Chandogya/C3: Difference between revisions
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
Imported from pramati-sarvamoola XML (grantha.io importer v3) |
||
| Line 13: | Line 13: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V01 | | verse_id = CHU_C03_V01 | ||
| id = CHU_C03_V01_B01 | | id = CHU_C03_V01_B01 | ||
| text = | | text = | ||
य आदित्यगतो विष्णुः स एव मधुनामकः । | य आदित्यगतो विष्णुः स एव मधुनामकः । | ||
| Line 67: | Line 66: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V04 | | verse_id = CHU_C03_V04 | ||
| id = CHU_C03_V02_B01 | | id = CHU_C03_V02_B01 | ||
| text = | | text = | ||
प्राच्यरश्मिषु संस्थस्तु रतिशंमानरूपतः । | प्राच्यरश्मिषु संस्थस्तु रतिशंमानरूपतः । | ||
| Line 105: | Line 103: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V07 | | verse_id = CHU_C03_V07 | ||
| id = CHU_C03_V03_B01 | | id = CHU_C03_V03_B01 | ||
| text = | | text = | ||
इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसहायतः । | इन्द्राद्या यजुरुद्दिष्टा रुद्रा इन्द्रसहायतः । | ||
| Line 140: | Line 137: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V10 | | verse_id = CHU_C03_V10 | ||
| id = CHU_C03_V04_B01 | | id = CHU_C03_V04_B01 | ||
| text = | | text = | ||
सामनामान आदित्या मासशः समभोगतः ॥ | सामनामान आदित्या मासशः समभोगतः ॥ | ||
| Line 176: | Line 172: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V13 | | verse_id = CHU_C03_V13 | ||
| id = CHU_C03_V05_B01 | | id = CHU_C03_V05_B01 | ||
| text = | | text = | ||
इतिहासपुराणानां सोमाद्या अभिमानिनः ॥ | इतिहासपुराणानां सोमाद्या अभिमानिनः ॥ | ||
| Line 220: | Line 215: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V17 | | verse_id = CHU_C03_V17 | ||
| id = CHU_C03_V06_B01 | | id = CHU_C03_V06_B01 | ||
| text = | | text = | ||
गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह ॥ सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते । ब्रह्मेति सर्वदेवानां नामानन्तत्त्वतः स्मृतम् ॥ ऋग्वेदादींस्तु ते देवा अग्न्याद्याः संव्यचारयन् । मधु ब्रह्मव्यक्तिकृत्वात् ते वै मधुकृतः स्मृताः ॥ ज्ञानपोषकरत्वात् तु वेदाः पुष्पाभिधाः स्मृताः । अन्यत्र मधुकृत् पोषन्नित्यत्वादमृताश्च ताः ॥ वेदवाचः सुरैः पेया भोग्यत्वादाप ईरिताः । वेदपानं विचारश्च श्रवणं पाठ एव च ॥ देवैर्विचारितेभ्यश्च वेदेभ्यो व्यक्ततां गतः । ज्ञानानन्दस्वरूपत्वाद् यशस्तेजस्वरूपकः ॥ इन्द्रियं परमैश्वर्याद्वीर्यरूपश्च सर्वदा । सर्वानुग्रहशक्तित्वादन्नाद्यो बलरूपतः ॥ रसनामा च भगवान् संस्थितः सूर्यमण्डले । व्यक्षरद्धर्ममोक्षादीन् देवानां भगवान् हरिः ॥ ऋक्प्रोक्तो लोहिताकारो वासुदेवः परः पुमान् । स एव सूर्यलोहित्ये प्राच्यरश्मिषु संस्थितः ॥ सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः । शुक्ले वर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः ॥ प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः । प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः ॥ अनिरुद्धः सुनीलश्च इतिहासपुराणयोः । अथर्ववेदे चोक्तस्सन्नुदग्रश्मिषु संस्थितः ॥ सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः । ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः ॥ महामरीचिपुञ्जेन चलतीवाचलोऽपि सन् । स वाच्यः सर्ववेदानामेवं पञ्चात्मको हरिः ॥ वेदानां सारभूतोऽसौ वेदानां नित्यताप्रदः । अतोऽमृतानाममृतो रसानां रस एव च ॥ इति सामसंहितायाम् ॥ न चाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम् । ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् इति वाक्यशेषाच्चैतदवगम्यते । य एतामेवं ब्रह्मोपनिषदं वेद इति च । कथं चाचेतनोपासनं ब्रह्मादिपदप्रदं भवति । न वै तत्र न निम्लोचः नोदियाय कदाचन । सकृदिव हैवास्मै भवति इत्यादि च मुक्तस्यैव मुख्यतो युज्यते । यशस्तेजइन्द्रियवीर्यान्नाद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते । तस्य नाम महद्यशः । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ रसो वै रसः सुखात्मकं षड्गुणविग्रहं परं हृदि स्थितं ब्रह्म निरञ्चनं स्वरुक् । ऐश्वर्यवैराग्ययशोविबोधवीर्यश्रिया पूर्णमहं प्रपद्ये ॥ अहं तत्तेजोरश्मीन्नारायणं पुरुषम् इत्यादेश्च । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः इति च । न चाचेतनस्यैश्वर्यादिरूपत्वं युज्यते । ज्ञानात्मको भगवानैश्वर्यात्मको भगवान् शक्त्यात्मको भगवान् इति च श्रुतिः । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् इति सर्ववेदप्रतिपाद्यत्वं भगवत उक्तं भगवता । स सर्वनामा स च विश्वरूपः प्रसीदतां ब्रह्म महाविभूतिः इति च । सर्वे वेदा यत्पदमामनन्ति ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव । वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति इत्यादेश्च । उपनिषत्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम् । विष्णुरुक्तः सर्ववेदैर्मन्त्रेषु च विशेषतः । आरण्यके विशेषेण नैवान्यत् किञ्चिदुच्यते ॥ कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया । मुख्यतो विष्णुरेवैको ब्राह्मणेष्वपि कथ्यते ॥ आरण्यकेष्वृते विष्णुं नैवान्यत् किञ्चिदुच्यते । सूत्रात्मा तूच्यते विष्णोस्तद्विशिष्टत्ववित्तये ॥ कुत्रचित् तदुपास्तिश्च तस्याध्यर्धतनुत्वतः । तस्मिन् विष्णोरुपास्त्यर्थं नान्यथा किञ्चिदुच्यते ॥ इति ब्रह्माण्डे । यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारैधितकर्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ यन्न व्रजन्त्यघभिदो रचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमस्सु हन्त ॥ | गुह्यादेशा ब्रह्मपदे ये योग्या ब्रह्मणा सह ॥ सर्वगुह्योपदेष्टारः सर्वेषां गुरवो हि ते । ब्रह्मेति सर्वदेवानां नामानन्तत्त्वतः स्मृतम् ॥ ऋग्वेदादींस्तु ते देवा अग्न्याद्याः संव्यचारयन् । मधु ब्रह्मव्यक्तिकृत्वात् ते वै मधुकृतः स्मृताः ॥ ज्ञानपोषकरत्वात् तु वेदाः पुष्पाभिधाः स्मृताः । अन्यत्र मधुकृत् पोषन्नित्यत्वादमृताश्च ताः ॥ वेदवाचः सुरैः पेया भोग्यत्वादाप ईरिताः । वेदपानं विचारश्च श्रवणं पाठ एव च ॥ देवैर्विचारितेभ्यश्च वेदेभ्यो व्यक्ततां गतः । ज्ञानानन्दस्वरूपत्वाद् यशस्तेजस्वरूपकः ॥ इन्द्रियं परमैश्वर्याद्वीर्यरूपश्च सर्वदा । सर्वानुग्रहशक्तित्वादन्नाद्यो बलरूपतः ॥ रसनामा च भगवान् संस्थितः सूर्यमण्डले । व्यक्षरद्धर्ममोक्षादीन् देवानां भगवान् हरिः ॥ ऋक्प्रोक्तो लोहिताकारो वासुदेवः परः पुमान् । स एव सूर्यलोहित्ये प्राच्यरश्मिषु संस्थितः ॥ सङ्कर्षणः शुक्लवर्णो यजुर्वेदोदितः प्रभुः । शुक्ले वर्णे च सूर्यस्य दक्षरश्मिषु संस्थितः ॥ प्रद्युम्नः श्यामवर्णस्तु सामवेदोदितः प्रभुः । प्रत्यग्रश्मिषु सूर्यस्य श्यामवर्णेऽपि च स्थितः ॥ अनिरुद्धः सुनीलश्च इतिहासपुराणयोः । अथर्ववेदे चोक्तस्सन्नुदग्रश्मिषु संस्थितः ॥ सुकृष्णे सूर्यरूपे च मध्ये नारायणः प्रभुः । ऊर्ध्वरश्मिषु संस्थश्च प्रोद्यदादित्यसप्रभः ॥ महामरीचिपुञ्जेन चलतीवाचलोऽपि सन् । स वाच्यः सर्ववेदानामेवं पञ्चात्मको हरिः ॥ वेदानां सारभूतोऽसौ वेदानां नित्यताप्रदः । अतोऽमृतानाममृतो रसानां रस एव च ॥ इति सामसंहितायाम् ॥ न चाचेतनमात्रमुपासितं पुरुषार्थप्रदानशक्तम् । ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् इति वाक्यशेषाच्चैतदवगम्यते । य एतामेवं ब्रह्मोपनिषदं वेद इति च । कथं चाचेतनोपासनं ब्रह्मादिपदप्रदं भवति । न वै तत्र न निम्लोचः नोदियाय कदाचन । सकृदिव हैवास्मै भवति इत्यादि च मुक्तस्यैव मुख्यतो युज्यते । यशस्तेजइन्द्रियवीर्यान्नाद्यरसत्वं च भगवन्तं विना कस्य मुख्यतो युज्यते । तस्य नाम महद्यशः । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ रसो वै रसः सुखात्मकं षड्गुणविग्रहं परं हृदि स्थितं ब्रह्म निरञ्चनं स्वरुक् । ऐश्वर्यवैराग्ययशोविबोधवीर्यश्रिया पूर्णमहं प्रपद्ये ॥ अहं तत्तेजोरश्मीन्नारायणं पुरुषम् इत्यादेश्च । ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः इति च । न चाचेतनस्यैश्वर्यादिरूपत्वं युज्यते । ज्ञानात्मको भगवानैश्वर्यात्मको भगवान् शक्त्यात्मको भगवान् इति च श्रुतिः । सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् इति सर्ववेदप्रतिपाद्यत्वं भगवत उक्तं भगवता । स सर्वनामा स च विश्वरूपः प्रसीदतां ब्रह्म महाविभूतिः इति च । सर्वे वेदा यत्पदमामनन्ति ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैव व्याहृतिः प्राण एव । वेदे रामायणे चैव पुराणे भारते तथा । आदावन्ते च मध्ये च विष्णुः सर्वत्र गीयते ॥ नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममुदाहरन्ति इत्यादेश्च । उपनिषत्वाच्च विशेषतो न यत्किञ्चिदुच्यत इति वक्तुं युक्तम् । विष्णुरुक्तः सर्ववेदैर्मन्त्रेषु च विशेषतः । आरण्यके विशेषेण नैवान्यत् किञ्चिदुच्यते ॥ कर्मार्थं च ब्राह्मणं स्यादमुख्यार्थविवक्षया । मुख्यतो विष्णुरेवैको ब्राह्मणेष्वपि कथ्यते ॥ आरण्यकेष्वृते विष्णुं नैवान्यत् किञ्चिदुच्यते । सूत्रात्मा तूच्यते विष्णोस्तद्विशिष्टत्ववित्तये ॥ कुत्रचित् तदुपास्तिश्च तस्याध्यर्धतनुत्वतः । तस्मिन् विष्णोरुपास्त्यर्थं नान्यथा किञ्चिदुच्यते ॥ इति ब्रह्माण्डे । यस्यां न मे पावनमङ्ग कर्म स्थित्युद्भवत्राणनिरोधमस्य । लीलावतारैधितकर्म वा स्याद्वन्ध्यां गिरं तां बिभृयान्न धीरः ॥ वित्तं त्वतीर्थीकृतमङ्ग वाचं हीनां मया रक्षति दुःखदुःखी ॥ यन्न व्रजन्त्यघभिदो रचनानुवादाः शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः । यास्तु श्रुता हतभगैर्नृभिरात्तवीर्यास्तांस्तान् क्षिपन्त्यशरणेषु तमस्सु हन्त ॥ | ||
| Line 262: | Line 256: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V21 | | verse_id = CHU_C03_V21 | ||
| id = CHU_C03_V07_B01 | | id = CHU_C03_V07_B01 | ||
| text = | | text = | ||
प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः । | प्रथमामृतस्य द्रष्टारो वसवस्त्वग्निपूर्वकाः । | ||
| Line 306: | Line 299: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V25 | | verse_id = CHU_C03_V25 | ||
| id = CHU_C03_V08_B01 | | id = CHU_C03_V08_B01 | ||
| text = | | text = | ||
एवं द्वितीयरूपं तु शिवाद्या वायुसंश्रिताः । | एवं द्वितीयरूपं तु शिवाद्या वायुसंश्रिताः । | ||
| Line 352: | Line 344: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V29 | | verse_id = CHU_C03_V29 | ||
| id = CHU_C03_V09_B01 | | id = CHU_C03_V09_B01 | ||
| text = | | text = | ||
द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेः सुताः । | द्रष्टारोऽथ तृतीयस्य शक्रमुख्यादितेः सुताः । | ||
| Line 393: | Line 384: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V33 | | verse_id = CHU_C03_V33 | ||
| id = CHU_C03_V10_B01 | | id = CHU_C03_V10_B01 | ||
| text = | | text = | ||
चतुर्थस्य तु सोमाद्या मरुतः ................. | चतुर्थस्य तु सोमाद्या मरुतः ................. | ||
| Line 434: | Line 424: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V36 | | verse_id = CHU_C03_V36 | ||
| id = CHU_C03_V11_B01 | | id = CHU_C03_V11_B01 | ||
| text = | | text = | ||
....... ...... .......... पञ्चमस्य च ॥ | ....... ...... .......... पञ्चमस्य च ॥ | ||
| Line 543: | Line 532: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V38 | | verse_id = CHU_C03_V38 | ||
| id = CHU_C03_V12_B01 | | id = CHU_C03_V12_B01 | ||
| text = | | text = | ||
अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः । | अथ सूर्यस्थितो विष्णुरादित्यस्त्वादिमूलतः । | ||
| Line 565: | Line 553: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V39 | | verse_id = CHU_C03_V39 | ||
| id = CHU_C03_V13_B01 | | id = CHU_C03_V13_B01 | ||
| text = | | text = | ||
एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत् । | एतां विद्यां तु यो वेद नित्यमस्य दिवा भवेत् । | ||
| Line 599: | Line 586: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V42 | | verse_id = CHU_C03_V42 | ||
| id = CHU_C03_V14_B01 | | id = CHU_C03_V14_B01 | ||
| text = | | text = | ||
तदेतद्भगवान् विष्णुः प्रादाज्ज्ञानं विरिञ्चये । | तदेतद्भगवान् विष्णुः प्रादाज्ज्ञानं विरिञ्चये । | ||
| Line 623: | Line 609: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V43 | | verse_id = CHU_C03_V43 | ||
| id = CHU_C03_V15_B01 | | id = CHU_C03_V15_B01 | ||
| text = | | text = | ||
यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत्सर्वं गायत्री भगवानेव । भू बहाविति धातोः । बहुः पूर्णतायामिति च । | यदिदं किञ्च भूतं प्रभूतं परिपूर्णं तत्सर्वं गायत्री भगवानेव । भू बहाविति धातोः । बहुः पूर्णतायामिति च । | ||
| Line 649: | Line 634: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V44 | | verse_id = CHU_C03_V44 | ||
| id = CHU_C03_V16_B01 | | id = CHU_C03_V16_B01 | ||
| text = | | text = | ||
स एव पृथिवीनामा पृथिव्यामपि संस्थितः ॥ | स एव पृथिवीनामा पृथिव्यामपि संस्थितः ॥ | ||
| Line 669: | Line 653: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V45 | | verse_id = CHU_C03_V45 | ||
| id = CHU_C03_V17_B01 | | id = CHU_C03_V17_B01 | ||
| text = | | text = | ||
........ .......... स एवान्तःशरीरगः । | ........ .......... स एवान्तःशरीरगः । | ||
| Line 688: | Line 671: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V46 | | verse_id = CHU_C03_V46 | ||
| id = CHU_C03_V18_B01 | | id = CHU_C03_V18_B01 | ||
| text = | | text = | ||
योऽसौ जीवे स्थितो विष्णुः शरीरमिति नामकः ॥ | योऽसौ जीवे स्थितो विष्णुः शरीरमिति नामकः ॥ | ||
| Line 708: | Line 690: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V47 | | verse_id = CHU_C03_V47 | ||
| id = CHU_C03_V19_B01 | | id = CHU_C03_V19_B01 | ||
| text = | | text = | ||
गायत्र्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः ॥ | गायत्र्यां संस्थितो विष्णुः स्त्रीरूपः सूर्यसप्रभः ॥ | ||
| Line 733: | Line 714: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V48 | | verse_id = CHU_C03_V48 | ||
| id = CHU_C03_V20_B01 | | id = CHU_C03_V20_B01 | ||
| text = | | text = | ||
भिन्नपादः सर्वजीवास्तस्य सादृश्यमात्रतः । | भिन्नपादः सर्वजीवास्तस्य सादृश्यमात्रतः । | ||
| Line 774: | Line 754: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V51 | | verse_id = CHU_C03_V51 | ||
| id = CHU_C03_V21_B01 | | id = CHU_C03_V21_B01 | ||
| text = | | text = | ||
परम्ब्रह्मेति भगवान् सर्वगः सम्प्रकीर्तितः ॥ | परम्ब्रह्मेति भगवान् सर्वगः सम्प्रकीर्तितः ॥ | ||
| Line 863: | Line 842: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V58 | | verse_id = CHU_C03_V58 | ||
| id = CHU_C03_V22_B01 | | id = CHU_C03_V22_B01 | ||
| text = | | text = | ||
प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः । | प्राणाभिमानी चक्षुश्च सूर्य एव ह्युदाहृतः । | ||
| Line 901: | Line 879: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V60 | | verse_id = CHU_C03_V60 | ||
| id = CHU_C03_V23_B01 | | id = CHU_C03_V23_B01 | ||
| text = | | text = | ||
योऽसौ वैकुण्ठगो विष्णुः सप्तलोकोपरिस्थितः । | योऽसौ वैकुण्ठगो विष्णुः सप्तलोकोपरिस्थितः । | ||
| Line 945: | Line 922: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V62 | | verse_id = CHU_C03_V62 | ||
| id = CHU_C03_V24_B01 | | id = CHU_C03_V24_B01 | ||
| text = | | text = | ||
इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः । | इदं ब्रह्मातिसामीप्यात् सर्वं पूर्णगुणत्वतः । | ||
| Line 981: | Line 957: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V64 | | verse_id = CHU_C03_V64 | ||
| id = CHU_C03_V25_B01 | | id = CHU_C03_V25_B01 | ||
| text = | | text = | ||
एकत्र सर्वगन्धादिना चिदानन्दात्मकसर्वगन्धादिरूपत्वमुच्यते । अन्यत्र तद्भोक्तृत्वम् ॥ १४ ॥ | एकत्र सर्वगन्धादिना चिदानन्दात्मकसर्वगन्धादिरूपत्वमुच्यते । अन्यत्र तद्भोक्तृत्वम् ॥ १४ ॥ | ||
| Line 998: | Line 973: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V65 | | verse_id = CHU_C03_V65 | ||
| id = CHU_C03_V26_B01 | | id = CHU_C03_V26_B01 | ||
| text = | | text = | ||
क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता । | क इत्यानन्द उद्दिष्ट उश इच्छा प्रकीर्तिता । | ||
| Line 1,020: | Line 994: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V66 | | verse_id = CHU_C03_V66 | ||
| id = CHU_C03_V27_B01 | | id = CHU_C03_V27_B01 | ||
| text = | | text = | ||
प्राचीदिक्संस्थितस्तस्य बाहुर्दक्षिण ऊर्ध्वगः । | प्राचीदिक्संस्थितस्तस्य बाहुर्दक्षिण ऊर्ध्वगः । | ||
| Line 1,086: | Line 1,059: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V71 | | verse_id = CHU_C03_V71 | ||
| id = CHU_C03_V28_B01 | | id = CHU_C03_V28_B01 | ||
| text = | | text = | ||
अविनष्टं परानन्दकामं विष्णुं सदा ह्यहम् । | अविनष्टं परानन्दकामं विष्णुं सदा ह्यहम् । | ||
| Line 1,165: | Line 1,137: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V77 | | verse_id = CHU_C03_V77 | ||
| id = CHU_C03_V29_B01 | | id = CHU_C03_V29_B01 | ||
| text = | | text = | ||
विष्णुपूजार्थयज्ञोऽहमित्युपासनमादरात् । | विष्णुपूजार्थयज्ञोऽहमित्युपासनमादरात् । | ||
| Line 1,190: | Line 1,161: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V78 | | verse_id = CHU_C03_V78 | ||
| id = CHU_C03_V30_B01 | | id = CHU_C03_V30_B01 | ||
| text = | | text = | ||
महिदासोऽन्यः । कृष्णश्चान्यः एव । | महिदासोऽन्यः । कृष्णश्चान्यः एव । | ||
| Line 1,266: | Line 1,236: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V84 | | verse_id = CHU_C03_V84 | ||
| id = CHU_C03_V31_B01 | | id = CHU_C03_V31_B01 | ||
| text = | | text = | ||
स्वरूपभूतयज्ञस्य क्षुत्पिपासाऽरतिस्तथा । | स्वरूपभूतयज्ञस्य क्षुत्पिपासाऽरतिस्तथा । | ||
| Line 1,315: | Line 1,284: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V88 | | verse_id = CHU_C03_V88 | ||
| id = CHU_C03_V32_B01 | | id = CHU_C03_V32_B01 | ||
| text = | | text = | ||
आदित् तस्मादेव तत्प्रसादादेव । प्रत्नस्य पुरातनस्यानादेर्भगवतो रेतसः रतिरूपस्य ज्योतिः पश्यन्ति । वासेन रमयतीति वासरम् । दिवःपरतो वैकुण्ठे यदिध्यते । ऋद्धतममेव सर्वदा । अथ यदत परः इत्युक्तत्वाच्च । न चादित्यमण्डलं दिवः परतः । उत्तरं ज्योतिः पश्यन्तः स्वरानन्दरूपं परिपश्यन्तो वयं तमस उदगन्म । उत्तरं ज्योतिः पश्यन्तस्तदेवोत्तरं स्वश्च पश्यन्तः । द्विरुक्तिस्तात्पर्यार्था । उदाख्यं ज्योतिरुत्तमं तमसः सकाशादगन्म प्राप्ताः स्मेत्यर्थः । तस्योदितिनाम इति श्रुतेः । देवत्रादेवं देवविषयेऽपि देवं देवानां देवमित्यर्थः । सूरिभिः प्राप्यत्वात् सूर्यम् । | आदित् तस्मादेव तत्प्रसादादेव । प्रत्नस्य पुरातनस्यानादेर्भगवतो रेतसः रतिरूपस्य ज्योतिः पश्यन्ति । वासेन रमयतीति वासरम् । दिवःपरतो वैकुण्ठे यदिध्यते । ऋद्धतममेव सर्वदा । अथ यदत परः इत्युक्तत्वाच्च । न चादित्यमण्डलं दिवः परतः । उत्तरं ज्योतिः पश्यन्तः स्वरानन्दरूपं परिपश्यन्तो वयं तमस उदगन्म । उत्तरं ज्योतिः पश्यन्तस्तदेवोत्तरं स्वश्च पश्यन्तः । द्विरुक्तिस्तात्पर्यार्था । उदाख्यं ज्योतिरुत्तमं तमसः सकाशादगन्म प्राप्ताः स्मेत्यर्थः । तस्योदितिनाम इति श्रुतेः । देवत्रादेवं देवविषयेऽपि देवं देवानां देवमित्यर्थः । सूरिभिः प्राप्यत्वात् सूर्यम् । | ||
| Line 1,380: | Line 1,348: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V94 | | verse_id = CHU_C03_V94 | ||
| id = CHU_C03_V33_B01 | | id = CHU_C03_V33_B01 | ||
| text = | | text = | ||
मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः । | मनःसंस्थस्तु यो देवः साक्षान्नारायणः प्रभुः । | ||
| Line 1,421: | Line 1,388: | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V97 | | verse_id = CHU_C03_V97 | ||
| id = CHU_C03_V97_author-note | | id = CHU_C03_V97_author-note | ||
| text = | | text = | ||
॥ इति श्रीमच्छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥ | ॥ इति श्रीमच्छान्दोग्योपनिषदि तृतीयोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V97 | | verse_id = CHU_C03_V97 | ||
| id = CHU_C03_V97_author-note | | id = CHU_C03_V97_author-note | ||
| text = | | text = | ||
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः ॥ | ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमच्छन्दोग्योपनिषद्भाष्ये तृतीयोऽध्यायः ॥ | ||
}} | }} | ||
{{ | {{Bhashyam | ||
| verse_id = CHU_C03_V97 | | verse_id = CHU_C03_V97 | ||
| id = CHU_C03_V34_B01 | | id = CHU_C03_V34_B01 | ||
| text = | | text = | ||
अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम् । | अगम्यत्वादसन्नाम ब्रह्म नारायणाभिधम् । | ||
Revision as of 09:04, 10 April 2026
मदधिर्मध्विति प्रोक्तो मदः सुखमिहोच्यते ॥ अ इत्याधिक्यमुद्दिष्टं मद् ज्ञानततिरुच्यते । तद्वत्ता ततिरुद्दिष्टा तेनानुभव ईरितः ॥ अधिकोऽनुभवो यस्य सर्वस्मादीप्सितादपि । सोऽयं मद इति प्रोक्तः सर्वं हि सुखसाधनम् ॥ तत्पूर्णो मधुनामा स्यात् तृतीयोऽतिशयार्थकः । देवानामुपजीव्यत्वात् स देवमधुनामकः ॥ आदित्वादाततत्वाच्च ज्ञानरूपत्वतस्तथा । आदित्य इति सम्प्रोक्तः प्रसिद्धमधुवच्च सः ॥ तिरोवंशादिसंयुक्तो द्युनाम्नी च द्युसंस्थिता । प्रकाशादिगुणैः श्रीस्तु वायोराश्रयरूपतः ॥ तिरोवंश इतिप्रोक्ता मध्वपूपस्तु मारुतः । तस्मिन् सन्निहितो विष्णुर्विशेषेण यतः सदा ॥ सोऽन्तरिक्षमितिप्रोक्तः स्वान्तस्सम्यग्घरीक्षणात् । अन्तरिक्षस्थितश्चासौ वस्वाद्या मधुकारिणः ॥ तत्पुत्रास्तु मरीच्याद्यास्सूर्यरश्मिषु संस्थिताः । तिर्यक् स्थित्वा वशे कुर्याद्यस्माद्देवी रमा हरिम् ॥ भक्त्यैवातस्तिरोवंशस्तिर्यक्त्वं प्रणतिः स्मृता । तिर्यक्स्थित्वा स्वसंस्थं तु वशीकुर्याद्यतस्ततः ॥ वंशस्तिरश्चीनोऽन्योऽपि यस्मिन्नाप्यमुपस्थितम् ।
सोऽपूप आप्यो भगवान् मध्वाज्यादिप्रसिद्धगम् ॥
प्राच्यरश्मिरिति प्रोक्तो वासुदेवाभिधो हरिः ॥ एतद्विद्या नालमिति नाडीत्यंश उदाहृतः । स्वरूपांशैर्विना प्राप्तुं नालं हि प्रापितांशिनम् ॥ ऋग्वेदमानिनश्चैव वह्न्याद्या वसवस्त्वृचः ।
अर्च्यत्वात् प्रथमं चैव विशेषाद्यज्ञदेवताः ॥
इन्द्रशब्दोदितो वायुः स याज्यः सोमभुक्पुरः ॥
स हि शङ्करपूर्वाणां रुद्राणां मुख्य एव च ।
इन्द्रो वरुण उद्दिष्टो यज्ञेषु व्रियते यतः । आदित्यानामधिपतिः स हि विष्णुनियोजितः ॥
विष्णुस्तूपास्यरूपत्वान्नोपासकगणे युतः ।
अथर्वाङ्गिरसां चैवाप्यथर्वाङ्गिरनामकाः । अधरं वर्तयेयुस्ते वृष्टिमङ्गरसास्तथा ॥
मानस्त्वात् प्राणरूपत्वादथर्वाङ्गिरसस्ततः ।
यावत् पश्यन्ति तं विष्णुं तावत् ते नान्यभोगिनः ॥ एतदेव विशन्त्यद्धा मोक्षे ते तत एव च ।
स्वेच्छयैव समुद्यन्ति मुक्ताः सन्तो बहिस्तथा ॥
वायोर्हिरण्यगर्भत्वात् पदद्वयमुदाहृतम् ॥ रुद्राणामाश्रयत्वं च साध्यानामपि सर्वशः । अतो यजुर्विचारश्च सर्ववेदात्मनस्तथा ॥ वायोरेव विचारः स्याद् ब्रह्मणोऽपि विशेषतः ।
उभयाश्रयः स मोक्षोऽपि वायुरेव हि सर्वदा ॥
ऋजवो ब्रह्ममुख्या हि सुपर्णः शेष एव च । सरस्वती सुपर्णी च वारुणी साध्यनामकाः ॥ अन्योन्यमुखता मुक्तौ ब्रह्मणा समता तथा । वाक्शेषादेर्मुखं ब्रह्मा मुक्तावपि विशेषतः ॥ द्रष्टोभयस्यापि शिवो द्वितीयस्यान्तगस्य च । मोक्षे त्वन्यत्र चैकस्य परतः शेषभावतः ॥ ये चेैतत्पदयोग्यास्स्युर्देवाः पञ्च महागणाः । तेषामपि यदोपासा निच्छिद्रा मधुनामके ॥ तदा वस्वादितां प्राप्य मुक्तिमेष्यन्त्यसंशयम् । उदेत्यास्तमयं यावद्याति भानुस्तु पर्वते ॥ उदयास्ताद्रिमध्यस्य वसवः पतयः स्मृताः । ततश्चास्तमयाद्यावदर्धरात्रं दिवाकरः ॥ दक्षिणादुत्तरं याति किञ्चित् पूर्वसमन्वितम् । तद्देशकालयोरीशा रुद्रा वायुपुरःसराः ॥ वसुभोज्यदर्धकालमर्धदेशस्तथैव च । रुद्रभोज्योऽर्धरात्रात्तु याम आदित्यदैवतः ॥ पश्चिमात् पूर्वमार्गस्तु रौद्रादर्धः प्रकीर्तितः । ततः परोऽर्धयामस्तु सौम्याद् दक्षिणमार्गकः ॥ मारुतः काल उद्दिष्ट आदित्यार्धश्च देशतः । पश्चात्पश्चादुदेत्येव पूर्वतोऽस्तमुपैति च ॥ ततस्तदर्धकालेन चोत्तरादुदितस्तथा । अस्तं दक्षिणतो याति स कालो मारुतः स्मृतः ॥ उदेत्यैन्द्रपुरे चोर्ध्वमर्वागुदयपर्वते । अस्तमेति तदर्धेन ब्रह्मा तस्य पतिः स्मृतः ॥ एकत्रिंशत्तु घटिकाः साधिका वसुदैवताः । तदर्धा रुद्रदैवत्यास्तत आदित्यदैवताः ॥ तदर्धा मारुता ब्राह्मास्तदर्धा देशतस्तथा ॥ इति च । रौद्रो द्विगुणीभूतो वसुकालो यावांस्तावान् भवतीति द्विस्तावत् । अर्ध इत्यर्थः । ब्राह्मे मुहूर्त इत्युषःकालस्य प्रसिद्धेश्च । रौद्रः काल इति पूर्वरात्रस्य प्रसिद्धेः । अपररात्रस्य सौम्यकालत्वाच्च तस्मिन् काले शीतमुत्पद्यते । मारुतकालत्वाद् वायुश्च वाति । आग्नेयकालत्वादेवाह्नि सैकघटिकं होमकर्माणि विशेषतः प्रवर्तन्ते । अहः सर्वं वसूनां तु परेषां रात्रिरेव च । प्रदत्ता विष्णुना पूर्वं नालमित्यब्रुवन् परे ॥ पुनर्विशेषतो दत्तं रुद्राणां मरुतां तथा । माध्यन्दिनं तृतीयं चाप्यादित्यानां प्रदत्तवान् ॥ विश्वेषामपि देवानां सामान्याद् वसुनामहः ॥ इति च । सर्वस्याधिपतिर्ब्रह्मा रुद्राद्यास्तु द्वयोर्द्वयोः । वसवस्त्वह्न एवेशाः सामान्यान्न विशेषतः ॥ इति च । माध्यन्दिने तृतीये च रुद्रादे राज्यमिष्यते । तद्भृत्यत्वात् वसूनां तु प्रातःकाले विशेषतः ॥ तत्रापि वाय्वधीनत्वमग्न्यादीनां प्रकीर्तितम् । एवं पृथिव्यां रुद्राणामन्तरिक्षं प्रकीर्तितम् ॥ मरुतां च द्विलोकेशा आदित्याः परिकीर्तिताः । सर्वेषामधिपो ब्रह्मा युवाधीशस्तु मारुतः ॥ त्रिलोकाधिपतिश्चेन्द्रस्तेषामप्यधिपो हरिः ॥ इति च । स्वाराज्यं भोगः । स्वरञ्जनात् । न त्विन्द्राद्यमो द्विगुणकालं तिष्ठति तस्माद्वरुणस्तस्माद् सोम इत्यत्र किञ्चिन्मानम् । न च सोमाद् द्विगुणेव ब्रह्मा तिष्ठति । द्विपरार्धं हि तस्य कालः । इन्द्रादयो हि मन्वन्तरमात्रं तिष्ठन्ति । न च वसूनां पूर्वोदेशो रुद्राणां दक्षिण आदित्यानां पश्चिमो मरुतामुत्तर एव । नान्यत्रेत्यत्र प्रमाणमस्ति । तत्पक्षे रुद्रैः सहेन्द्रस्य दक्षिणत्वप्राप्तेश्च । न चेन्द्रशब्देन वायुस्तैर्गृहीतः । अत इन्द्रादेवेन्द्रस्य द्विगुणकालत्वमिति विरोधः । इन्द्रादिपुरीणामुद्वासत्वेनैवमङ्गीकारे तत् षोडशगुणत्वाद् ऊर्ध्वोदयस्यैकेन्द्रात् परतोऽनिन्द्रत्वमेव स्यात् । अथ तं त ऊर्ध्वं उदेत्येति तत्पक्षे पश्चादप्यादित्यभावात् कल्पान्तलयो न स्यादित्यत्याद्यनन्तदोषदुष्टत्वेऽपि ग्रन्थाल्पत्वायैवोपरम्यते ॥ वस्वादीनां तु सर्वेषां सर्वदिक्षु पुराण्यपि । सन्त्येवमपि धीवृत्यै प्रत्येकं दिक्षुकथ्यते ॥ इति च । ऐन्द्रया उद्वासे रुद्राणामेवोदयाभाव इति च दोषः । अतो यत्किञ्चिदेतत् । उदेति पूर्वतः सूर्यो निम्लोचति च पश्चिमे । एवं नियम उद्दिष्टो ब्रह्मणा विष्णुचोदनात् ॥ द्विगुणं द्विगुणं कालमुदित्वा दक्षिणादिषु । मध्ये चावस्थितिः पश्चाद् ब्रह्माणं याचिता पुरा ॥ हिरण्यकेन सूर्यस्य हिरण्याक्षेण वै पुनः । तदासुराणां देवत्वं ब्रह्मा तत्प्रददौ तयोः ॥ तच्छ्रुत्वेन्द्रादिभिः प्रोक्तः कथं प्रादा वराविमौ । देवता हि विनश्येयुरेवं दत्ते वरे त्वया ॥ इत्युक्तो देवतैः प्राह ब्रह्मा लोकपितामहः । न मया स वरो दत्तो दैतेयानां सुराः क्वचित् ॥ येन युष्मद्विनाशः स्यात् ततो व्यैतु च वो भयम् । दक्षिणाद्युदयो यस्तु स हि दैनन्दिनो मया ॥ अभिप्रेतो नैव चायं कालान्तरगतः क्वचित् । अर्धनाड्युत्तरा नाडीः सकाष्ठा नित्यशो रविः ॥ पञ्चादशोत्तरां गच्छेत् पूर्वं रात्रे तु दक्षिणात् । तदर्धं पश्चिमात् पूर्वं तदर्धं चोत्तरादपि ॥ दक्षिणां च तदर्धं स ऊर्ध्वादर्वाक्च गच्छति । दक्षिणाद्युदयस्त्वेष न तु कालान्तरे क्वचित् ॥ यदोत्तरस्मात् द्विगुणः पूर्वो भवति वै सुराः । तदापि द्विगुणत्वं स्यात् तन्मयाऽत्र विवक्षितम् ॥ अहःसाम्येऽपि क्रमश आतपस्याल्पकालतः । गिर्यावृत्तेः क्षिप्रमन्येषूदयास्तमयाविव ॥ कालान्तरे भाविनं तु दक्षिणाद्युदयं पुनः । अपेक्ष्यैव वरो दत्तो द्वितीयो देवता मया ॥ समयश्च कृतो नित्यो मया सूर्यस्य चानघाः । पूर्वस्मादुदयो नित्यं पश्चिमेऽस्तमयस्तथा ॥ नियमो नान्यथाऽयं स्यात् कदाचित् केनचित् क्वचित् । तस्मान्न वो भयं क्वापि प्रोक्ता इत्थं सुरास्तदा ॥ विशोका अभवन् सर्वे ययुः स्वं स्वं निकेतनम् ॥ इति च । एतदेव मोक्षधर्मेषु बलिवासवसंवाद उक्तम् । देवान् प्रति ब्रह्मणो वचनं रहस्यत्वादविज्ञाय बलिना दक्षिणाद्युदय उक्तः । इन्द्रेण तु ब्रह्मवचनं जानता दक्षिणाद्युदयो नास्तीत्युक्तम् । दैतेययोर्वरं ज्ञात्वा त्वविज्ञाय सुरान् प्रति । ब्रह्मणोक्तं हि बलिना वासवं प्रत्युदीरितम् ॥ दक्षिणाद्युदयान्ते तु त्वां जेष्यामि पुरन्दर । इत्युक्तस्तमुवाचेन्द्रो न कदाचन तद्भवेत् ॥ ब्रह्मणा नियमो यस्मात् कृतः प्रागुदयो रवेः । इत्युक्त्वा तु जगामेन्द्रो दिवमैरावतस्थितः ॥
इति च ॥ ६१० ॥
आदानाद्वापि देवानामूर्ध्वं गच्छति मण्डलात् ॥ प्राप्य वैकुण्ठलोकं च नोदेत्यस्तं न चैति सः । एकलः प्रलये स्थाता देवता नात्र संशयः ॥ तेन सत्येन न व्यृदि्धमाप्नुयां ब्रह्मणा क्वचित् ।
इत्युवाच पुरा ब्रह्मा देवेभ्यः स चतुर्मुखः ॥
विरिञ्चिर्मनवे प्राह प्रजाभ्यो मनुरेव च ॥ पूरयित्वा तु पृथिवीं रत्नैः सप्तसमुद्रिणीम् । दत्वापि गुरवे नैव पूर्यते गुरुदक्षिणा ॥ देवास्तूपासनायोग्या एकैकस्यामृतस्य हि । सर्वस्योपासने ब्रह्मा तदन्ये ज्ञानमात्रके ॥ उपासने नैव योग्यास्तद्योग्या हि सुरा यतः ॥ इति देवश्रुतौ ।
ब्रह्मणा परेण मा विराधिषि । भगवत्प्रसादादवृदि्धं न प्राप्नुयामित्यर्थः ॥ ११ ॥
यदिदं परितः पूर्णं मत्स्यकूर्मादिरूपकम् । तदिदं भगवान् विष्णुस्सर्वान्तःस्थित एव च ॥ तन्निःसृतत्वाद् वेदानां गायकस्त्राति चाखिलम् । अतो गायत्रिनामासौ वासुदेवः परः पुमान् ॥ भूमा भूतमिति प्रोक्तः पूर्णत्वात् पुरुषोत्तमः । अनन्यापेक्षमुद्रिक्तं सर्वस्य च नियामकम् ॥ यद्यत्तत्तद्विष्णुरेव नान्यदेतादृशं क्वचित् । स एव भगवान् विष्णुर्वाङ्ग्नामा वाचि संस्थितः ॥
वचनाद्धयशीर्षाख्यो गायत्र्यां च स आस्थितः ।
विष्णौ हि पृथिवीसंस्थे जगत्सर्वं प्रतिष्ठितम् । नातिशेते च तं कश्चित् स हि सर्वाधिको हरिः ॥
पृथुत्वात् पृथिवीनामा ........ ..........
शरित्वादीरणाच्चैव शरीरं भगवानजः ॥
पुरुषो जीव उद्दिष्टस्तस्मिन्नेव स्थितो विभुः ।
शन्त्वाच्च रतिरूपत्वादीरणाच्च स एव तु । जीवचैतन्यरूपस्य हृदयेऽपि व्यवस्थितः ॥
अयनाद्धृदि विष्णुः स हृदयं कीर्तितो बुधैः ।
द्वितीयश्चैव मत्स्यादिर्भूतनामावतारगः । तृतीयो वाचि संस्थश्च स्त्रीरूपो हयशीर्षकः ॥ चतुर्थः पृथिवीसंस्थः स्त्रीरूपः पीतवर्णकः । जीवस्यान्तर्गतो व्याप्य शरीरमितिनामकः ॥ पञ्चमस्तद्धृदिस्थस्तु षष्ठो हृदयनामकः । गायत्रीनामको विष्णुरेवं षडि्वध उच्यते ॥ त्रिभिः स्वरूपपादैश्च भिन्नेनैकेन चैव हि ।
गायत्रीनामको विष्णुश्चतुष्पात् सम्प्रकीर्तितः ॥
स्वरूपपादा विष्णोस्तु त्रयो हि दिवि संस्थिताः ॥ नारायणो वासुदेवो वैकुण्ठ इति ते त्रयः । अनन्तशयनं चैव तथाऽनन्तासनं हरेः ॥ बहुलक्षोच्छ्रिते नित्ये विमाने संस्थिते यतः । चित्प्रकृत्यात्मनि ततो दिवीति कथितं श्रुतौ ॥ लोकत्रयविवक्षायां परतो लक्षयोजनम् । सर्वं द्यौरिति विज्ञेयं ततस्ते दिविसंस्थिताः ॥
दिवः परश्च भगवान् सप्तलोकविवक्षया ।
स एव जीवस्य बहिर्हृदयाकाश आस्थितः । योऽयं हृदयगः सोऽथ जीवान्तर्व्याप्य संस्थितः ॥ व्याप्तो जीवान्तरे योऽसौ स जीवहृदि संस्थितः । एवं चापि चतुष्पात्त्वं वासुदेवस्य कीर्तितम् ॥ स एव पूर्णो भगवानप्रवर्त्यस्तथाऽखिलैः । अन्यैः प्रवर्त्यते योऽसौ स प्रवर्तीति गीयते ॥ अप्रवर्त्यो हरिर्नित्यस्वतन्त्रत्वात् सदैव च । अस्य प्रवृत्तिर्नास्तीति सोऽप्रवर्तीति कीर्तितः ॥ पूर्णा स्वतन्त्रा श्रीश्चास्य वेत्तुर्भवति शाश्वती । साक्षाद्गायत्र्युपासायां योग्य एकश्चतुर्मुखः ॥ तस्मादननन्यतन्त्राऽस्य श्रीर्भवेन्नान्यथा क्वचित् । विष्णुतन्त्रत्वमस्य स्यात् परेषां तस्य तन्त्रता । यथाक्रमेण तन्त्रत्वं योग्यताक्रमतो भवेत् ॥ इति सत्तत्त्वे । ब्रह्मशब्दाच्च भगवानित्यवसीयते । पूर्णाप्रवृत्तित्वं च तस्मिन्नेव मुख्यम् । तावानस्य महिमेति मन्त्राच्च । पादोऽस्य विश्वा भूतानीति जीवानां चतुष्पादान्तर्भावात् । भूतं यदिदं किञ्चेति षडि्वधान्तर्भूतं भूतं मत्स्याद्यवताररूपमेव । द्वाविंशेष्ववतारेषु जीवोऽप्युक्तो यथा पृथुः । तथा पादेषु चतुर्षु सान्निध्याज्जीव ईरितः ॥ यथा कालः पुमान् व्यक्तं प्रकृतिश्च परस्य तु । विष्णो रूपाणि गण्यन्ते पररूपेण वै सह ॥ एवं भूतानि गण्यन्ते भिन्नान्यपि पदैः सह । मूर्तामूर्ते यथा रूपे ब्रह्मणस्तु तथैव च ॥ भिन्नान्यपि तु भूतानि पदानि स्वपदैः सह ॥ इति प्राथम्ये । सुदर्शनाख्यं स्वास्त्रं तु प्रायुङ्क्त दयितं त्रिपात् इति श्रीभागवते प्रयोगाच्च न जीवो भगवत्स्वरूपम् । सुवर्चला यथा सूर्यपत्न््नयंशः समुदाहृता ।
एवं जीवा भगवतो वस्तुभेदेऽपि सर्वदा ॥ इति च ॥ १२ ॥
तेजोऽन्नाद्यभिमानी च प्राग्द्वाराधिपतिर्हरेः ॥ दक्षिणाधिपतिस्सोमो व्यानः श्रोत्राभिमानवान् । यशोलावण्यरूपश्च पश्चिमद्वारपस्तथा ॥ वागपानात्मको वह्निर्ब्रह्मतेजोऽन्नदेवता । उत्तरद्वारपस्त्विन्द्रः समानो मनआत्मकः ॥ कीर्त्यैश्वर्यात्मको नित्यमूर्ध्वद्वारप एव च । प्रधानवायुराकाशः सर्वज्ञादुन्नतेस्तथा ॥ उदान ऊर्जितत्वात् स ओजः पूर्णत्वतो महः । परस्य ब्रह्मणस्त्वेते पुरुषाः पञ्च कीर्तिताः ॥ द्वारपा हृदये चैव विष्णुलोके च सर्वदा । आन्तरद्वारपा ह्येते जयाद्या बाह्यतः स्मृताः ॥ एवमेतानुपास्यैव तद्गुणांशांशभाग् भवेत् ।
विष्णुलोकं तथा गच्छेद् भवेदपि सुसन्ततिः ॥
स एव सर्वलोकेषु विश्वतो ब्रह्मणस्तथा ॥ उच्चेषूत्तमलोकेषु तथा प्रत्यवरेषु च । पुरुषेषु च सर्वेषु स एकः संव्यवस्थितः ॥ प्राणसंस्थस्स वै विष्णुः प्राणोऽग्नौ संव्यवस्थितः । स्पर्शेन दृश्यते चाग्निस्तद्दृष्टिरिव सा ततः ॥ स प्राणः स्तौति तं विष्णुं सा स्तुतिः श्रूयते सदा । कर्णौ पिधाय तद्विद्वान् दिव्यचक्षुः सुकीर्तिमान् ॥ मुक्तो भूत्वा भवेद्यस्मादुपासीतैव सन्ततम् ॥ इति संस्तत्त्वे । दिक्षु यानाद्यशो व्याप्तं कीर्तिः प्रत्यक्षतः स्तुतिः इति शब्दनिर्णये । सर्वतः पृष्ठेषु सर्वत उच्चेषु वैकुण्ठक्षीरसागरानन्तासनादिषु विश्वतो ब्रह्मणोऽप्युच्चेषु । तत उत्तमोऽन्यो नास्तीत्यनुत्तमाः सर्वतः स्वयमुत्तमाः । पृथिवीस्थेषु सर्वोच्चो लोकोऽनन्तासनात्मकः । अन्तरिक्षात्मकेभ्यश्च श्वेतद्वीपे स्थितो हरेः ॥ द्व्यात्मकेभ्यश्च सर्वेभ्यो वैकुण्ठश्चोच्च उच्यते । पृथिव्यां द्यौर्महामेरुराकाशे सूर्यमण्डलम् ॥ दिवीन्द्रसदनं चैव तत्परे तु दिवः परे । पृथिव्यां ब्रह्मणो मेरौ जयन्तं त्वन्तरिक्षगम् ॥ तृतीयं सत्यलोके च सदनं त्रिविधं स्मृतम् । तेभ्योऽनन्तासनाद्या यत्परतो विश्वतः परः ॥ इति सत्तत्वे । निनदः समुद्रघोषः स्यान्नदथुर्मेघसम्भवः इति सत्तत्वे ।
चक्षुष्यश्चक्षुषि ब्रह्मण्येष यातीत्युपासकः इति च ॥ १३ ॥
तच्च ब्रह्मजलान् साक्षाद्योऽसौ विष्णुर्जलेऽनिति ॥ आनीदवातमिति यं वेदवागवदत् स्फुटम् । अप्रकेते तु सलिले ब्रह्म नारायणोऽपि सः ॥ इति शान्त उपासीत यस्माज्ज्ञानमयः पुमान् । क्रतुस्तु निश्चितं ज्ञानं तद्वशः पुरुषो मृतौ ॥ तस्माद्विनिश्चितं ज्ञानं कुर्याद्विष्णौ महद्गुणे । महाज्ञानात्मकत्वात् तु प्रोक्तो विष्णुर्मनोमयः ॥ यस्माद्बलशरीरोऽसावतः प्राणशरीरकः । आसमन्तात् प्रकाशात् स आकाशात्मा प्रकीर्तितः ॥ सर्वगन्धादिरूपश्च भोक्ता चैषां सदैव हि ।
इति निश्चयकृद्याति तमेव पुरुषोत्तमम् ॥ इति सद्गुणे ।
आनन्देच्छास्वरूपोऽसौ कोशो विष्णुः प्रकीर्तितः ॥ तस्योदरेऽन्तरिक्षं च पृथिवी पादबुध्नयोः । शिरोविवरगा द्यौश्च दिशो बाहुषु संस्थिताः ॥ अजरोऽयं महाविष्णुर्वसवो देवतागणाः ।
तेषां निधानं भगवांस्तस्मिन् सर्वमिदं श्रितम् ॥
जुहूः स होमकर्तृत्वाद् भुङ्क्ते ह्येतेन केशवः ॥ दक्षिणस्त्वधरो बाहुर्दक्षिणादिक् स्थितो विभोः । सहमानेति स प्रोक्तो मानं वेदात्मकं यतः ॥ शङ्खो वेदात्मकः शङ्खसहितो दक्षिणाधरः । बाहुर्जुहोति चक्रेण शत्रूनित्यथवा जुहूः ॥ प्रतीचीदिक्स्थितस्तस्य वामबाहुस्तथोत्तरः । राजीयुक्तगदायुक्तो राज्ञीनामा प्रकीर्तितः ॥ अधरो वामबाहुर्य उत्तरादिक्स्थितो विभोः । श्रिय आधारपद्मित्वात् सुभूतानामकः स्मृतः ॥ दिङ्ग्नामानश्च ते प्रोक्ता धर्मज्ञानादिदेशनात् । तेभ्यो जातो महावायुर्दिशां वत्सस्ततः स्मृतः ॥ धर्मज्ञानादिरूपेण विष्णोर्बाहुचतुष्टयात् । जातं वायुं विदित्वैव पुत्रो भूत्वा न रोदिति ॥ न जायते न म्रियते मुक्तो भूत्वा सुखी भवेत् । वायुं हरेः सुतं ज्ञात्वा नाहं पुत्रतयाऽरुदम् ॥ हरेः प्रसादसामर्थ्यादजरा चामरा ह्यहम् ।
अनादिकालसम्बन्धादित्युवाच परा रमा ॥
प्रपद्ये तत्प्रसादेन केवलं नात्मशक्तितः ॥ प्राणं सर्वप्रणेतारं प्रपद्ये केशवं सदा । प्रभूतं यदिदं किञ्चित् प्रादुर्भावात्मकं हरेः ॥ मत्स्याद्यं तत्प्राण एव विष्णुर्नास्त्यत्र संशयः । तस्मान्मत्स्यादिरूपं तं विष्णुमेव प्रपद्यथ ॥ हे जना इत्यवोचत् सा लक्ष्मीः सर्वाः प्रजाः प्रति । प्राणनामा वासुदेवो मोक्षं स्वान् प्रणयेद्यतः ॥ सङ्कर्षणस्तु भूर्नामा भूषयेज्ज्ञानतो यतः । स पृथ्व्यां पृथिवीनामा स्वात्मानं प्रथयेद्यतः ॥ अन्तरिक्षेऽन्तरिक्षाख्यो यतः साध्वन्तरीक्षते । दिवि द्युनामा स विभुः सर्वक्रीडाकरत्वतः ॥ प्रद्युम्नश्च भुवोनामा सृष्ट्या यद्भावयेज्जगत् । सोऽग्निनामा परो वह्नावत्ति सर्वं यतो हुतम् ॥ वायुनामा स वायुस्थो वात्यायुश्च यतोऽस्य तत् । आदित्याख्यः स आदित्ये आददात्यायुरस्य यत् ॥ स्वर्नामा त्वनिरुद्धोऽसौ परानन्दप्रदत्वतः । ऋग्वेदाख्यः स ऋग्वेदे ज्ञानं वेदयते यतः ॥ यजुर्वेदो यजुर्वेदे यज्ञं वेदयते यतः । सामवेदः सामवेदे साम्यं वेदयते ह्ययम् ॥ एवं चतुर्विधं तत्त्वं तदवोचमहं हरेः । इत्युवाचेन्दिरा देवी स्तुवन्ती परमं हरिम् ॥ इति च ।
पुल्लिङ्गेनोच्यते स्त्री च पुंवच्छक्तिमती यदि इति च ॥ १५ ॥
कुर्वीत पुरुषो नित्यं तस्य यत्षोडशोत्तरम् ॥ शतमायुस्तत्सवनत्रयमीरितमुत्तमम् । चतुर्विंशत्तु यत्पूर्वं प्रातःसवनमेव तत् ॥ प्रार्थयित्वा वसूंस्तद्गं पुमान् मृत्युमपानुदेत् । मध्ये चतुश्चत्वारिंशन्मध्यमं सवनं स्मृतम् ॥ रुद्राणां प्रार्थनेनात्र पुमान् मृत्युमपानुदेत् । ततोऽष्टचत्वारिंशत् तु तृतीयं सवनं स्मृतम् ॥
आदित्यानां प्रार्थनेन तद्गं मृत्युमपानुदेत् ॥ इति सर्वयज्ञे ।
महिदासस्त्वैतरेयः कृष्णोऽन्यो देवकीसुतः । कपिलश्च द्वितीयोऽन्यस्त्रय एते पुरा नराः ॥ सङ्गत्योच्चैस्तपस्तेपुर्ब्रह्मणे परमेष्ठिने । मातुः स्वस्य च नामैक्यं विष्णुना स्यादिति ह्युभौ ॥ स्वात्मशिष्यप्रशिष्याणां नामैक्यं कपिलस्तथा । एवमेव च वेदोक्ता भवेमेति त्वतन्द्रिताः ॥ तान् वरान् प्रददौ तेषां ब्रह्मा लोकपितामहः । तस्मात् तन्नामिनश्चासंस्त्रयस्ते मुनयोऽपि हि ॥ महिदासस्त्वैतरेयो बह्वृचोपनिषद्गतः । साक्षात् स भगवान् विष्णुस्तन्नामैको मुनिर्ह्यभूत् ॥ कृष्णस्तु वासुदेवाख्यः परमात्मैव केवलम् । तन्नामा देवकीपुत्रस्त्वन्योऽप्यभवदञ्जसा ॥ कपिलो वासुदेवाख्यः साक्षान्नारायणः प्रभुः । तन्नामा कपिलोऽन्यस्तु शिष्यनाम्ना सहाभवत् ॥ स षोडशशतञ्जीवी महिदासोऽपरस्त्वृषिः । घोरशिष्यस्तथा कृष्णः कपिलश्च कुशास्त्रकृत् ॥ त्रय एते वरं प्राप्य ब्रह्मणः परमेष्ठिनः । कृतकृत्याः प्रमुमुदुस्तन्नामानश्च तेऽभवन् ॥
इति कालकीये ॥ १६ ॥
दीक्षा भोजनपाने च रतिश्चोपसदः स्मृताः ॥ व्यवायहासभक्षास्तु स्तुतशस्त्रात्मकाः स्मृताः । तपो दानार्जवाहिंसाः सत्यमप्यस्य दक्षिणाः ॥ सोष्यत्यसोष्टेति ततो यज्ञवत्पुत्रजन्मनि । आहुर्हि पुनरुत्पत्तिं प्रसवः प्रथमा पितुः ॥ यज्ञस्नानं तु मरणं तदा ध्यायेत् त्रयं पुमान् । भगवन्नक्षयोऽसि त्वमच्युतोऽसि गुणैः सदा ॥
प्राणाच्च सुखितो नित्यमाधिक्येनेति चिन्तयेत् ॥ इति सत्तत्त्वे ।
रतिरूपं परं ज्योतिरनादेः केशवस्य यत् । तत्प्रसादेन पश्यन्ति हृदि वासाद्रतिप्रदम् ॥ यत्पूर्णं सर्वदा भाति वैकुण्ठे परतो दिवः । तदुदाख्यं प्रपश्यन्तो निर्गत्य तमसो वयम् ॥ ज्योतिरानन्दसद्रूपमुत्तमोत्तमसूत्तमम् । देवानां दैवतं साक्षात्सूरिप्राप्यं परं पदम् ॥ प्राप्ताः स्म वासुदेवाख्यमिति मन्त्रदृगब्रवीत् ॥
इति नारायणीये ॥ १७ ॥
स एवाकाशसंस्थश्च मन आकाशनामकः ॥ मननान्मन आकाश आसमन्तात् प्रकाशनात् । वासुदेवादिभेदेन स वागादिषु संस्थितः ॥ अग्न्यादिषु च तन्नामा वागादिस्थः स एव तु । अग्न्यादिस्थैः सहैवेशो भाति दुष्टांस्तपत्यथ ॥ एवं विद्वांस्तमीशेशं यशोज्ञानसुखात्मताम् । कीर्तिं च ब्रह्मसम्प्राप्त्या वरतां मुक्तिगामपि ॥
प्राप्य भाति तपत्यद्धा स्वाज्ञानादिकमेव च ॥ इति च ॥ १८ ॥
प्रलये वासुदेवाख्यं गम्यं सदभवद्विदाम् ॥ तत्प्रकृत्या समभवत् तत आण्डमजायत । तस्मिन्नादित्यनामासावभवत् सूर्यमण्डले ॥ नियन्तैव च सूर्यस्य भगवान् पुरुषोत्तमः । तस्मिन्नादित्यनामानमादित्यस्थं जनार्दनम् ॥ ब्रह्मोपासीत परमं सर्ववेदज्ञता ततः ॥ इति ब्रह्मतत्त्वे । उलूलव उरूरव । अतिमहान्तो गायत्र्यादिघोषाः उप च निम्रेडेरन् । मुक्ते तस्मिन्नेव वसेयुः । सूर्यबिम्बस्थिते विष्णौ जायमाने परात्मनि । गायत्रीपूर्वकैर्वेदैर्ब्रह्माद्यास्समुपस्थिताः ॥ उपतिष्ठन्त्यतो नित्यं गायत्र्यादिभिरञ्जसा ।
तद्विद्वान् मुक्त आवासो वेदानां सर्वदा भवेत् ॥इति च ॥ १९ ॥