Bhagavatatatparyanirnaya/C3/S10: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 1: | Line 1: | ||
__TOC__ | |||
<div class="gr-page-nav">[[Bhagavatatatparyanirnaya|श्रीमद्भागवततात्पर्यनिर्णयः]] · [[Bhagavatatatparyanirnaya/Toc|अनुक्रमणिका]]</div> | |||
{{Adhyaya | {{Adhyaya | ||
| document_id = BTN | | document_id = BTN | ||
Revision as of 09:40, 10 April 2026
'एकोऽपि स्थाननानात्वान्नानेव हरिरीयते ।
सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचित्॥ इति ब्रह्मवैवर्ते ॥१॥
'यत्तद्दिव्यं हरेरूपं क्षीरसागरमध्यगम् । ज्ञानानन्दैकमात्रं च न ततः परमं क्वचित् ॥ अनादिनित्यादव्यक्तात्तस्माज्जज्ञे चतुर्मुखः॥ इत्यध्यात्मे ।
भूतेन्द्रियाणामात्मकम् । 'यच्चाप्नोतिइत्यादेः ॥ २,३ ॥
गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यते॥ इति ब्रह्मतर्के ॥ 'उत्तमानां तु पादेन सर्वं रूपं तु भण्यते ।
उत्तमानां स्वरूपं तु पादशब्देन भण्यते ॥ ५ ॥
'ज्ञेयत्वं दुर्घटस्यापि घटनाधिकशक्तिता । अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता ॥ उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम् । भगवत्तन्त्रता यस्यास्तद्भार्यात्वं सुरूपता ॥ उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता । परिणामिनी च यस्यास्तु दोषाश्चेतनता यथा ॥ शैवली नाम सा माया जगद्बन्धात्मिका सदा॥ इति ब्रह्मतर्के । 'ध्याये मंस्ये तथा पश्ये शृृणोमीति विभक्तता । जीवस्य तु हरेरिच्छाबलादिन्द्रियभुक्तये॥ इति षाड्गुण्ये ।
इन्द्रियाणां भोगार्थम् । व्यर्थापि यज्ञादिक्रियार्था ॥ ९ ॥
'यादृशोभावितस्त्वीशस्तादृशो जीव आभवेत्। इति तन्त्रसारे ।
'तं यथा यथोपासते तदेव भवति ।इति च ॥ ११ ॥
'आराधितो यो ब्रह्माद्यैर्भक्तिज्ञानदयादिभिः ।
किं तस्य कामुकजनैः कृतया परिचर्यया। इति सत्यसंहितायाम् ॥ १२ ॥
भेदस्तस्यावतारेषु जीवस्येशत्वमेव च । तथा जीवत्वमीशस्य जडाभेदस्तयोरपि । भेदमोह इति प्रोक्तः स सदा न हरौ क्वचित् ।
अन्येषां तत्प्रसादेन शनैर्याति सतामपि॥ इति स्कान्दे ॥ १४ ॥
'ये भक्तिविवशा विष्णोर्नाममात्रैकजल्पकाः ।
तेऽपि मुक्तिं व्रजन्त्याशु किमुत द्ध्यायिनः सदा॥ इति व्योमसंहितायाम् ॥ १५ ॥
मत्स्यादिता स्वभावस्तु नान्यथा क्वचिदिष्यते॥ इति वामने ।
'अनन्तासनवैकुण्ठक्षीराब्धिस्थो हरिस्त्रिपात्। इति च ॥ १६ ॥
पश्येत्तात्कालिकं चैव तस्मादनिमिषो हरिः ।
कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणात्॥ इति तन्त्रसारे ॥१७॥
सन्देहदेहमनसो बुद्धिजीवाः स्वयं तथा । ब्रह्माप्यमुख्याः क्रमश उत्कर्षो ह्यात्मता भवेत्।
इति प्रकाशसंहितायाम् ॥ २८ ॥
अङ्गुष्ठमात्रेऽपि परे परशक्तिर्यतो विभुः॥ इति च ।
आत्मनि स्थिते मयि ॥ ३१ ॥
'त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते । दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम् ॥
यदा पश्यत्यापरोक्ष्यात्तदा मुक्तिं व्रजत्यसौ॥ इति दत्तात्रेययोगे ॥ ३३ ॥
यो जानाति हरिं तस्य प्रीतो भवति केशवः॥ इति व्योमसंहितायाम् । 'आधिकारिकदेवानां स्वाधिकाराधिकामनम् ।
भवति प्रीतये विष्णोर्भक्त्यादेरपि यत्सदा॥ इति च ॥ ३९ ॥
आपादयति यत्तस्मात्स्वात्मनोऽपि प््रिायो हरिः॥
इति ब्रह्मवैवर्ते ॥ ४२ ॥