैव तथापि तु हरेः सदा ॥ नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि । ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः ॥ अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥इति ब्रह्मवैवर्ते ॥ 'अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः । अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते॥ इति च ॥ सतो ब्रह्मणः अविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदाभावात् । 'सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् ।

स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः॥ इति ब्रह्मतर्के ॥ ३-४ ॥
अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥


अगात् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥
लघूनि वै समाम्नाता दश पञ्च च नाडिका ।ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥


राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥
द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥


काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते ।

कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् ॥ चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये । यावत्स्यात्परिणाहेन तावद्वारं विधीयते ॥ प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले । भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति ॥ अतिशैत्ये कलङ्के च नाद्येनैव तु पूरणम् । तस्माद्वसन्तकाले तु प्रयागस्थोदकेन तु । नाडीशुद्धिपरीक्षा स्यादन्यथा न समं भवेत्॥ इति पाद्मे ॥ 'निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा ।

प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव तु॥ इति ब्रह्माण्डे ॥ ९ ॥
यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥


यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभे। इत्यभिधानम् ॥१०॥
ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥


संवत्सरः परिवत्सर इडावत्सर एव च ।अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥


'इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः ।

तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः ॥ वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये । गुर्वावर्ते द्वादशांशे यः स्थः स परिवत्सरः ॥ सौरद्वादशके मासे यः स्थः संवत्सरो हरिः । एवं स कालनामाऽपि कालस्थः परमेश्वरः॥ इति ब्रह्मतर्के ॥ 'सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः ।

सततं गमनाद्वापि कालस्थस्य महात्मनः॥ इति च ॥ १३-१४ ॥
यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्यापुंसोऽभ्रमाय दिवि धावति भूतभेदः ।


अभ्रमाय भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः ।

'भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये ।

बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिः॥ इति तन्त्रप्रकाशिकायाम् ॥ १५ ॥
निशावसान आरब्धो लोककल्पोऽनुवर्तते ।यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥


दिनस्थो भगवान्भोक्ता ॥ २३ ॥
स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः ।मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।


'युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् ।

वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् ॥ शतानां प्रलयश्चैव पञ्चोत्तरमथापि च । आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् ।

वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेत्॥ इति महावाराहे ॥२४॥
तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥


'ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि। इति ब्राह्मे ॥ २७ ॥
एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥


अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥
कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥


'नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते । अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्ययः॥ इति हरिवंशेषु ॥३७॥
कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः ।नैवेष्टे स प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥


'यमः कालो मानुषाणां तस्य कालः सुदर्शनः ।

तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु ॥ सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी । संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता ॥ तस्या नियामको विष्णुः परः कालः स उच्यते । कालाभिमानिनी सैव प्रभुर्न जगदीशितुः ॥

तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वरः ॥इति च ॥ ३८ ॥
विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः ।अण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥


दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।लक्ष्यतेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥


'दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु ।

विकारा इति विज्ञेया भूताहंमहतः परे॥ इति च ॥ 'पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः । सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः । अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृताः॥ इति च । अन्तर्गताः शरीराणि । 'शरीराणां बहुत्वेन अतीतानागतैस्तथा । अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् । विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेत् ॥इति ब्रह्मतर्के । 'एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् । ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथक्॥ इति ब्रह्माण्डे ॥

'बृहदण्डमभूदेकम्इति च भारते ॥ ३९,४० ॥
यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥


॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीभागवततात्पर्यनिर्णये तृतीयस्कन्धे द्वादशोऽध्यायः ॥
धाम गृहम् अण्डराशयः ॥ ४१ ॥